________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽथें एवं पारावारमलङ्गामी पारावारीणः इत्यादि । “धुप्राग्” द्यौश्च प्राक् च उदक् च प्रत्यक च; तस्मात् दिवशब्दात् प्रागादिभ्यश्चाव्ययानव्ययेभ्यः शेषेऽर्थे यः स्यात् । प्राचि प्राग् वा भवं प्राच्यम् । एवमपाच्यमुदीच्यं प्रतीच्यम् । दिग्देशवृत्तेः प्रागादेरयं यः, कालवृत्तेस्त्वव्ययात्परत्वात् "सायं.” (६। ३८७) इत्यादिना तनट् । अनव्ययात्तु “वर्षाकालेभ्यः” (६।३।८०) इति इकण् । प्राक्तनं प्राचिकमित्यादि । “ग्रामादु०” चकारात् यः । ईनबो बकारः "तद्धितः स्वरवृद्धिहेतु.” ( ३।२।५५)५ इति पुंवद्भावनिषेधार्थः । ग्रामीणा भार्या यस्य स प्रामीणाभार्य इति ॥ ६२ ॥
कच्यादेश्चैयकञ् ॥ ६३ ॥ [ सि० ६।३।१०] कञ्यादिभ्यो ग्रामाच्चैयकञ् । कात्रेयकः । ग्रामेयकः । “दक्षिणापश्चात्पुरसस्त्यण्” (६॥३॥ १३) दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ ६३ ॥
"कया" । कत्रि, पुष्कर, पुष्पल, पौदन, उम्पि, उम्भि, औम्भि, कुम्भी, कुण्डिना, नगर, १० महिष्मती, वर्मती, चर्मण्वती इति कन्यादयत्रयोदश । नगरशब्दो महिष्मत्यादिसाहचर्यात्संज्ञायामेयकसमुत्पादयति, अन्यत्राणमेव ।
अत्रादिशब्दसंसर्गात् “कुण्ड्यादिभ्यो यलुक् च" ( ६।३।११) । एभ्य एयकम् , तत्सन्नियोगे चैषां यलुक् स्यात् । कौण्डेयकः । कौणेयकः । कुण्ड्या, कुण्या, उष्ण्या, ( उक्ष्या), भाण्ड्या, प्रामकुण्ड्या, तृण्या, वन्या, पल्या, पुल्या, मुल्या, इति कुण्ड्यादयो दश । "कुलकुक्षिग्रीवा-१५ च्छाऽस्यलङ्कारे" (६।३।१२) कुल्यादिभ्यस्त्रिभ्यः श्वादिविशिष्टेऽर्थे एयकञ् स्यात् । अणोऽपवादः । कुले शुद्धान्वये भवो जातो वा कौलेयकः श्वा, कौलोऽन्यः । कौक्षेयकोऽसिः यः कङ्ककुक्षिनिजीणेनायसाकृतः, कौक्षोऽन्यः । अवेयकोऽलङ्कारः प्रैवोऽन्यः । “दक्षिणा.” अणोऽपवादः । दाक्षिणात्य इति-दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः; अथवा दक्षिणस्यां वसति “वा दक्षिणात् प्रथमासप्तम्या आ” (७।२।११९) इत्याप्रत्यये दक्षिणा, तत्र भवो दाक्षिणात्यः । पश्चात्पुरःशब्दसाह-२० चर्यादक्षिणा इति दिक्शब्दोऽव्ययं वा गृह्यते, तेनेह न भवति-दक्षिणायां भवानि दाक्षिणानि जुहोतिअत्र दक्षिणाशब्दो गवादिवचनः । अव्ययादेवेच्छन्त्यन्ये । अनव्ययस्य दिग्वाचिनो दक्षिणाशब्दस्य दाक्षिणात्य इत्यत्र पुंवद्भावस्तु "कौण्डिन्याऽगत्ययोः कुण्डिनाऽगस्ती च” (६।१।१२७) इति सूत्रनिर्देशेन पुंवद्भावस्यानित्यत्वज्ञापनादिति "नृपः पुरस्थावगृहीतवा( 'पुरस्थैः प्रतिबद्धवा' इति निर्णयसागरमुद्रिते ) पश्चात्तनैः कै( क ? )श्वन नुद्यमानः । यत्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत २५ खम्” ॥ १ ॥ ॥ इति नैषधीये दशमसर्गे पद्यं ६ अत्र पश्चात्तनैरिति प्रयोगः प्रामादिकः । ___ अत्रादिशब्दात् “वह्नयुर्दिपर्दिकापिश्याष्टायन" (६।३।१४) । वाल्हायनी । और्दायनी औयिनः । पायिनः पार्दायनी । कापिशायनं मधु, कापिशायनी द्राक्षा । वल्हीति ऊष्मोपान्त्यः । केचिदत्र वकारं दीर्घान्तं पठन्ति ॥ “रको प्राणिनि वा" (६।३।१५)। राङ्कवायणः, पक्षेऽण् राङ्कयो गौः । प्राणिनीति किम् ? रायः कम्बलः । मनुष्ये तु प्राणिन्यपि कच्छादिपाठात् "कच्छाऽऽदे-३० नॅनृस्थे" (६।३।५५) इति परत्वादकमेव रावको मनुष्यः ॥ ६३ ॥
केहामात्रतसस्त्यच् ॥ ६४ ॥ [सि० ६।३।१६] हामाभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच स्यात् । कत्या, इहत्या, अमात्या, कुत्रत्यः, यतस्त्यः॥६४॥३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org