________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । कृताधिकाराः
३८७ षम् ॥ "शिशुक्रन्दाऽऽदिभ्य ईयः" (६।३।२००) । शिशुक्रन्दमधिकृत्य कृतो प्रन्थः शिशुक्रन्दीयः । यमसभीयः । इन्द्रजननीयः । प्रद्युम्नप्रत्यागमनीयः। प्रद्युम्नोदयनीयः। सीताहरणीयः। सीतान्वेषणीयः । (शिशुक्रन्दादयः) प्रयोगतोऽनुसतव्याः। शिशुक्रन्दशब्दात्केचिन्नेच्छन्ति-शैशुक्रन्दम् । "द्वन्द्वात्प्रायः" ( ६।२।२०१) द्वन्द्वसमासादमोऽधिकृत्य प्रन्थे प्राय ईयः स्यात् । अणोऽपवादः। वाक्यपदीयम् । द्रव्यपर्यायीयम् । शब्दार्थसम्बन्धीयम् । श्येनकपोतीयम् । प्राय इति किम् ? दैवासुरम् ।। राक्षोसुरम्, गौणमुख्यम् ॥ ६१ ॥
इति कृताधिकारः ॥ १६ __ "साधुपुष्प्यत्पच्यमाने", ६।३।११७, “उत्ते" ६।३।११८ ॥ ६२ ॥ सप्तम्यन्तात्कालार्थादेष्वणादयः स्युः । शिशिरे साधु शैशिरं तैलम् । वसन्ते पुष्प्यन्ति पच्यन्ते उप्ता वा वासन्त्यो लताः॥६२ ॥
*कृतादयः सप्तदशार्थाः शेषसंज्ञाः । दिबावमेतत् ।
"साधु०” “उप्ते" सप्तम्यन्तादित्यादि-अणादय इति-यथाविहितमणादय एयणादयश्च स्युरिति भावः । शैशिरं तैलमिति-एवं हेमन्ते साधु हैमनमनुलेपनं हेमन्तं हैमन्तिकम् । शरदि पच्यन्ते शारदाः शालयः । शैशिरा मुद्गाः । शरद्युप्ताः शारदा यवाः । हेमन्ते हैमनाः । गृष्माः । नैदाघाः ॥
अत्रायं विशेषः-"आश्वयुज्या अक" ( ६।३।११९) । आश्वयुजीशब्दादुप्तेऽर्थेऽकञ् स्यात् । १५ इकणोऽपवादः । अश्विनीभिश्चन्द्रयुक्ताभिर्युक्ता आश्वयुजी पौर्णमासी । अश्विनीपर्यायोऽश्वयुक्शब्दः । आश्वयुज्यां कौमुद्यामुप्ता आश्वयुजका माषाः ॥ "ग्रीष्मवसन्ताद्वा" (६।३।१२०)। उप्रेऽर्थेऽकञ् । ऋत्वणोऽपवादः । श्रेष्मकं प्रैष्मं वासन्तकं वासन्तं धान्यम् । *कृतादय इत्यादि, दिग्मात्रमेतत् इति–एते सप्तदश त्वर्थाः प्रायः काव्यादिषु बहुप्रयुज्यमानतया प्रसिद्धा इति पृथग्नामप्राहं दर्शिताः ।
__ अन्येऽपि शेषार्थाः सन्ति । ___ तथाहि "व्याहरति मृगे” ( ६।३।१२१)। सप्तम्यन्तात्कालवाचिनो व्याहरत्यर्थे यथाविहितं प्रत्ययः स्यात् , व्याहरंश्चेन्मृगो भवति । निशायां व्याहरति नैशिकः नैशः शृगालः "निशाप्रदोषात्" (६।३।८३) इति इकण्वा ।
( इति व्याहरतीत्यर्थाधिकारः ॥१॥ "जयिनि च" (६।३।१२२) जयः प्रसहनमभ्यासः, सोऽस्यास्तीति जयी । सप्तम्यन्तात्काल-२५ वाचिनो जयिनि वाच्ये यथाविहितं प्रत्ययः स्यात् । निशासहचरितमध्ययनं निशा, तत्र जयी साभ्यासः नैशिकः नैशः । प्रादोषिकः प्रादोषः । वासन्तः । वार्षिकः । केवलकालविषयस्य जयस्यायोगान्निशादिसहचरिताध्ययनादिवृत्तयो निशादयः शब्दाः प्रत्ययमुत्पादयन्ति । चकारः कालादित्यनुकर्षणार्थः, तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्त्तते ।
• इति जयीत्यर्थाधिकारः ॥ २ ॥ "अभिनिष्क्रामति द्वारे" ( ६।३।२०२)। द्वितीयान्ताभिनिष्क्रामत्यभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययः स्यात् , तच्चेदभिनिष्क्रामहारं भवति । त्रुघ्नमभिनिष्क्रामति कन्यकुब्जद्वारं स्रौनम माथा नादेयं राष्ट्रियम् । करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातत्रयविवक्षा, यथा साध्वसिश्छिनन्तीति । रचनाबहिर्भावे वा निष्कामिः, यथा गृहकोणो निष्क्रान्तः (रचनाया बहिर्निर्गत इत्यर्थः)।
> इति अभिनिष्कामतीत्यर्थाधिकारः ॥ ३ ॥१+
२०
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org