________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽर्थे । जिताधर्थाः आदिशब्दात् "संवत्सरात्फलपर्वणोः” (६।३।९०) अस्मात्फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा । फलपर्वणोरिति किम् ? सांवत्सरिकं श्राद्धम् ॥ ६९ ॥
हेमन्ताद्वा तो लुक् च ॥ ७० ॥ [सि० ६।३।९१] असाद्वारा तयोगे तलुक् च वा । हैमनं हैमन्तं हैमन्तिकम् ॥ “प्रावृष एण्यः” (६।३।९२) शेषे । प्रावृषेण्यः । *जाते त्विक:-प्रावृषिकः ॥ ७० ॥
____* पूर्णः शेषाधिकारः । अणोऽप्यवधिः पूर्ण __ "हेम०"। हेमन्तशब्दाहतुवाचिनः शेषेऽर्थेऽण् वा स्यात् , तद्योगे च तकारस्य लुप् वा स्यात् , नित्यमृत्वणिप्राप्ते विभाषेयम् , तथा च त्रैरूप्यम् , तदन्तविधिना पूर्वहेमनम् , "अंशाहतोः” (७।४।१४) इत्युत्तरपदवृद्धिः । "प्रावृ०" । ऋत्वणोऽपवादः । प्रावृषि भवः प्रावृषेण्यः । *जाते त्विक इति-परत्वादिति शेषः । एण्य इति प्रत्यये मूर्द्धन्यो णकारो "निर्निमित्तकः प्रावृषेण्ययतीति किपि १० प्रावृषण् इति मूर्द्धन्यार्थः। __ अत्रायं विशेष:-"स्थामाजिनान्ताल्लुप्" (६।३।९३)। स्थामनशब्दान्तादजिनान्ताच परस्य शैषिकस्य प्रत्ययस्य लुप् स्यात् । अश्वत्थामनि जातो भवो वा अश्वत्थामा "अ: स्थानः" ( ६।१।२२) इति प्राजितीयेऽर्थे उत्पन्नस्य अप्रत्ययस्यानेन लुप् स्यात् । ततश्च "नोऽपदस्य.” (७४।६१) इत्यन्त्यस्वरादिलुप् न भवति सिंहाजिने जातो भवो वा सिंहाजिनः, उलाजिनः, वृकाजिनः । भवार्थस्यैव लुप-१५ मिच्छन्त्यन्ये, तन्मते अश्वत्थानोऽयं तत आगतो वा आश्वत्थामः । एवं सैंहाजिनः, वार्काजिन इत्यादौ प्रत्ययलुप् न भवति ।
शेषार्था दर्शिताः पूर्वं येऽत्र तत्र कृतादयः । सप्रत्ययाः प्रकृतयस्तेषामेता निरूपिताः ॥ १ ॥
तथा चाह पूर्णः शेषाधिकार इति, अणोऽप्यवधिः पूर्ण इति। *जितादिष्वर्थेषु यथायोगमिकणादयो वक्तव्याः । अर्जित आक्षिकः । दना संस्कृतं संसृष्टं २० वा दाधिकम् । उडुपेन तरति औडुपिकः नाविकः । हस्तिना चरति हास्तिकः । वेतनेन जीवति वैतनिकः । क्रयिकः । मीनान् हन्ति मैनिकः । परदारान् गच्छति पारदारिका । सुखातं पृच्छति सौनातिकः । प्रभूतं ब्रूते प्राभूतिकः । सेनां समवैति सैनिकः । धर्म चरति धार्मिकः । आधमिकः । अपूपाः पण्यमस्य आपूपिकः । नृत्तं शिल्पमस्य नार्तिकः । असिः प्रहरणमस्य आसिकः। (नास्तिकास्तिकादयो निपात्याः)
अथ इकण अधिकरिष्यते, वक्ष्यमाणार्थेषु अपवादं मुक्त्वा इकण् भवतीत्यर्थः । इकणर्थान् संक्षेपेणाह-*जितादिष्विति । आक्षिक इति-अत्र सूत्रम् “तेन जितजयद्दीव्यत्खनत्सु" (६।४।२)। तेनेति तृतीयान्ताजिताद्यर्थचतुष्टये इकण स्यात् । अक्षैर्जितः अक्षैर्जयति अभैर्दीव्यति आक्षिकः, शालाकिकः । अभ्या खनति आभ्रिकः, कौदालिकः, अभ्री काष्ठमयी तीक्ष्णामा । "अभ्रिस्तु काष्ठकुद्दालः" इति कोषः । इह तेनेति करणे तृतीया ज्ञेया, तेन हेतुक दितृतीयान्तादिकण् न स्यात्-देवदत्तेन जितं ३० धनेन जितमिति । अभ्या खननङ्गुल्या खनति-अत्र मुख्यः करणभावोऽध्या एव नाङ्गुलेरित्यङ्गुलिशब्दान्न भवति । जयदादिषु त्रिषु कालो नै विवक्षितः जिते तु विवक्षितः । बहुवचनं पृथगर्थताविभक्त्यर्थम् ॥३२
१ नतु 'रषुवर्ण'-इत्यनेन मूर्द्धन्यार्थ इति । अन्यथा नलोपरूपे परे कार्ये 'णषम'-इति णवस्यासत्त्वादन्त्यखाच 'रषवर्ण'इत्यप्रवृत्तौ 'नानो नोऽनहः' इति नलोपेऽनिष्ट रूपं स्यात् । २ कर्ता तु विवक्षितोऽत एव जयद्रहणे सत्यपि कर्मण्यपि इकण.
है. प्रका. पू. ५१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org