________________
३९२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
"केहा." "साकं सत्रा समं सार्द्धममा सहेति" वचनात् अमा सह भवः अमात्यः । आविश्शब्दादपि कश्चित् आविष्टयः । चकारस्त्यण्त्यचोः सामान्यग्रहणाविघातार्थः, अन्यथा निरनुबन्धग्रहणे न सानुबन्धकस्येत्युपस्थाने अस्यैवैकस्य त्यस्य ग्रहणे त्यणश्चाग्रहणे "स्वज्ञाऽजभनाऽधातुत्ययकात्” (२।४।१०८) इति सूत्रेण दाक्षिणायिका इहत्यिकेत्युभयोरपि स्यात् (त्यण् )त्यचोः खियामापः स्थाने इत्वविकल्प५निषेधान्नित्यमित्वं न स्यादिति ।
आदिशब्दोपादानात् “ने(ये” (६।३।१७) । निशब्दात् ध्रुवेऽर्थे त्यच् स्यात् । नित्यं धूयम् । "निसो गते” (६।३।१८) निसूशब्दाद्गतेऽर्थे त्यच् स्यात् । निर्गतो वर्णाश्रमाभ्यां निष्ट्यश्चण्डालः ।
"ऐषमो ह्यः श्वसो वा” (६३३१९) । त्यच् । ऐषमस्त्यम् पक्षे । .
"ऐषमो०" एभ्यः कालार्थेभ्यस्तनट् स्यात् । ऐषमस्तनम् । ह्यस्त्यं शस्तनम् । *श्वस्त्यं १० श्वस्तनम् ॥ ६४ ॥
सायंचिरंपातेप्रगेऽव्ययात् ॥६५॥ [सि० ६॥३॥८८] "सायं.” सायं चिरं प्राहे प्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् स्यात् । साये भवं सायन्तनम् , चिरे भवं चिरन्तनम् , अत एव निर्देशान्मान्तत्वं निपात्यते । प्रादेतनम् , प्रगेतनम् , अनयोरेकारान्तत्वम् । अव्यय. दिवातनम् , दोषातनम् , नक्तन्तनम् , पुनस्तनम् , प्रातस्तनम् , १५प्राक्तनम् । कालेभ्य इत्येव-स्वर्भवं सौवम् । सायञ्चिरंप्राहेप्रगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे सायचिरप्राप्रगशब्देभ्यस्तनविधानं कालेकण्बाधनार्थम् । *श्वस्त्यमिति "श्वसस्ताऽऽदिः” (६।३।८४) । इति तिकणपि (तादिरिकण ) भवति, तेन त्रैरूप्यम्-श्वस्त्यं श्वस्तनं शौवस्तिकम् । __ अत्रादिशब्दसंसर्गात् "कन्थाया इकण्" (६।३।२०)। शेषे । कान्थिकः । कन्था ग्रामविशेषः ॥ "वर्णावक" (६।३।२१) वर्णन म हृदः, तस्य समीपे देशोऽपि वर्गुस्तत्र या कन्था २० ततः शेषेऽर्थेऽकञ् स्यात् । इकणोऽपवादः । कान्थकः । “रूप्योत्तरपदाऽरण्यात् णः" (६।३।२२)। वृकरूप्ये भवः वार्करूप्यः पार्करूप्या । शैवरक्यम् । आरण्या सुमनसः, पशवः । माणिरूप्ये जातो माणिरूप्यक इत्यत्र दुसंज्ञत्वेन परत्वात् "प्रस्थपुर०” (६।३।४३) इत्यादिना ब्योपान्यलक्षणोऽकमेव । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्त्यर्थम् बाहुरूप्यी । "दिक
पूर्वादनाम्नः” (६।३।२३) । असंज्ञाविषयादिक्पूर्वाच्छेषेऽर्थे णः स्यात् । अणोऽपवादः । पौर्वशालः २५पौर्वशाला । आपरशालः आपरशाला । अनाम्न इति किम् ? पूर्वेषु कामशमी नाम प्रामस्तस्यां भवः
पूर्वेषुकामशमः । “मद्राद” (६।३।२४) । मद्रान्तादिक्पूर्वाच्छेषेर्थेऽञ् स्यात् । पूर्वेषु मद्रेषु भवः पौर्वमद्रः, पौर्वमद्री । बहुत्वे "बहुविषयेभ्यः” (६।३।४५) इत्यकञ् प्राप्तस्तदपवादे "वृजिमद्रादेशात्कः” ( ६।३।३८) इति के प्राप्तेऽव्यवचनम् । केवलादेव मद्रादककविधिरिति चेत्तहीदमेव
ज्ञापकम् "सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधेः"-तेन सुपाञ्चालकः, सर्वपाञ्चालकः, अर्द्ध३० पाञ्चालकः, पूर्वपाञ्चालकः, अपरपाञ्चालकः, सुमागधकः, सर्वमागधकः, सुवृजिकः, समुद्रक इत्यादि सिद्धम् । “उदग्ग्रामाद्यकृल्लोनः” (६।३।२५) । याकृलोमः । उदग्नामादिति किम् ? अन्यस्मादणेव याकृलोमनः । “गोष्ठीतैकीनकेतीगोमतीशूरसेनवाहीकरोमकपटचरात्" ( ६।३।२६) । एभ्योऽष्टाभ्योऽञ् स्यात् । गौष्ठः तैकः नैकेत:-एभ्यो वाहीकग्रामलक्षणयोर्णिकेकणो३४ स्तैक्याः कोपान्त्यलक्षणस्येयस्य चापवादः । गौमत-अस्मिन्नीलक्षणस्याकमः । शौरसेनः-अत्र राष्ट्रा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org