________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽर्थे
३९३ करः । वाहीकः रौमक:-अत्र दुलक्षणेयस्य । पाटश्चरः-अत्र रोपान्त्यलक्षणस्याकमः । एके तु गौष्ठी स्थाने गोष्ठी तैकीस्थाने तैकी नैवीं च पठन्ति ॥ "शकलादेर्यत्रः” (६।३।२७)। यान्तेभ्य एभ्योऽञ् स्यात् । ईयस्यापवादः । गर्गाद्यन्तर्गणः शकलादिः । शकलस्यापत्यं वृद्धं शाकल्यस्तस्य छात्राः शाकलाः । एवं काण्वाः, गौकक्षाः, वामरथाः । यम इति किम् ? शकलो देवताऽस्य शाकलस्तस्येदं शाकलीयम् । कण्वादागतः काण्वस्तस्य छात्रा काण्वीयाः । "वृद्धेऽञः" (६।३।२८) । वृद्धे य५ इविहितस्तदन्तादबू स्यात् । ईयस्यापवादः । दक्षस्य वृद्धापत्यं दाक्षिः, तस्य छात्राः दाक्षाः । वृद्धति किम् ? सुतङ्गमेन निर्वृत्ता सौतङ्गमी नगरी, तस्यां भवः सौतङ्गमीयः । शालङ्करपत्यं युवा शालङ्किः "यमित्रः" (६।१।५४) इत्यायनणः पैलादिपाठाल्लुप् , तस्य छात्राः शालङ्का इत्यत्र आयनणि लुप्ते यद्यपीबन्तं यूनि वर्त्तते तथापि इस वृद्धे इत्यदेव भवति । "न द्विखरात्प्रागभरतात्" (६।३।२९)। प्राच्यगोत्रवाचिनो भरतगोत्रवाचिनश्च नाम्नो वृद्धेबन्ताहिखराद न स्यात् । पूर्वेण १० प्राप्त प्रतिषेधः । प्राचः चैकीयाः । पौष्पीयाः । चिङ्कपुष्पशब्दावाबन्तावपि तत्र बाह्लादित्वादिञ् । भरतात्. काशकाशीयाः वाशवाशीयाः। द्विस्वरादिति किम् ? पानागारे छात्राः पान्नागाराः । मान्थरषेणाः । प्राग्भरतादिति किम् ? दाक्षाः, प्लाक्षाः । प्राग्ग्रहणे भरतग्रहणं न स्यादिति स्वशब्देन ग्रहणम् । __ "भवतोरिकणीयसौ" (६।३।३०)। क्विचिदिकस्येतो लुक्-भावत्कम् । भवदीयम् । “परजनराज्ञोऽकीयः” (६।३।३१) परकीयः । राजकीयः । “दोरीयः” (६।३।३२) १५ देवदत्तीयः । तदीयः पाणिनीयम् । *ईयेऽन्यादोन्तः अन्यदीयम् ।
"भवतो.” इकण् ईयस् एतौ प्रत्ययौ ईयापवादौ । ईयसः सकारो "नाम सिदय्व्यञ्जने" (१।१।२१) इति पदत्वार्थः । भवतो ऋकारान्तस्य ग्रहणाच्छत्रन्तान भवति । भवत इदं भावकम् । किचिदित्यादि अत्र सूत्रम् "ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्" (७४।७१) ऋवर्णान्तादुवर्णान्ताहोस्शब्दादिसन्तादुसन्तात् शश्वदकस्माद्वर्जात्तकारान्ताच परस्य इक-२० प्रत्ययसम्बन्धिन इकारस्य लुक् स्यात् । यथा मातुरागतं मातृकं, पैतृकं "ऋत इकण्” (६।३।१५२) । निषादकवा भवः नैषादकर्षुकः, शाबरजम्बुकः "उवर्णादिकण्” (६।३।३९)। दोर्ध्या तरति दौष्कः । इस्. सर्पिः पण्यमस्य सार्पिष्कः, बार्हिष्कः । उस्. धनुः प्रहरणमस्य धानुष्कः, याजुष्कः । उदश्विता संस्कृत ओदन औदश्वित्कः । शकृता संसृष्टः शाकृत्कः । शश्वदकस्मात्प्रतिषेधात् शश्वद्भवं शाश्वतिकं "वर्षाकालेभ्यः” (६।३।८०) इतीकण् । आकस्मिकं अध्यात्मा (६।३।८७) दित्वादिकण् । प्रत्यययोरि-२५ सुसोर्ग्रहणादिह न भवति-आशिषा चरति आशिषिकः । वसेः किए उस् , उषा चरति औषिकः । मथितं पण्यमस्य माथितिकः इत्यत्रापि तान्तत्वस्य लाक्षणिकत्वान्न भवति । भावत्कमिति-भवतो भवत्या वा इदं भावत्कं भावत्की भवदीया । “परजन.” एभ्यः शेषेऽर्थे अकीयः स्यात् । अकारः पुंवद्भावार्थः । राज्ञ इदं राजकीयः, “जातिश्च णि तद्धितयखरे" (३।२।५१) इति पुंवद्भावःपरकीयः । जानकीयः । स्वकीयं देवकीयमिति तु स्वकदेवकयोर्गहादित्वात्सिद्धम् । ये तु स्वदेवशब्दाभ्यामकीयमिच्छन्ति तेषां स्वस्येदं सौवम् , देवमायुः, दैवी वागित्यादि न सिद्ध्यति । "दोरी०"३१
१ वाहीकशब्दस्य पुरुषवाचिनो 'दोरीयः' इत्यस्य देशवाचिनस्तु कखोपान्त्यस्यापवादः तदुभयमपि दुलक्षणस्येत्यनेन श्लिष्टनिर्देशेन सहीतम् । यत उभाभ्यामपि दुसंज्ञायां विधानात् । रोमकस्य तु 'कखोपान्त्य' इत्यस्यैव । यतस्तस्य पुरुषवाचिनो दुसंज्ञा न प्राप्नोति । देशवाचिनस्तु 'प्राग्देशे०' इति दुसंज्ञा । २ 'वृद्धाद्यूनि' इत्यत्र यूनोऽपि वृद्धसंज्ञाकार्यदर्शनादत्र इअन्तस्य वृद्धेऽपि वर्तनमित्याश्रयणे औपगवस्यापत्यं युवा औपगविस्तस्य छात्रा औपगवीयाः। एवं पाणिनीया इत्यादावपि स्यात् । अतो मुख्यत्वादृद्धे एवेति व्याख्येयम् ।
है. प्रका० पूर्वा० ५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org