________________
३८८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"गच्छति पथि दूते" ( ६।३।२०३ ) । द्वितीयान्ताद्गच्छत्यर्थे यथाविहितं प्रत्ययः स्यात् । स्रुघ्नं गच्छति स्रौनः चेत्पन्था दूतो वा स्यात् । मथुरां गच्छति माथुरः पन्था दूतो वा । एवं नादेयः, राष्ट्रियः । पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अपि गच्छतीत्युच्यते, मथुरादिप्राप्तिर्वा पथो गमनम् । पथि-दूत इति किम् ? खुम्नं गच्छति साधुः । पाटलीपुत्रं गच्छति नौः, पण्य, वणिग् वा।
ल इति गच्छतीत्यर्थाधिकारः ॥ ४ ॥ "भजति" (६।३।१०४) द्वितीयान्ताद्भजत्यर्थे यथाविहितं प्रत्ययो भवति । त्रुघ्नं भजति स्रौनः । माथुरः । नादेयः । राष्ट्रियः ॥ "महाराजादिकण्” (६।३।२०५) । महाराज भजति माहाराजिकः । “अचित्ताददेशकालात्” (६।३।२०६) देशकालवर्जितं यदचित्तमचेतनं ततो
भजत्यर्थे इकण् स्यात् । अणादेर्बाधकः । अपूपान् भजति आपूपिकः । शाष्कुलिकः । मौदकिकः । १० पायसिकः । अचित्तादिति किम् ? देवदत्तः। अदेशकालादिति किम् ? स्रौनः। हैमनः ॥ “वासुदेवाऽर्जुनादकः” (६।३।२०७) । ईयाकमोरपवादः । वासुदेवं भजति वासुदेवकः । यदा वासुदेवशब्दोऽक्षत्रियवचनः संज्ञाशब्दस्तदोत्तरेणाकञ् न प्राप्नोति किन्तु "दोरीयः" (६।३।३२) इतीयः स्यादिति तद्ब्रहणम्-अर्जुनं भजति अर्जुनकः, क्षत्रियत्वादुत्तरेणाकञ् स्यादिति अर्जुनप्रहणम् । केनैव सिद्धे
अकविधानं वासुदेवीं भजति वासुदेवकः, अर्जुनीमर्जुनक इत्येवमर्थम् (कप्रत्यये 'यादीदूतः के' इति १५ ह्रस्वत्वं स्यात् , अकप्रत्यये तु 'जातिश्च०' (३।२।५१) इति पुंवद्भवति ) । “गोत्रक्षत्रियेभ्योऽकञ्
प्रायः" (६।३।२०८)। अणाद्यपवादः । गोत्र. ग्लुचुकायनिं भजति ग्लौचुकायनकः। औपगवकः । दाक्षकः । गार्गकः । गाायणकः । क्षत्रियम्. नाकुलकः । साहदेवकः । दौर्योधनकः । दौःशासनकः । बहुवचनं क्षत्रियविशेषपरिग्रहार्थम् । प्राय इति किम् ? पणिनोऽपत्यं पाणिनस्तं भजति पाणिनीयः । पौरवीयः । “सरूपाद् द्रेः सर्व राष्ट्रवत्" (६।३।२०९) । “राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये २०दिरम्” ( ६।१।११४) इति प्रस्तुत्य सरूपाद्यो द्रिःप्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजत्यर्थे सर्व
प्रकृतिः प्रत्ययश्च राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृतिर्वृजिप्रमुखा ततश्च यः प्रत्ययो "वृजिमद्राद्देशात्कः" (६।३।३८) इत्यादिना विहितस्तदुभयं वाय॑ इत्यादेः सरूपस्य द्रिप्रत्ययान्तस्य भजतीत्यस्मिन्विषये भवतीत्यर्थः । वाज्यं वाज्यौं वृजीन् वा भजति वृजिकः । माद्रं माद्रौ मद्रान्वा भजति मद्रकः । अत्र कः प्रत्ययः ॥ पाण्ड्यं पाण्ड्यौ पाण्डून् वा भजति पाण्डवकः, आङ्गकः, वाङ्गकः, पाञ्चालकः, वैदेहकः, २५ औदुम्बरकः, तैलखलका, अत्र "बहुविषयेभ्यः” (६।३।४५) इत्यकञ् ॥ कौरवकः कौरवः, योगन्धरकः यौगन्धरः, अत्र "कुरुयुगन्धराद्वा" (६।३१५३ ) इति वाकञ् ॥ ऐक्ष्वाकः । अत्र "कोपान्त्याच्चाऽण्" (६।३।५६) इत्यण ॥ सरूपादिति किम् ? पौरवीयम्-अत्र पुरू राजा अनुखण्डो जनपद इति न सारूप्यम्, अत एव पुरुमगधेत्यादौ द्विस्वरत्वेऽणैव सिद्धे पुरुग्रहणमसरूपार्थं कृतम् । नेरिति किम् ? पञ्चालान् ब्राह्मणान् भजति पाञ्चाल:-अत्र "बहुविषयेभ्यः" इत्यकञ् न भवति । सर्वग्रहणं ३० प्रकृत्यऽतिदेशार्थं तच्च वाय॑माद्रपाण्ड्यकौरव्याः प्रयोजयन्ति; अन्यत्राऽविशेषात् ।
इति भजतीत्यर्थाधिकारः ॥ ५॥ "टस्तुल्यदिशि" (६।३।२१०) । सहार्थतृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययः ३३ स्यात् । तुल्या दिग् यस्य स तुल्यदिग् । सुदाम्ना एकदिग् सौदानी विद्युत् । यस्यां दिशि गिरिस्तस्यां
१ तेन वृजिक मद्रक पाण्डवक इति सिद्धम् अन्यथा पाण्ज्यक इत्यादौ यकारश्रुतिः स्यात् । न वाच्यं तद्धितयखरे' इति यलोपप्राप्तिः अनापत्यत्वात् यकारस्य । २ आजक इत्यादि लिखितापेक्षया एतदुक्तम्, यावता आवन्तक इत्यादावस्येव विशेषः । अनापत्यवादावन्स इति स्थिते यलोपाप्रसात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org