________________
३९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदीय" (६।३।२१७) । सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ॥ "तूदीवर्मत्या एयण" (६।३।२१८)। आभ्यामाभिजननिवासार्थाभ्यामस्येत्यर्थे एयण स्यात् । तूदी वर्मती आभिजनो निवासोऽस्य तौदेयः वार्मतेयः । “गिरेरीयोऽस्त्राऽऽजीवे" (६।३।२१९)। गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तात्षष्ठ्यर्थे ईयः स्यात् , अनाजीवीत्यभिधेये । हृदोलः पर्वतः आभिजनो ५निवासोऽस्याऽस्राजीवस्य हृगोलीयः । भोजकटीयः । रोहितगिरीयः । अन्धश्मीयः । गिरेरिति किम् ? साङ्काश्यकोऽस्त्राजीवः "प्रस्थपुरे" (६।३।४२) इत्यादिनाकन् । अस्त्राजीव इति किम् ? ऋक्षोदः पर्वतः आभिजनो निवासोऽस्य आक्षोंदो ब्राह्मणः । पृथुः पर्वतः आभिजनो निवासोऽस्य पार्थवः ।
इत्याभिजनाधिकारः ॥ ९ ॥ कृतादयः सप्तदश व्याहरत्यादयो नव । एवं सङ्कलिताः सर्वे शेषार्थाः विंशतिः सषट् ॥ १ ॥ १. "नद्यादेरेय" (६॥३॥२)। शेषे । नद्या कृतादिर्नादेयः । वानेयः । “राष्ट्रादियः" (६३१३)। राष्ट्रियः। शेषे इत्यधिकारादनुवर्तनीयम् ॥ "दूरादेत्यः" (६।३।४)। दूरेत्यः । "उत्तरादाह" (६३५) औत्तराहः ॥ “पारावारादीनः" (६।३।६) पारावारीणः॥ "व्यस्तव्यत्यस्तात्" (६३७) । अपि । पारीणः । अवारीणः । अवारपारीणः । *अलङ्गामीत्यर्थेऽप्येवम्-पारमलङ्गामी, पारीण इत्यादि । “धुप्रागपागुदक्प्रतीचो यः" (६।।८)। १५ दिव्यं प्राच्यमपाच्यमुदीच्यं प्रतीच्यम् ॥ "ग्रामादीनश्च” (६।३।९)। ग्रामीणः ग्राम्यः ॥
"नद्या"। शेषे इति । अधिकारोऽयम् । अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्योऽन्योऽर्थः शेषः । वक्ष्यमाणशेषार्थान्तर्गते "तस्येदम्" (६।३।१६० ) इत्यर्थे एयणादयो विधास्यन्ते । तस्येदंविशेषाश्चापत्यसमूहादयस्ततस्तेष्वपि वक्ष्यमाणा एयणादयो मा भूवन्निति शेषाधिकारः क्रियते । किञ्च सर्वेषु प्राग्जितात् कृतादिषु वक्ष्यमाणाः प्रत्ययाः यथा स्युरनन्तरेणैवार्थनिर्देशेन कृतार्थता मा विज्ञायीति साक२० ल्यार्थं शेषवचनम् । नादेय इति-एवं माहेयः वानेयः । वन्य इति तु “साधौ' (५।१।१५५) यः। शेष इति किम् ? नदीनां समूहो नादिकम् । नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, वनवासी, काशफरी, खादिरी, पूर्वनगर, पूर्वनगरी, पुर, वन, गिरि, (पुर् ?) वनगिरि, पूर्वनगिरि, पावा, मावा, माल्वा, दार्वा, सेतकी, सैतवी, इति नद्यादयः पञ्चविंशतिः (?)।
इतः प्रभृति प्रकृतिविशेषोपादानमात्रेण प्रत्यया विधास्यन्ते कृतादयोऽर्था विभक्तयश्चोक्ता एवेति । २५"राष्ट्रा" शेषे इति-प्राग्जितीये शेषेऽर्थे इत्यर्थः । राष्ट्रे कृतः (?) क्रीतः कुशलो जातो भवो वा
राष्ट्रियः । शेष इत्येव-राष्ट्रस्यापत्यं राष्ट्रिः । “दूरा०" । स्पष्टम् । “उत्त०" औत्तराह इति-औत्तरा स्त्री चेत् । औत्तराहीति उत्तराहिशब्दाद् भवेऽर्थेऽणि । “पारा." अवारः समुद्रः तस्य पारं परतटं राजदन्तादित्वात्पारावारः । पारावारे कृतादिः पारावारीणः । “व्यस्त० व्यस्तादिति पारशब्दात् अवारशब्दाच्च । व्यत्यस्तादिति पर्यस्तात् अवारपारशब्दादित्यर्थः । *अलङ्गामिनीत्यादि प्रकृतिप्रत्ययाविशेपात् अशेषार्थेऽपि लाघवायाऽत्र निरूपितः। अत्र सूत्रम्-पारावारं व्यस्तव्यत्यस्तं च" (७।३।१०१) १पारावारशब्दात्समस्ताब्यस्ताब्यत्यस्ताञ्च निर्देशादेव द्वितीयान्तादलङ्गामिन्यथें ईनः स्यात् । पारीण इति
अस्य सूत्रस्यात्रोपन्यासकारणं सम्यम ज्ञायते-सम्पादकः। १ एयणादयश्च तस्येदमित्यर्थे विहितास्ततश्चापत्य समूहादिष्वपि प्राप्नुवन्ति तद्विशेषलात्तेषाम् । २ अपत्यसमूहादिषु अन्यत्रोपयुक्तखात्तेषाम् । न केवलमपत्यादिषु एयणादीनां निवृत्तये शेषाधिकारः क्रियते, यावत्सर्वेषु कृतजातादिषु अस्पेति षछ्यर्थपर्यन्तेष्वेयणादीनां प्रवृत्त्यर्थश्चेत्साह-किचे। ३ अयमर्थःसन्निहितखात् कृतलब्धकीतादिष्वथैषु एयणादीनां प्रवृत्तेर्व्यवहितेवर्थेषु प्रवृत्तिर्न भविष्यतीत्येवं शङ्का मा भूदित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org