________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । तुल्यदिगर्थाद्यधिकाराः ३८९ विद्युदित्यर्थः । त्रिककुदा एकदिग् त्रैककुदी लङ्का । “यश्चोरसः" (६।३।२१२) चकारात्तसिः । उरसा एकदिक उरस्तः उरस्यः ।
--** इति तुल्यदिगाधिकारः॥ ६॥ *__ "कालाइये ऋणे" (६।३।११३ ) । तत्रेति वर्तते । तत्रेति सप्तम्यन्तात्कालविशेषवाचिनो देयेऽर्थे यथाविहितं प्रत्ययः स्यात् , यहेयं तहणं चेत्स्यात् । नाम्नीति निवृत्तम् । मासे देयमृणं मासिकम् , ५ आर्द्धमासिकम् , सांवत्सरिकम् , मासादिके गते देयमित्यर्थः । ऋण इति किम् ? मासे देया भिक्षा (स्वातौ देयं स्वस्तिवाचनम् )॥ "कलाप्यश्वत्थयवसोमाव्यासैषमसोऽकः” (६।३।११४)। एभ्यः पञ्चभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देये ऋणेऽकः स्यात् । इकणादेरपवादः । यस्मिन्काले मयूराः केदारा इक्षवः कलापिनो भवन्ति, स कालस्तत्साहचर्यात्कलापी, तत्र देयमृणं कलापकम् । यस्मिन्कालेऽश्वत्थाः फलन्ति स कालोऽश्वत्थफलसहचरितोऽश्वत्थस्तत्र देयमश्वत्थकम् । यस्मिन् काले यवबुसं १० भवति तत्र देयं यवबुसकम् । उमा व्यस्यन्ते (विक्षिप्यन्ते) यत्र स काल उमाव्यासस्तत्र देयं उमाव्यासकम् । ऐषेमोऽस्मिन् संवत्सरे देयमृणमैषमकम् । “ग्रीष्माऽवरसमादकम्” (६।३।११५)। आभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकञ् स्यात् । अणिकणोरपवादः । अकारो वृद्ध्यर्थः । ग्रीष्मे देयं गृष्मकम् । अवरासमा अवरसमा, समाया अवरत्वमित्यवरसमं वा । तत्रावरसमकं अपरसमादपीच्छन्त्येके-आपरसमकम् ॥ "संवत्सराऽऽग्रहायण्या इकण च" (६।३।११६) ।१५ आभ्यां देये ऋणे इकण चकारादकञ् च प्रत्ययो भवतः । अणिकणोरपवादः । संवत्सराद्धि फले, पर्वणि च ऋणेऽण् प्राप्नोति । संवत्सरे देयमृणं फलं पर्व वा सांवत्सरिकं सांवत्सरकम् । आग्रहायणिक आग्रहायणकम् । वेत्यकृत्वा इकण् चेति विधानं "संवत्सरात्फलपर्वणोः” (६।३।९०) इत्यण्वाधनार्थम् ।
* इति देयऋणाधिकारः ॥ ७ ॥ "सेनिवासादस्य" (६।३।२१३ ) प्रथमान्तात्षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । यत्प्रथ-२० मान्तं निवासश्चेत्स भवति । निवसन्त्यस्मिन्निति निवासो देशे उच्यते । सुनो निवासोऽस्य स्रौनः । माथुरः । नादेयः । राष्ट्रियः ।
ल इति निवासाधिकारः ॥ ८ ॥ "आभिजनात्" (६।३।२१४) अभिजनाः पूर्वबान्धवाः, तेषामयमाभिजनः । प्रथमान्तादाभिजनान्निवासात्षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । सुनोऽस्याभिजनो निवासः स्रौनः । माथुरः । २५ नादेयः । राष्ट्रियः ॥ "शण्डिकाऽऽदेर्यः” (६।३।२१५) । अणाद्यपवादः । शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः । कौचवार्यः । शण्डिक, कूचवार, सर्वसेन, सर्वकेश, शङ्ख, शाण्डिक (शक ?) शट, रक, चणक (चरण ?) शङ्कर, बोध, इति शण्डिकादय एकादश ॥ "सिन्ध्वादेरम्' (६।३। २१६) । अणाद्यपवादः । सिन्धुराभिजनो निवासोऽस्य सैन्धवः । सिन्धु, वर्ण, मधुमत् , कम्बोज, कूलूज, गन्धार, कश्मीर, सल्व, किष्किन्ध, गब्दिक, उरस्, दरद् , ग्रामणी, काण्डवरक इति ३० सिन्ध्वादयः पञ्चदश । सल्वान्तेभ्यो नृनृस्थानाकयोऽपवादोऽञ् । शेषेभ्यो बहुविषयराष्ट्रलक्षणस्याको ग्रामणीकाण्डवरकाभ्यामीयस्य, तक्षशिलादिभ्यस्त्वऽञ् नोच्यते, उत्सर्गेणैव सिद्धत्वात् । (केचित्तक्षशिलादिभ्योऽयं ब्रुवते । तन्न । बाधकप्रत्ययान्तराप्रात्या 'प्राग्जितात्' इत्येव सिद्धत्वात् ॥ "सलातुरा-३३
१ आदिशब्दात् 'ऐषमो ह्यः श्वस्ते वा' इतित्यन्तनटौ। २ ऐषम इति सामान्यविशेषभावेन भूयः सप्तमी । एके तु विशेषाभावं मम्बानाः सप्तम्यर्थादपि प्रत्यय इति च व्याचख्युः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org