________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽर्थे
३९९
1
"प्रायो० ” । अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्त्यस्वरादेः प्रायो लुप् भवति । यथा स्वर्भवः सौवः । बहिर्जातो बाह्यः, बाहीकः । सायम्प्रातिकः । पौनःपुनिकः । " वर्षाकालेभ्यः " ( ६।३।८० ) इतीकण् । अनभिधानादव्ययलक्षणस्तनद् न भवति - पौनःपुन्यम् । उपरिष्टादागतः औपरिष्टः । परत आगतः पारतः । ऐंकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् तेनेह न भवति - औरातीयः, आश्वतिकः, शाश्वतः पार्थक्यम् । अपदस्येत्येव - कंयुः शंयुः अहंयुः । "पश्चादा०" पश्चिम इति - एवमादिमः ५ अन्तिमः अग्रिमः । आद्यन्ताभ्यां भवादन्यत्रार्थं विधिः, भवे तु परत्वाद्दिगादिय एव । " मध्या० " मध्यम इति भवे दिनणादय उक्तास्ततोऽन्यत्र शेषेऽयं विधिः ।
अत्रायं विशेषः–“मध्ये उत्कर्षापकर्षयोर" ( ६।३।७७) उत्कर्षापकर्षयोर्मध्ये वर्त्तमाना - न्मध्यशब्दाच्छेषेऽर्थे अप्रत्ययः स्यात् । मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो वैयाकरणः । मध्या गुणाः । मध्या स्त्री । नातिदीर्घं नातिह्रस्वं मध्यप्रमाणं मध्यं काष्ठम् । नातिस्थूलो नाति - १० कृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवर्त्तिन्यपि वर्त्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो मा भूदिति वचनम् । " अध्या०" । अध्यात्मं भवं आध्यात्मिकम् । अधिदेवे भवं आधिदैविकम् । एवमाधिभौतिकम् । अनुशतिकादित्वादनयोरुभयपदवृद्धिः । और्ध्वदमिक : और्ध्वदेहिक: और्ध्वदमिक : और्ध्वदेहिक :- अतएव पाठादूर्ध्वस्य दमदेहयोर्वा मोऽन्तः । केचिदूर्ध्वद मोर्ध्वदेहशब्दावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छन्ति - और्ध्व - १५ दामिकः, और्ध्वदैहिकः। ऊर्ध्वमौहूर्तिकः - अत्र "सप्तमी चोर्ध्वमौहूर्त्तिके” (५।३।१२) इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । अकस्माद्धेतुशून्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन् परलोके भवमामुष्मिकम् । एवमामुत्रिकम् । पारत्रिकम् । इह भवमैहिकम् । शैषिकम् । पाठसामर्थ्यात्सप्तम्या अलुप् । अध्यात्मादयः प्रयोगगम्याः ॥ ६७ ॥
समानपूर्वलोकोत्तरपदात् ॥ ६८ ॥ [ सि० ६|३|७९ ]
समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्चेकण् स्यात् । सामानग्रामिकः पारलौकिकः ॥ ६८ ॥ " समान० " समानग्रामे कृतो भवो वा सामानग्रामिकः । सामानदेशिकः । इहलोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । योगद्वयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ॥ ६८ ॥
वर्षाकालेभ्यः ः ॥ ६९ ॥ [ सि० ६ ३८० ]
वर्षाशब्दात्कालविशेषाच्चेकण् स्यात् । वार्षिकः मासिकः । * कचिद्वा-नैशिकः नैशः २५ “चिरपरुत्परारेस्त्नः” ( ६ । ३।८५ ) वा चिरतं चिरन्तनमित्यादि । " पुरो नः” (६।३।८६ ) पुराणं पुरातनम् । “पूर्वाह्णाऽपराह्नात्तनट् ” ( ६।३।८७ ) वा । सप्तम्या अलुप् - पूर्वाह्णेतनः । पौर्वाह्निकः । “भर्तुसन्ध्याऽऽदेरण” (६।३।८९ ) आश्विनः ग्रैष्मः सान्ध्यः ॥ ६९ ॥ २८
१ अथाव्ययसमुदायोऽव्ययग्रहणेन गृह्यते इति सायंचिरम् इति सायंप्रातरादिभ्यस्तनद्र कस्मान्न भवति, इत्याह- अनभि० । २ एकमेकं ददाति एकशब्दस्यामन्तस्य वीप्सायां द्वित्वं 'लुप्चादावेक' - इत्यमो लुपि 'बह्वल्पार्थात्' इति करके शस् । एकैकशो भावः व्यण् । ३ ‘भवार्थे' दोरीयः । 'वर्षाकालेभ्यः' इतीकण् 'भर्त्तु सन्ध्यादेरण् । ४ नन्वाधाराधेययोरभेदविवक्षया मध्यवर्त्तिकाष्ठाद्यपि मध्यशब्देनोच्यते तत्किमनेनेत्याशङ्का ।
Jain Education International
२०
For Personal & Private Use Only
www.jainelibrary.org