________________
३८६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुपाराशरिणो भिक्षवः । शैलालिनां धर्म आनायः सङ्को वा शैलालकम् । पाराशरकम् । अतिदेशाद्वेदित्रध्येतृविषयता चरणादकम् च स्यात् ॥ "कृशाश्वकर्मन्दादिन्" (६।३।१९०)। नटभिक्षुसूत्रे, अणोऽपवादः । वेदवच्च कार्यम् । कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा कृशाश्विनो नटाः । कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः । अतिदेशादकश्च-काश्विकं कार्मन्दकम् । ५नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके-कापिलेयिनो नटाः । कापिलेयक आम्नायः ।
* इति प्रोक्ताधिकारः ॥* "उपज्ञाते" (६।३।१९१ ) । इति । विनोपदेशमित्यादि स्पष्टम्-यथा भद्रबाहुणोपज्ञातं भाद्रबाहवं शास्त्रम् । एवं पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् ॥ "कृते" (६।३।१९२ ) । इति । तृतीयान्तात्कृते उत्पादितेऽर्थे यथाविहितमणादयः स्युः । यथा शिवेन कृतो ग्रन्थः शैवः । वाररुचानि १० वाक्यानि । जलूकेन जलूकया वा कृता जालूकाः श्लोकाः । जालुकिना जालुकाः श्लोकाः-अत्र
"वृद्धेऽत्रः" (६।३।२८) इत्यन् । सिद्धसेनीयः स्तवः । इष्टकाभिः कृतः प्रासाद ऐष्टकः । नारदेन कृतं नारदीयं गीतम् । मनसा कृता मानसी कन्या । तक्ष्णा कृतः प्रासाद इत्यादावनभिधानान भवति । कृते ग्रन्थ एवेच्छन्त्यन्ये ।
आदिशब्दसन्निधापिता विशेषास्त्वेवम्-"नानि मक्षिकाऽऽदिभ्यः” (६।३।१९३) कृतेऽर्थे १५यथाविहितं प्रत्ययाः स्युः । मक्षिकाभिः कृतं माक्षिकं मधु । सरघाभिः सारघम् । गर्मुद्भिर्गार्मुतम् । नानीति किम् ? मक्षिकाभिः कृतं शकृत् । वातपैः कृतं वातपमित्यत्राणन्तं नाम, नेयान्तमितीयो न स्यात् । मक्षिका, सरघा, गर्मुत्, नर्मुका, पुत्तिका, क्षुद्रा, भ्रमर, वटर, वातप, इति मक्षिकादयः प्रयोगगम्याः ॥ "कुलालाऽऽदेरकम्” (६।३।१९४) कृते नाम्नि । कुलालेन कृतं कौलालकम् । पारुटकम् । नाम्नीत्यभिधेयनियमार्थ तेन घटघटीशरावोदश्चनान्ये(ो ?)व भाण्डं कौलालकम् , २० न यत्किञ्चित्कुलालकृतम् । शूर्पायेव (आदिशब्देन पिटकपटलिकापिच्छिकायेव ) भाण्डं वारुटकं नान्यत् । एवमन्यत्राप्यभिधेयनियमः । कुलाल, वरुट, कार, निषाद, चण्डाल, सेना, सिरन्ध्र, देवराजन् , देवराज, परिषद्, वधू, रू(भ)द्र, अनबुह् , ब्रह्मन् , कुम्भकार, अश्वपाक, रुद्र (रुरु ?) इति कुलालादयः सप्तदश ॥ “सर्वचर्मण ईनेनौ” (६।३।१९५) नाम्नीत्यधिकारादभिधेयनियमः । सर्वश्वर्मणा कृतः सर्वचक्षणः सार्वचक्षणः-अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देनायोगेऽपि २५ "नाम नाम्नै.” (३।१।१८) इति समासः ॥ "उरसो याऽणो" (६।३।१८६) नाग्नि । उरसा कृतः उरस्यः औरसः ॥ “छन्दस्यः” (६।३।१९७) छन्दस्शब्दात् कृतेऽर्थे यो निपात्यते । नाम्नि । छन्दसा इच्छया कृतः छन्दस्यः, न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । निपातनात् कचिदन्यत्रापि भवति-औं श्रावयेति चतुरक्षरम् । अस्तु औषडिति चतुरक्षरम् । येयजा
मह इति पश्चाक्षरम् । यजेति ब्यक्षरम् । ब्यक्षरो वषट्कारः । एष वै सप्तदशाक्षरः छन्दस्यो यज्ञमनु३० विहितः-अत्र स्वार्थे यः । यथानुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूहः छन्दस्य
उच्यते ॥ "अमोऽधिकृत्य ग्रन्थे" (६।३।१९८) । द्वितीयान्तादधिकृत्य प्रन्थे यथाविहितं प्रत्ययः स्यात् । अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः । तदपेक्षा द्वितीया । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । सुतारां सौतारः । भीमरथमधिकृत्य कृताख्यायिका भैमरथी। कथं वासवदत्तामधिकृत्य
कुताख्यायिका वासवदत्ता, उर्वशी, सुमनोहरा, बलिबन्धनं, सीताहरणमिति ? उपचारादन्थे ताच्छब्यं ३५ भविष्यति ॥ "ज्योतिषम्" (६।३।१९९) । निपातोऽयम् । ज्योतीष्यधिकृत्य कृतो प्रन्थो ज्योति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org