________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । प्रोक्ताधिकारः नीयम् । आपिशलिना आपिशलम् । काशकृत्लिना काशकृत्स्नम् । उशनसा औशनसम् । बृहस्पतिना बार्हस्पत्यम् ।
अत्रादिशब्दसन्निधानात् “मौदाऽऽदिभ्यः” (६।३।१८२)। एभ्यस्तेन प्रोक्ते यथाविहितं प्रत्ययः, सचापवादैर्बाधितोऽणेव-अपवादस्यैव भावे वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः "वेदेन्ब्राह्मणमत्रैव” (६।२।१३०) इति नियमादत्र वेदिबध्येतृविषय एवाण । एवं५ पैष्प्लादाः, जाजलाः । माथुरेण प्रोक्ता माथुरी वृत्तिः । सौलभानि ब्राह्मणानि । मौदादयः प्रयोगगम्याः ॥ "कठाऽऽदिभ्यो वेदे लुप्" (६।३।१८३) स चेत्प्रोक्तो वेदः स्यात् । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । चरकाः । कर्कराः। धेनुकण्ठाः । गोगडाः । "वेदेन् ब्राह्मणमत्रैवे"ति नियमाद्वेदित्रध्येत्रोरेव विषये प्रत्ययस्य लुप् । वेद इति किम् ? चरकेण प्रोक्ता श्लोकाचारकाः। चरको वैशम्पायनः । कठादयः प्रयोगगम्याः ॥ "तित्तिरिवरतन्तुखण्डिकोखादीय" (६।३।१८४) । वेदे १० प्रोक्तार्थे । तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । अत्रापि "वेदेन ब्राह्मणमत्रवे"त्युपतिष्ठते ॥ "छगलिनो यिन" (६।३।१८५) प्रोक्ते वेदे । अणोऽपवादः । छगलिना प्रोक्तं वेदं विदन्ति अधीयते वा छागलेयिनः ॥ "शौनकाऽऽदिभ्यो णिन्” (६।३।१८६) । प्रोक्ते वेदे । अणाद्यपवादः । शौनकेन प्रोक्तं वेदं विदन्त्यधीयते वा शौनकिनः । वेद इत्येव-शौनकीया शिक्षा । शौनक, शारिव, वाजसनेय, शापेय ( काकेय ?), शाफेय, १५ शाप्पेय, शाष्फेय(ल्फेय ?), स्कन्ध, स्कम्भ, देवदर्श, १० रज्जुभार, रज्जुतार, रज्जुकण्ठ दामकण्ठ, कठ, शाठ, कुशाठ, कुशाप, कुशायन, आश्वपचम, तलवकार, २१ पुरुषांश ( स ? )क, परुषांश ( स ? )क, हरिद्र, तुम्बरु, उपल (उपलप ?), आलम्बि, पलिङ्ग, कमल, ऋचाभ, आरुणि, ३० ताण्ड्या , ( ताण्ड्य ?) श्यामायन, खादायन, कषायतल, स्तम्भ, ३६ इति शौनकादयः पञ्चत्रिंशत् (?) आकृतिगणोऽयम् , तेन भाल्लविना प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः २० इत्यादि सिद्धम् । ब्राह्मणमपि वेद एव । “मत्रब्राह्मणं हि वेदः” । “पुराणे कल्पे” ( ६।३।१८७) तृतीयान्तात्प्रोक्तेऽर्थे णिन्प्रत्ययः स्यात् । अणाद्यपवादः । स चेत्प्रोक्तः पुराणः कल्पः स्यात् । पिङ्गेन प्रोक्तः कल्पः पुराणः पैङ्गीकल्पः । तृणपिङ्गेन तार्णपिङ्गी कल्पः । अरुणपराजेन आरुणपराजी कल्पः । येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः, आरुणपराजिनः । प्रोक्ताद्धि लुबुक्तैव । पुराण इति किम् ? आश्मरथः कल्पः । आश्मरथ्येन प्रोक्तः कल्प उत्तरकल्पेभ्य आरातीय इति श्रूयते ॥२५ "काश्यपकौशिकाद्वेदवच" ( ६।३।१८८)। आभ्यां प्रोक्ते पुराणे कल्पे णिन् स्यात् । ईयापवादः । देववञ्चास्मिन् कार्य स्यात् । काश्यपेन प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः । कौशिकेन कौशिकिनः । काश्यपिनां धर्म आम्नायः सङ्घो वा काश्यपकः । कौशिकिनां कौशिककः । वेदवच्चेत्यतिदेशाद् "वेदेन ब्राह्मणमत्रैवे"ति वेदित्रध्येतृविषयता "चरणादक" (६।३।१६८) इत्यकञ् च भवति । कल्प इत्येव-काश्यपीया संहिता । पुराण इत्येव-इदानीन्तनेन गोत्रकाश्यपेन ३० प्रोक्तः कल्पः काश्यपीयः । वेदवञ्चेत्यतिदेशार्थं वचनम् (पुराणे कल्पे इत्यनेनैव सिद्धत्वात् ) ॥ "शिलालिपाराशर्यान्नटभिक्षुसूत्रे" (६।३।१८९)। शिलालिन्-पाराशर्य इत्येताभ्यां प्रोक्ते नटसूत्रे भिक्षुसूत्रे च णिन् स्यात् । अणअपवादः । (शिलालिनशब्दात्तेन प्रोक्ते, पाराशर्यात्तु शकलादेर्यबः) । वेदवचास्मिन् कार्य स्यात् । नटानामध्ययनं नटसूत्रम् । भिक्षणामध्ययनं भिक्षुसूत्रम् । शिलालिना प्रोक्तं नटसूत्रं विदन्त्यधीयते शैलालिनो नटाः । पाराशर्येण प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा ३५
__ है० प्रका• पूर्वा० ४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org