________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसिद्ध एव । सामर्थ्याददेशार्थः पाठः । विदेहानामान"नां च क्षत्रियाणामिदं वैदेहकम् । आनर्तकम् । पाठेयपाथेययोर्योपान्त्यत्वादकम् सिद्धोऽदेशार्थः पाठः। पठेः पठाया वाऽपत्यं पाठेयः तस्येदं पाठेयकम् ॥ "सौवीरेषु कूलात्" ( ६।३।४७) अकञ् । सौवीरदेशवाचिनः कुलशब्दादकम् स्यात् । कौलकः सौवीरेषु; कौलोऽन्यत्र ॥ "समुद्रानुनावोः" (६।३।४८) अकन् । सामुद्रको मनुष्यः । सामुद्रिका ५ नौः । नृनावोरिति किम् ? सामुद्रं लवणम् ॥ "अरण्यात्पथिन्यायाऽध्यायेभनरविहारे" (६।३।५१) आरण्यकः पन्थाः, न्यायोऽध्याय इभो नरो विहारो वा । पथ्यादाविति किम् ? आरण्याः सुमनसः । “गोमये वा” ( ६।३।५२) आरण्यका गोमयाः, आरण्यानि गोमयानि । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति-आरण्यिका आरण्या हस्तिनी । एके तु नरवर्ज पूर्वसूत्रे विकल्पमाहुः-आरण्यः आरण्यकः पन्थाः इत्यादि ॥ "कुरुयुगन्धराद्वा” (६।३५३)। आभ्यां देश१० वाचिभ्यामकञ् स्यात् । कुरुषु भवः कौरवकः कौरवः, युगन्धरेषु यौगन्धरकः यौगन्धरः । राष्ट्रश
ब्दावेतौ बहुविषयौ च, तत्र युगन्धरात् "बहुविषयेभ्यः" इति नित्यमकनि प्राप्ते विकल्पः, कुरोस्त्वकबः कच्छायणा बाधितस्य प्रतिप्रसवार्थ वचनम् । तथा च विकल्पः सिद्ध एव, युगन्धरार्था तु विभाषा । नृनृस्थयोस्तु कुरोः परत्वादकव-कौरवको मनुष्यः, कौरवकमस्य हसितम् ॥ "साल्वा
द्गोयवाग्वपत्तौ” (६।३।५४) । साल्वाद्देशवाचिनो गवि यवाग्वां पत्तिवर्जिते मनुष्ये च शेषेऽर्थेs१५ कञ् स्यात् । साल्वको गौः । साल्विका यवागूः । साल्वको मनुष्यः । गोयवाग्वपत्ताविति किम् ? साल्वा ब्रीहयः, साल्वः पत्तिः । राष्ट्रेभ्योऽकभि कच्छाद्यणा बाधिते गोयवागूग्रहणं प्रतिप्रसवार्थम् , अपत्तीति पत्तिप्रतिषेधात्तत्सदृशे मनुष्ये विधिः, तत्र चोत्तरेण सिद्ध एवाकलि नरि नियमार्थमपत्तिग्रहणम् । एवं च गोयवाग्वोः पत्तिवर्जिते च मनुष्ये मैनुष्यस्थे च हसितादौ साल्वकः, अन्यत्र साल्व
इति स्थितम् । अयं च विभागः सैल्वशब्दस्यादोरपि ज्ञेयः ॥ “कच्छाऽऽदेनस्थे" (६।३।५५) २० कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे च शेषेऽर्थेऽकञ् स्यात् । अणोऽपवादः (कोपान्त्याच इति सामान्येन प्राप्तस्य ) । काच्छको मनुष्यः । काच्छकमस्य हसितं स्मितं जल्पितमीक्षितम् । काच्छिका चूला । सैन्धवको मनुष्यः, सैन्धवकमस्य हसितम् , सैन्धविका चूला । नृनृस्थ इति किम् ? काच्छो गौः, सैन्धवं लवणम् , कच्छ, सिन्धु, वर्ण, मधुमत् , कम्बोज, साल्व, कुरु, अनुषण्ड, अनूषण्ड कश्मीर, १० विजापक, द्वीप, अनूप, अजवाह, कुलूत, रकु, गन्धार, साल्वेय, यौधेय, सस्थाल, २० सिन्ध्वन्त, २१ २५ इति कच्छादय एकविंशतिः । कच्छादयो ये बहुविषया राष्ट्रशब्दास्तेभ्यो "बहुविषयेभ्य" ( ६।३।४५)
इत्यकञ् सिद्ध एव, उत्तरेण त्वणा बाधो मा भूदिति पुनर्विधीयते । वर्णसिन्धुभ्याम् "उवर्णादिकण्" (६।३।३९) इतीकणि तदपवादे कच्छाद्यणि, कुरोः “कुरुयुगन्धराद्वा" (६।३।५३) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि प्राप्तेऽकविधिः । अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ॥"कोपान्त्याचाऽण्” (६।३।५६) देशादित्येव वर्त्तते, न नृनृस्थ इति । कोपान्त्या
कच्छादेश्व देशवाचिनः शेषेऽर्थेऽण् स्यात् । ईकणकबोरपवादः । कोपान्त्य. ऋषिका जनपदः तेषु जात ३१ आर्षिकः । महिषकेषु माहिषकः । अश्मकेषु आश्मकः । इक्ष्वाकुषु ऐक्ष्वाकः । कच्छादि. काच्छः,
१नरि साल्वशब्दात् यद्यकञ् भवति, तदा अपत्तावेव न पत्तौ । २ ननु गोयवाग्वपत्तावित्युच्यमाने मनुष्यस्थः कथं न लभ्यते, नहि मनुष्यस्थः प्रहासादिौर्यवागूरपत्तिर्वा भवति, न च पत्तेरन्यमात्रमपत्तिः, अपि तु मनुष्योऽन्यथा साल्वा व्रीहय इत्यत्राप्यकञ् प्राप्नोति, तथा च गोयवागूग्रहणमनर्थकं स्यात्तत्राप्यपत्तावित्येव सिद्धे । उच्यते । अपत्तिग्रहणं 'कच्छादेनृस्थे' इत्यकत्रि सिद्धे अपत्तेावृत्त्यर्थ क्रियते न तु विध्यर्थम् , तेन यथा अपत्तौ मनुष्ये भवति तथा मनुष्यस्थेऽपि; तितः प्रत्ययस्याव्यावर्तितखात् । ३ उपलक्षणलादेकदेश विकृतस्यानन्यवादा। ४ 'उवर्णादिकण' 'बहुविषयेभ्यः' इत्यनयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org