________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकिम् ? पृथिवीमध्यादागतो मध्यमीयः कठः । चरण इति किम् ? पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः ॥ "वेणुकादिभ्य ईय" (६।३।६६)। यथायोगं देशवाचिभ्यः । वैणुकीयः, चैत्रकीयः, औत्तरपदीयः, औत्तरीयः, औत्तरकीयः, प्रास्थीयः, माध्यमकीयः, प्रास्थकीयः, माध्यमिकीयः, नैपुणकीयः । बहुवचनं प्रयोगानुसरणार्थम् । ५ "वा युष्मदस्मदोऽत्रीनी युष्माकास्माको चास्यैकत्वे तु तवकममकम्" (६॥३॥ ६७)। यौष्माकः यौष्माकी स्त्री । यौष्माकीणः यौष्माकीणा । युष्मदीयः ॥ आमाकः आमाकीनः अस्मदीयः ॥ तावकम् , मामकम् , तावकीनम् , मामकीनम् , त्वदीयम्, मदीयम् ।
"वा युष्मदस्मदो" (देशादिति निवृत्तम् ) अनयोः शेषेऽर्थे एतौ प्रत्ययौ युष्माक अस्माक इत्येतौ चानयोरादेशौ स्याताम् , एकत्वे च तवकममकावादेशौ । आदेशौ प्रति यथासङ्ख्यं नास्तिवच१० नभेदात् । युष्माकमयं युवयोर्वा यौष्माकः यौष्माकी स्त्रीति "अणयेकण्नसटिताम्" (२।४।२०)
इति ङीः । एवं यौष्माकीणः । अस्माकमयं अस्माकः, आस्माकीनः । एकत्वे तु तवायं तावकः तावकीनः, ममायं मामकः मामकीनः । स्त्री तु तावकी तावकीना, मामकी मामकीना । पक्षे त्यदादित्वेन दुसंज्ञत्वादीयः-युष्मदीयः, त्वदीयः ।
अत्रादिशब्दात् “द्वीपादनुसमुद्रं ण्यः” (६।३।६८)। समुद्रसमीपे यो द्वीपस्तद्वाचिनो ण्यः १५ स्यात् । कच्छाद्यऽकञऽणोरपवादः । द्वैप्यो मनुष्यः, द्वैप्यमस्य हसितम् । अनुसमुद्रमिति किम् ? अनु
नदि यो द्वीपस्तस्मात्-द्वैपको व्यासः, द्वैपकमस्य हसितं द्वैपम् ॥ "अोद्यः" (६।३।६१) अयम् ॥ "सपूर्वादिकण्" (६।३।७०) सपूर्वपदादर्द्धशब्दादिकण् स्यात् । पौष्करार्द्धिकः, वैजयाचिकः, बालेयार्द्धिकः, गौतमार्द्धिकः, क्षेत्रार्द्धिकः, यौवनार्द्धिकः ॥ “दिक्पूर्वात्तौ" (६।३।७१)। दिक्पूर्वपदाद
र्द्धशब्दात्तौ य-इकणप्रत्ययौ स्याताम् । पूर्वार्ध्यम् पौर्वार्चिकम् । दक्षिणाय॑म् दाक्षिणार्द्धिकम् । पश्चाय॑म् २० पाश्चार्द्धिकम् ॥ "ग्रामराष्ट्रांऽशादणिकणौ” (६।३।७२) ग्रामराष्ट्रैकदेशवाचिनोऽर्द्धशब्दादिक्
पूर्वादण्-इकण् इत्येतौ प्रत्ययौ स्याताम् । यापवादौ । ग्रामस्य राष्ट्रस्य वा पूर्वार्द्ध भवः पौर्वार्द्धः पौर्वार्द्धिकः । दाक्षिणार्द्धः दाक्षिणार्द्धिकः ॥ “पराऽवराऽधमोत्तमादेयः" (६।३।७३ ) एतत्पूर्वपदादर्द्धशब्दाद्यः स्यात् । इकणोऽपवादः । पराद्धर्यम्, अवरायम् , अधमाद्धर्थम् , उत्तमाद्धर्थम् । परा
वरयोर्दिक्शब्दत्वेऽपि परत्वादयमेव यः (न केवलं परावरयोर्यथाक्रमं शवधर्मार्थयोरनेन प्रत्यय २५ इत्यपेरर्थः)॥६५॥
अमोन्ताऽवोऽधसः ॥ ६६ ॥ [ सि० ६३७४] अन्तादवसधस्भ्यां चामः स्यात् ॥६६॥ "अमो." अमस्याकारादित्वमवोधसोऽन्त्यस्वरादिलोपार्थम् ॥ ६६ ॥
प्रायोऽव्ययस्य ॥ ६७ ॥ [ सि० ७४।६५] ३० तद्धिते परेऽव्ययस्यान्त्यखरादेः प्रायो लुक् । अन्तमा अधमः॥"पश्चादायन्ताग्रादिमः"
(६३२७५) पश्चिमः ॥"मध्यान्म:” (६।३।७६) मध्यमः ॥"अध्यात्माऽऽदिभ्य इकण्" ३२(६३७८) आध्यात्मिकम् । आधिदैविकम् ॥ ६७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org