________________
४०२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतेनेति तृतीयान्तादिति-तृतीयान्ता प्रकृतिः "तं प्रत्यनोर्लोमेपकूलात्" (६।४।२८) इति सूत्रं यावत् अनुवर्तनीया।
दाधिकमिति । "संस्कृते" (६।४।३)। इकण् । सत उत्कर्षाधानं संस्कारः । दना संस्कृतं दाधिकम् । उपाध्यायेन संस्कृतः औपाध्यायिकः शिष्यः । विद्यया संस्कृतो वैधिकः । ५ अत्रायमपवादः-"कुलत्थकोपान्त्यादण्" (६।४।४)। कुलत्थैः संस्कृतं कौलत्थम् । अन्ये तु सकाराक्रान्तथकारान्तकुलस्थशब्दात्प्रत्ययं मन्यन्ते-कौलस्थः । कोपान्त्य. तित्तिरिकेण तित्तिरीकाभिर्वा संस्कृतं तैत्तिरीकम् । दर्दुरूकेण दा१रूकम् । मण्डूकेन माण्डूकम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्तिमौद्गम् , सारघम् । “संसृष्टे" (५।४।५) ऽप्येवम् । मिश्रणमात्रं संसर्ग इति पूर्वोक्तासंस्कृताद्भेदः ।
दना संसृष्टं दोधिकम् । शार्ङ्गबेरिकम् । पैष्पलिकम् । वैषिका भिक्षा । आशुचिकमन्नम् । अत्र विशेषाः१० “लवणादः" (६।४।६) । लवणेन संसृष्टो लवणः सूपः (शाकः, लवणा यवागूः) । लवणशब्दो
द्रव्यवाची गुणवाची च । तत्र द्रव्यवाची प्रत्ययं प्रयोजयति न गुणवाची, गुणेन विश्लेषपूर्वकस्य संसर्गस्यासंभवात् ॥ "चूर्णमुगाभ्यामिनणो" (६४७) । चूर्णैः संसृष्टाश्चर्णिनोऽपूपाः, मुद्रः संसृष्टा मौद्गी यवागूः ॥ “व्यञ्जनेभ्य उपसिक्ते" (६।४।८) व्यञ्जनशब्दो रूढितः सूपादौ वर्त्तते । उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । सूपेनोपसिक्तः सौपिको, १५दाधिक ओदनः । घार्तिकं तैलिकं शाकम् । व्यञ्जनेभ्य इति किम् ? उदकेनोपसिक्तः ओदनः । उपसिक्ते इति किम् ? सूपेन संसृष्टा स्थाली । उपसिक्कं संसृष्टमेव तत्र "संसृष्टे” इत्येव सिद्धे नियमार्थ वचनम्-व्यञ्जनैस्संसृष्टे उपैसिक्त एव उपसिक्ते च व्यञ्जनैरेव । बहुवचनं स्वरूपविधेर्निरासार्थम् ।।
औडुपिक इति-"तरति” (६।४।९) । तृतीयान्तादस्मिन्नर्थे इकण् स्यात् । काण्डप्लविकः (शारप्लविकः गौरपुच्छिका ॥ "नौद्विखरादिकः” (६।४।१०)। नौशब्दाद्विस्वराच नाम्नस्तृतीयान्ता२० त्तरत्यर्थे इकः प्रत्ययो भवति । नाविकः । द्विस्वर. घटिकः, प्लविकः दृतिकः बाहुकः बाहुका । हास्तिक इति-"चरति” (६।४।११) तृतीयान्तादस्मिन्नर्थे इकण् । चरतिरिह गयर्थों भक्ष्यर्थश्च गृह्यते । गत्यर्थ. शाकटिकः, घाण्टिकः, आकर्षिकः आकर्षः सुवर्णनिकषोपल औषधपेषणपाषाणश्च । भक्ष्यर्थ. दना चरति दाधिकः शाङ्गबेरिकः ।
आदिशब्दात् "पोदेरिक" (६।४।१२) तृतीयान्तेभ्यः एभ्यश्चरत्यर्थे इकट् स्यात् । पर्पण २५ चरति पर्पिकः पर्पिकी । पर्य, (अश्व, ?) अश्वत्थ, रथ, अर्घ्य, व्याल, व्यास, इति पादयः षद् ।।
"पदिकः” (६।४।१३) पादशब्दात्तेन चरत्यर्थे इकट् स्यात् , अस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः ॥ "श्वगणाद्वा" (६।४।१४) अस्मादिकट् स्यात् , वा । श्वगणेन चरति श्वगणिकः, श्वगणिकी; पक्षे इकण्-श्वागणिकः; एषु द्वारादेः (७४।६) इति वकारात् प्रागौकारे प्राप्तेऽपवादसूत्रम्श्वादेरिति (७४।१०) श्वन शब्द आदिरवयवो यस्य तस्य श्वादेर्नान्न इति इकारादौ किणति तद्धिते ३० परे वः प्रागौकारो न भवति । श्वभखस्यापत्यं श्वाभस्त्रिः । श्वाशीर्षिः, श्वादंष्ट्रिः । एवं श्वागणिकः,
प्रत्ययार्थ जितग्रहणम् । अयमर्थ:-जयतीत्युक्त जयति जेष्यति अजैषीदिति लभ्यते किं जितग्रहणेन । उच्यते । भूते कर्मण्यपि वाच्ये यथास्यादित्येवमर्थम् । विवक्षित इति अतीतः कालः ।
१ सरघाभिः कृतं 'नाम्नि मक्षिकाभ्यः' इत्यण् । सारन मधुना संस्कृतः। २ अत्र संसृष्टः शाकादिभक्ष्यं विवक्षितम् । अन्यथा 'व्यजनेभ्य उपसिक्के' इति नियमः स्यात् । ३ मात्रानभोज्यार्थ पश्चाद्भावनायामभक्ष्यखादतोऽनियमः। ४ सूपेन संसृष्टा स्थालीयनुपसिक्ते संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था। ५ उदकेनोपसिक्त ओदन इत्युदकादव्यजनाम भवतीति प्रकृतिव्यवस्था।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org