________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । शेषेऽथे
३९७ सैन्धवः, वार्णवः । अथाणग्रहणं किमर्थम् ? योह्यन्येन बाधितो न प्राप्नोति तदर्थमिदं स्यात् स चाणेव, नचानन्तरोऽकमेव स्यादित्याशङ्कनीयम् , एवं हि पूर्वकमकब्विधानमनर्थकं स्यात् । नैवम् । असत्यणग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात् , स हि ततो राष्ट्राकमा बाधितः ॥ "गोत्तरपदादीयः" (६।३।५७) अणोऽपवादः । श्वाविद्गर्तात्तु वाहीकग्रामलक्षणौ णिकेकणौ परत्वाद्बाधते । श्वाविद्गर्ते भवः श्वाविद्गीयः । वृकगीयः, शृगालगीयः, रौहिद्गीयः । आभिसारगर्त्तकः त्रैगर्त्तक इत्यत्राकञ्५ "राष्ट्रेभ्यः” (६।३।४४ ) "बहुविषयेभ्यः" इति बहुवचनसामर्थ्याद्भवतीत्युक्तम् । उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिरासार्थम्-बाहुगतः । “कटपूर्वात्प्राचः” (६।३।५८) प्राच इति प्राग्देशवाचिन ईयः स्यात् । अणोऽपवादः । कटनगरीयः, 'कटप्रामीयः, कटघोषीयः, कटवर्तकीयः, कटपल्वलीयः। प्राच इति किम् ? काटनगरः । “कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाहोः” (६। ३१५९) । ककारखकारोपान्त्यात् कन्थायुत्तरपदाच देशवाचिनो दुसंज्ञकादीयः स्यात् । बाधक बाध-१० नार्थ आरम्भः । कोपान्त्यात्कोपान्त्यलक्षणे णिप्राप्ते आरीहणकीयः, द्रौघणकीयः, आश्वस्थिकीयः, शाल्मलिकीयः, सौषुकीयः, आष्टकीयः ब्राह्मणकीयः बालकीयः । खोपान्त्यात्. वाहीकग्रामलक्षणयोर्णिकेकणोः, कौटशिखीयः, (माहिशिखीयः, ) अयोमुखीयः । कन्थापलदोत्तरपदान्तयोरेव, दाक्षिकन्थीयः, माहकिकन्थीयः, दाक्षिपलदीयः, माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकचि. दाक्षिनगरीयः माहकिनगरीयः । ग्रामह्रदोत्तरपदात् णिकेकणोरेव, दाक्षिग्रामीयः, माहकिग्रामीयः, दाक्षिह्र-१५ दीयः, माहकिह्रदीयः । दोरिति किम् ? आर्षिकः माडनगरः ॥ “पर्वतात्" ( ६।३।६०) ईयः । अणोऽपवादः । पर्वतीयो राजा, पुमान् ॥ “अनरे वा” (६।३।६१) । पर्वतीयानि पार्वतानि फलानि । अनर इति किम् ? पर्वतीयो मनुष्यः । “पर्णकृकणाद्भारद्वाजात्' (६।३।६२) । भारद्वाजदेशवाचिभ्यामाभ्यामीयः स्यात् । अणोऽपवादः । पर्णीयः, कृकणीयः । भारद्वाजादिति किम् ? पाणः कार्कणः ॥ "गहादिभ्यः" (६।३।६३ ) । देशादिति वर्त्तते, तद्गहादीनां यथासम्भवं विशेष-२० णम् । यथासम्भवं देशवाचिभ्यो गहादिभ्य ईयः स्यात् । गहीयः, अन्तःस्थीयः । गह, अन्तःस्थ, अन्तःस्था, सम, विषम, उत्तम, अङ्ग, मगध, शुक्लपद, पूर्वपक्ष, १० अपरपक्ष, कृष्णशकुन, अधमशाख, उत्तमशाख, समानशाख, एकशाख, समानग्राम, एकग्राम, एकवृक्ष, एकपलाश, २० इष्वग्र, दन्ताग्र, इष्वनीक, अवस्यन्द, कामप्रस्थ, सौप्रख्य, खाडायनि, काठेरणि काठेरिणि, लावेरणि, लावेरिणि, लावीरणि, शैशिरि, शौङ्गि, शौङ्गिशैशिरि, आसुरि, आहिंसि, आमित्रि व्याडि, ४० भौङ्गि, भौर्जि, २५ ( भौजि?), आध्यश्वि, आश्वत्थि, औद्राहमानि, औपबिन्दवि, आग्निशर्मि, (देवशर्मि, ) श्रौति, वाटारकि, वाल्मीकि, ५० क्षैमधृत्वि, उत्तर, अन्तर, मुखतस्, पार्श्वतस्, एकतस् , अनन्तर, आनुशंसि, साटि, सौमित्रि, ६० परपक्ष, स्वक, देवक इति गहादयत्रिषष्टिः । बहुवचनमाकृतिगणार्थम् ॥ "पृथिवीमध्यान्मध्यमश्चास्य” (६॥३॥६४)। पृथिवीमध्यशब्दाद्देशवाचिन ईयः स्यात् , मध्यमादेशश्वास्य । पृथिवीमध्ये जातो भवो वा मध्यमीयः ॥ “निवासाचरणेऽण" (६।३।६५ )३० पृथिवीमध्यानिवासभूतदेशवाचिनश्चरणे निवस्तरि शेषेऽर्थेऽण् स्यात् ; मध्यमादेशश्चास्य । पृथिवीमध्यं निवास एषां चरणानां माध्यमाश्चरणः । त्रयः प्राच्यालय उदीच्यास्त्रयो माध्यमाः । निवासादिति ३२
१'प्राग्जितात्' इति प्राप्तोऽन्येनाकादिना बाधित इत्यर्थः। २ यदि हि नृनुस्थे अन्यत्र वाकव स्यात् तदा कि पूर्वसूत्रेण । अनेनैव कच्छादिकोपान्त्याच इत्येवं रूपेण सिद्धत्वात् । ३ यत इक्ष्वाकोरिकणप्यनेनाकमा बाध्यमानो विद्यते एव. ततश्च सोऽप्यनेन स्यादिति। ४ 'दोरीयः' इति ईयस्य ये बाधकाः कोपान्त्याच्चेत्येवमादयस्तेषां बाधनं बाधस्तदर्थोऽयमारभ्यत इत्यर्थः । एतदेव कोपान्त्यादित्यादिना स्पष्टयन्नदाहरति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org