________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽर्थे
३९५ णोऽण् । उवर्णादिति किम् ? देवदत्तः । देशादित्येव-पटोश्छात्राः पाटवाः ॥ "दोरेव प्राचः" (६।३।४०) शरावत्याः प्राच्यां दिशि प्राग्देशः । तद्वाचिन उवर्णान्ताद्दुसंज्ञकादेव इकण स्यात् । आषाढजम्ब्वां भवः आषाढजम्बुकः । नापितवास्तुकः । पूर्वेण सिद्धे नियमार्थमिदं तेनेह न भवतिमल्लवास्तु प्राग्ग्रामः माल्लवास्तवः । एवकार इष्टावधारणार्थः-दोः प्राच एवेति नियमो मा भूत् ॥ "इतोऽकम्" (६।३।४१) ईकारान्तात् प्राग्देशवाचिनो दुसंज्ञकादकञ् स्यात् । ईयापवादः ।५ काकन्यां भवः काकन्दकः । प्राच इति किम् ? दात्तामित्र्यां भवः दात्तामै(मि ?)त्रीयः ।। "रोपान्त्यात्" (६।३।४२) प्राग्देशवाचिनो दुसंज्ञकाद्रेफोपान्त्यादकञ् स्यात् । ईयापवादः । पाटलिपुत्रकः । ऐकचक्रकः ॥ "प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्" (६।३।४३)। दोर्देशादिति च वर्त्तते । एभ्योऽकञ् स्यात् । धन्वन्शब्दो मरुदेशवाची । प्रस्थान्त. मालाप्रस्थकः, शोणप्रस्थकः, काञ्चीप्रस्थकः, वातानुप्रस्थकः, वाणप्रस्थकः । पुरान्त. नान्दीपुरकः । कान्तीपुरकः (वार्तीपुरकः ?) १० वहान्त. पैलुवहकः, फाल्गुनीवहकः, कौक्कुटीवहकः, कौकुचीवहकः । योपान्त्य. साङ्काश्यः, काम्पील्यकः, माणिरूप्यकः, दासरूप्यकः, आत्रीतमायवकः । धन्ववाची. पारधन्या, आपारेधन्वा, 'नाग्नि' (३।१।९४) इति सः "अव्यञ्जनात्” (३।२।१८) इति सप्तम्यलुप् । पारेधन्वनि भवः पारेधन्वकः । आ ईषत्पारं आपारं "आङल्पे" (३।११४६) इति सः। आपारेधन्वेति पूर्ववत् । आपारेधन्वकः । ऐरावतकः । सुप्रचष्टे डे सुप्रख्येन निवृत्त इत्यणि सौप्रख्ये भवः सौप्रख्यीयः इति तु गहादित्वात् । १५ एवं कामप्रस्थीयः । पुरग्रहणमप्राच्यार्थम् । प्राच्याद्धि रोपान्त्यत्वेनैव सिद्धम् , अत एवेह प्राच इति नानुवर्तते । ईयबाधनार्थं वचनम् ॥ "राष्ट्रभ्यः " (६।३।४४) । देशेभ्यो दुसंज्ञकेभ्योऽकञ् स्यात् । ईयापवादः-अभिसारे भवः अभिसारकः । आदर्श भवः आदर्शकः । औषुष्टश्यामायने राष्ट्रावधी अपि राष्ट्रे । औषुष्टे औषुष्टकः श्यामायनकः । बहुवचनमकबः प्रकृतिबहुत्वं द्योतयदपवाद विषयेऽपि प्रापणार्थम् , तेनेहापि भवति-आभिसागरगर्तकः, अत्र गर्नोत्तरपदलक्षण ईयो न भवति । राष्ट्रसमुदायो न २० राष्ट्रग्रहणेन गृह्यत इतीह न भवति-काशिकौशलीयः ॥ "बहुविषयेभ्यः" (६।३।४५) दोरिति निवृत्तम् (योगविभागात्) । अतः परं दोरदोश्च विधानम् । देशादिति तु वर्त्तते। राष्ट्रेभ्यो देशेभ्यो बहुत्वविषयेभ्योऽकञ् स्यात् । अणाद्यपवादः । अङ्गेषु जातः आङ्गकः । वाङ्गकः । दार्वकः । काम्बकः । जिह्वषु जैह्नवकः । आजमीढकः । आजकुन्दकः । कालञ्जरकः । वैकुलिकः । विषयग्रहणमनन्यत्र भावार्थम् , एतेन य एकत्वद्वित्वयोरपि वर्त्तते ततो मा भूत् । वर्तनी च वर्तनी च वर्तनी च वर्त्तन्यः; तासु२५ भवो वार्त्तनः । बहुवचनमपवादविषयेऽपि प्रापणार्थम्-त्रिगर्तेषु त्रैगर्त्तकः ( अत्र गर्नोत्तरपदलक्षण ईयो बाध्यते ) ॥ “धूमादेः" (६।३।४६)। एभ्यो देशवाचिभ्योऽकञ् स्यात् । अणाद्यपवादः । धौमकः । धूम, षडण्ड, षडाण्ड, अवतण्ड, तण्डक, वतण्डव, शशादन, अर्जुन, आर्जुनाव, दाण्डायन, स्थली १० (दाण्डायनस्थली) मानकस्थली, आनकस्थली, माहकस्थली, मद्रकस्थली, माषकस्थली, घोषकस्थली, राजस्थली, अदृस्थली, मानस्थली, माणवकस्थली, राजगृह, सत्रासाह, सानासाह, भक्ष्यादी, भक्ष्यली, ३० भक्ष्याली, भद्राली, मद्रकुल, अंजीकुल, व्याहाव, ३० व्याहाव, द्वियाहाव त्रियाहाव, संस्फीय, बर्बड, गय॑(तं ?) वर्ण्य, शकुन्ति, विनाड, इमकान्त, ४० विदेह, आनत, वादूर, खाडूर, माठर, पाठेय, पाथेय, घोष, घोषमित्र, शिष्य, ५० वणिय, पल्ली, अराज्ञी, आराज्ञी, धार्तराज्ञी, धार्तराष्ट्री, धार्तराष्ट्र, अवया, तीर्थकुक्षि, समुद्रकुक्षि, द्वीप, अन्तरीप, ६० अरुण, उज्जयनी, दक्षिणापथ, साकेत, ६४ इति धूमादयः चतुःषष्टिः । दाण्डायनस्थलीत्यादीनां दुसंज्ञकानामीकारान्तानां वा दूरखाडूरमाठराणां च पाठोऽप्राच्यार्यः । प्राच्यानां त्वीद्रोपान्त्यलक्षणोऽकञ् सिद्ध एव । विदेहानर्तयो राष्ट्रेऽकञ् ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org