________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
“वर्षा०” अणपवादः । दोरीयमपि परत्वाद्वाधते । वर्षासु भवो वार्षिकः "ऋतोर्वृद्धिमद्विधावयवेभ्यः” इति न्यायसूत्रम्-ऋतोणित्प्रत्ययस्तदवयवादेर्ऋत्वन्तादपि स्यात् - पूर्ववार्षिकः अपरवार्षिकः “अंशाद्द्तोः” (७|४|१४ ) इत्युत्तरपदवृद्धिः । एवममुत्तरत्रापि । मासिक इति-वर्षाग्रहणमृत्वण्बाधनार्थम् । कालशब्दः कालविशेषवाची - भर्त्तु सन्ध्यादेरित्यत्र सन्ध्यादिग्रहणात् । स्वरूपग्रहणे हि ५ काललक्षणेकण्बाधकं सन्ध्यादिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथंचित्कालवृत्तिभ्यः प्रत्ययप्रापणार्थम् (निशासहचरितमध्ययनं निशा, प्रदोषसहचरितं प्रदोषः, तत्र जयी नैशिकः प्रादोषिकः ) कदम्बपुष्पसद्दचरितः कालः कदम्बपुष्पम् । व्रीहिपलालसहचरितः कालो व्रीहिपलालम्, तत्र देयमृणं कादम्बपुष्पिकं ब्रैहिपलालिकम् || कालशब्दाच्च कालार्थादकालार्थाच्च कालतः । अकालादपि कालार्थात् कालेभ्य इति “यो विधिः" ॥ १ ॥ एवं “ शरद: श्राद्धे कर्म्मणि" (६।३।८१) । ऋत्व१० णोऽपवादः । शारदिकं श्राद्धं कर्म पितृकार्यम् । श्राद्धे कर्मणीति किम् ? शारदं विरेचनम् । * क्वचि - द्वेति - "नवा रोगात पे" ( ६।३।८२ ) । ऋत्वणोऽपवादः । शारदिकः शारदो रोगः, आतपो वा । रोगातप इति किम् ? शारदं दधि ॥ नैशिक इति - " निशाप्रदोषात् " ( ६।३।८३ ) । निशासहचरितमध्ययनं निशा, प्रदोषसहचरितमध्ययनं प्रदोषस्तत्र जयी नैशिकः नैशः प्रादोषिकः प्रादोषः ॥ “चिर०” एभ्यः कालवाचिभ्यः शेषेऽर्थे त्रः स्यात् । चिरे भवं चिरत्नम्, एवं परुद्भवं परत्नम्, परा१५ रित्नम् । पक्षे चिरतनं परुत्तनं परारितनमिति । परुत्परारिभ्यां विकल्पं नेच्छन्त्यन्ये । परारेस्त्रे रिलोप इत्येके–परात्नः । केचित्परुत्परार्योस्तनट्यन्त्यस्वरात्परं म्वागममिच्छन्ति - परुन्तनम्, परारिंतनम् । “पुरो०” पुराशब्दात्कालवाचिनोऽव्ययाच्छेषेऽर्थे नः स्यात् । पुरा भवं पुराणम् पुरातनमिति ।। "पूर्वाο' "वर्षाकालेभ्य” इति नित्यमिकणि प्राप्ते विकल्प:, तेन पक्षे सोऽपि भवति " अतोऽह्रस्य " ( २।३।७३ ) इति णत्वम्, पूर्वाह्णे भवो जातो वा पूर्वाह्वेतनः पूर्वाहृतनः । एवमपराह्णेतनः अपराहृतनः । "काला२० त्तन०” (३।२।२४) इत्यादिना वा सप्तम्या अलुप् । पूर्वाह्णे जयी पूर्वाहृतनः अपराहृतनः - अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप् । पक्षे पौर्वाह्निकः आपराह्निकः । कारो ङयर्थः–पूर्वाह्णेतनी अपराह्णेतनी । " भर्त्तु०" भं नक्षत्रम्, तद्वाचिभ्य ऋतुवाचिभ्यः सन्ध्यादिभ्यश्च कालवाचिभ्योऽण् स्यात् । इकणोऽपवादः । पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः, पुष्ये भवः पौषः । एवं तैषः, आश्विनः, रौहिणः, स्वातौ सौवातः । ऋतु मैष्मः, शैशिरः, वासन्तः; ऋतोर्वृद्धि२५ मद्विधाविति - पूर्वप्रैष्मः, अपरशैशिरः, "अंशादृतो: " ( ७|४|१४ ) इत्युत्तरपदवृद्धिः । सन्ध्यादिः . सान्ध्यः, सान्धिवेलः, आमावास्यः । एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति - आमावस्यः । अणूग्रहणं स्वाति - राधा - आर्द्रा पौर्णमासीभ्य ईयबाधनार्थम् । यथाविहितमित्युच्यमाने “दोरीयः” ( ६।३।३२ ) इति ईयः प्राप्नोति । कालेभ्य इत्यैव - स्वातेरिदमुदयस्थानं स्वातीयम् । एवं राधीयम्, आर्द्रीयम् । सन्ध्या, सन्धिवेला, अमावास्या, त्रयोदशी, चतुर्दशी, पञ्चदशी, पौर्णमासी, प्रतिपद्, शश्वत्, इति सन्ध्यादयो नव । "ऋवर्णोवर्णात् ” ( ७।४।७१ ) इति सूत्रेऽशश्वत्प्रतिषेधाच्छ३१ श्वच्छब्दादिकणपि शाश्वतं शाश्वतिकम् ।
55
४००
१ पूर्वाश्च ता वर्षाश्च ‘पूर्वापरप्रथम' - इति समासः । पूर्वासु वर्षासु भव इति तद्धितविषये 'दिगधिकम्'-इत्यनेन वा । वर्षाणां पूर्वत्वमिति 'पूर्वापराधर' इत्यादिना तत्पुरुषो वा 'अंशादृतो:' इत्युत्तरपदवृद्धिः । विशेषविहितत्वात्परत्वाच्चानेन दिक्पूर्वात्इति बाध्यते । २ गृह्यत इति शेषः । मासाद्यपेक्षया कालशब्दोऽपि कालविशेषवाची, तेन कालिक इत्यपि । ३ यथाकथंचित् गुणवृत्त्या मुख्यवृत्त्या वा ये काले वर्त्तन्ते इत्यर्थः । ४ अकालशब्दश्च यदा कालमुपलक्षणीकृत्य काले वर्त्तते गुणवृत्यैव, तदा कालशब्दात् कालार्थात् प्रत्ययो भवति यथादर्शितात् कदम्बपुष्पादेः । ५ कालेभ्य इत्यंशेन यो विधिः स तस्माद्भवतीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org