________________
३९४ ___महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअणऽपवादः । देवदत्तीय इति "संज्ञा दुर्या" (६।१।६) इति दुसंज्ञा, तदीय इति "त्यदादिः" (६॥ ११७) इति दुसंज्ञा, पाणिनीयमिति "वृद्धिर्यस्य खरेष्वादिः” (६।१८) इति दुसंज्ञा । एवं एणीपचनीयः, गोनर्दीयः, भोजकटीयः "प्राग्देशे" (६।१।१०) इति दुसंज्ञा । कथं श्रीमदीयमिति ? प्रमाद एवायं दुसंज्ञाभावात् । *ईयेत्यादि-"ईयकारके" ( ३।२।१२१) इति सूत्रेण दोऽन्तः।। ५ अत्रादिशब्दसान्निध्यात् "उष्णादिभ्यः कालात्" (६।३।३३) । उष्णकालीयः, बहुवचनं प्रयोगानुसरणार्थम् । “व्यादिभ्यो णिकेकणौ” (६।३।३४)। व्यादिभ्यः परो यः कालशब्दस्तदन्तादेतौ स्याताम् । उभयोः स्त्रियां विशेषः-वैकालिकः, वैकालिका, वैकालिकी । आनुकालिकः, आनुकालिका आनुकालिकी । ऐदङ्कालिकः ३ । धौमकालिकः ३ । आपत्कालिकः ३ । साम्पत्कालिकः ३ । कोप
कालिकः ३ । क्रौधकालिकः ३ । और्वकालिकः ३ । पौर्वकालिकः ३ । तात्कालिकः ३ । क्रौरका१०लिकः ३ । व्यादयः प्रयोगगम्याः ॥ "काश्यादेः” (६।३।३५)। णिकेकणौ । दोरिति वर्त्तते ।
काशिकः, काशिका, काशिकी । चैदिकः३ । दोरित्येव-देवदत्तं नाम वाहीकग्रामस्तत्र जातो देवदत्तः; देवदत्तशब्दस्य प्रान्देशे एव दुसंज्ञा, न वाहीकेष्विति न भवति; नाप्युत्तरेण तत्रापि दोरित्यनुवर्तनात् । प्राग्ग्रामेषु तु काश्यादित्वाद्भवत्येव-दैवदत्तिका देवदत्तिकी । येषां तु काश्यादीनां दुसंज्ञा न भवति
तेषां पाठसामर्थ्याद्भवति । चेदीशब्दसाहचर्याच्च काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययावुत्पाद१५यति नान्यत्र-काशीयाः छात्राः । काशि, चेदि, देवदत्त, सांयाति, सांवाह, अच्युत, मोदमान, श्वकुलाल १० शकुलाद, हस्तिकूड़्को, नाम, हिरण्य, करण, हैहिरण्य, करणे, सिन्धुमित्र, सधमित्र, अरिन्दम, दाशमित्र, दासमित्र २० छागमित्र, दासग्राम, शौवावतान, गौवाशन, गौवासन, तारङ्गि, भारङ्गि, युवराज, उपराज, देवराज, ३० इति काश्यादयस्त्रिंशत् ॥ "वाहीकेषु ग्रामात्"
(६।३।३६) । णिकेकणौ । कारन्तपिकः, कारन्तपिका कारन्तपिकी । शाकलिकः ३ । मान्थविकः ३। २० आरात्कः ३ । सैपुरकः ३ । स्कौनगरिकः “एदोद्देश एवेयादौ” ( ६।१।९) इति दुसंज्ञा । नापित
वास्तुक इत्यत्र "उवर्णादिकण्” इतीकण् । वातानुप्रस्थकः, नान्दीपुरकः, कौकुटीवहकः, दासरूप्यकः इत्येषु “प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्” (६।३।४३ ) इति परत्वादकञ् । सौसुकीय इत्यत्र कोपान्यलक्षण ईयोऽपवादाच्च भवति ( कथं मौञ्जीयम् ? मौखं नाम वाहीकावधिरन्यदीयो ग्रामो न वाहीक
ग्राम इत्येके, अन्ये तु दश द्वादश वा ग्रामा विशिष्टसनिवेशावस्थाना मौझं नामेति ग्रामसमूह एवायं न २५ग्रामः, नापि राष्ट्रम् ; येन राष्ट्रलक्षणोऽकञ् स्यात् इति मन्यन्ते। दोरित्येव-देवदत्तं नाम वाहीकग्रामः तत्र
जातो देवदत्तः)॥ "वोशीनरेषु” (६।३।३७) उशीनरेषु जनपदेषु यो ग्रामस्तद्वाचिनो दुसंज्ञकाच्छेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिकः, आह्वजालिका आह्वजालिकी । सौदर्शनिकः ३ । पक्षे आह्वजालीयः, सौदर्शनीयः ॥ “वृजिमद्राद्देशात्कः” (६।३।३८) देशवाचिभ्यामाभ्यां शेषेऽर्थे कः स्यात् । राष्ट्राकोऽपवादः । दोरिति निवृत्तम् । वृजिकः मद्रकः (सुसर्वार्द्धदिक्शब्देभ्यो जनपदवाचिनः ३० प्रत्ययो भवति तत्र मद्रात् दिक्पूर्वपदात् 'मद्राद' (६।३।२४) इत्यब् विहितः शेषपूर्वपदात्त्वयं
भवति ) सुमद्रकः सर्वमद्रकः अर्द्धमद्रकः सुवृजिकः सर्ववृजिकः अर्द्धवृजिकः पूर्ववृजिकः अपरवृजिकः। देशादिति किम् ? मनुष्यवृत्तेर्जिः, माद्रः ॥ "उवर्णादिकण्” (६।३।३९)। उवर्णान्ताद्देशवाचिन इकण् स्यात् । अणोऽपवादः । परत्वादीयणिकेकणोऽपि बाधते । शबरजम्ब्वां भवः शाबरजम्बुकः । नैषादकर्षकः । दाक्षिकर्षुकः । प्लाक्षिकर्षुकः । नापिकवास्तुर्वाहीकग्रामस्तत्र भवो नापितवास्तुकः । यस्तु प्राग्रामस्तस्मादुत्तरेण भवति-आवृ(ब्री ? )तमायौ भवः आवृ(व्री ? )तमायकः । ३६ जिहुषु जैह्रवक, इति परत्वाद्योपान्त्यलक्षणो राष्ट्रलक्षणश्चाकञ् । पेक्ष्वाक इत्यत्र तु कोपान्त्यलक्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org