________________
३८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुघोषाको वा, बैदं लक्षणम् । यम्. गर्गाणामयं गार्गः सङ्घादिः, गार्ग लक्षणम् । इञ्. दाक्षीणामयं दाक्षः सजादिः, दाक्षं लक्षणम् (गोत्रादित्येव-सौतङ्गमीयः सङ्घादि) सङ्घादिष्विति किम् ? बिदानां गृहम् । अन्यनिष इति किम् ? औपगवकः सङ्घादिः । लक्षणं लक्ष्यणस्यैव स्वम् , यथा शिखादि, अङ्कस्तु स्वामिकृतं गवादिस्थं स्वस्तिकादि चिहं नतु गवादीनां स्वमेवेति लक्षणाङ्कयोर्भेदः । “शाकलादक ५च" (६।३।१७३) । शाकलशब्दात्सङ्घादाविदमर्थेऽण अकञ् वा स्यात् । शाकल्येन प्रोक्तं विदन्त्य
धीयते वा शाकलास्तेषां सङ्घादिः शाकलः शाकलकः । शाकलं शाकलकं लक्षणम् । “गृहेऽग्नीधो रण धश्च" (६।३।१७४) । अनी ऋत्विग्विशेषस्तस्मादिदमर्थे गृहे रण स्यात् , अन्तस्य च तृतीयबाधनार्थं धादेशः । अग्नीध इदमानीभ्रं गृहम् । “रथात्साऽऽदेश्च वोदऽङ्गे" (६।३।१७५) निय
मसूत्रमेतत् । रथात्केवलात्सपूर्वाच षष्ठयन्तादिदमर्थे यः प्रत्ययः स रथस्य वोढरि रथाङ्गे एव च स्यात। १० रथस्यायं वोढा रथ्योऽश्वः । रथस्येदं रथ्यं चक्रम्, रथ्यं युगम् । सादि. द्वयो रथयोर्वोढा द्विरथः, त्रिरथः, "द्विगोरनपत्ये यस्व०" (६।१।२४ ) इत्यादिना यलुप् । अन्ये तु स्वरादेरेव लुपमिच्छन्ति, तन्मते द्विरथ्यः त्रिरथ्यः । परमरथस्येदं परमरथ्यम् । (उत्तमरथ्यम् । आश्वरथं चक्रम् )। वोढङ्ग एवेति नियमादन्यत्र वाक्यमेव, न प्रत्ययः, रथस्येदं स्थानम् । “यः" (६।३।१७६)। रथात्केवलात्सादेश्व
इदमर्थे यः स्यात् । अणादेरपवादः । रथस्यायं वोढा रथ्यः । द्वयो रथयोर्वोढा द्विरथः । त्रिरथः । १५ रथ्यम् , परमरथ्यम् , काष्ठरथ्यं चक्रम् । “पत्रपूर्वादऽम्" (६।३।१७७ ) पत्रं वाहनम् । तत्पू
द्रिथादिदमर्थेऽब् स्यात् । यापवादः । अश्वरथस्येदं आश्वरथं चक्रम् । “वाहनात्" (६।३। १७८) । वाहनवाचिन इदमर्थेऽञ् स्यात् । अणाद्यपवादः । उष्ट्रस्यायं औष्ट्रः । रासभो हास्तो रथः । "वाह्यपथ्युपकरणे" ( ६।३।१७९) । नियमसूत्रमिदम् । वाहनाद्योऽयं प्रत्यय उक्तः स वाह्ये पथि उपकरण एव चेदमर्थे स्यान्नान्यत्र । अश्वस्यायमाश्वो रथः । आश्वः पन्थाः। आश्वं पल्ययनम् । २० आश्वी कशा । वाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव, न प्रत्ययः; अश्वानां घासः । “वहेस्तुरिश्वाऽऽदिः” (६।३।१८०)। वहेः परो यस्तृचस्तृनो वा तृशब्दस्तदन्तादिदमर्थेऽञ्प्रत्ययस्तृ. शब्दस्य चादिरिकारः स्यात् । संवोढुः सारथेरिदं सीवहित्रम् ॥ ६० ॥
तेन प्रोक्ते [सि० ६३।१८१]
उपज्ञाते [सि० ६।३।१९१]
कृते ॥ ६१ ॥ [ सि० ६।३।१९२] तृतीयान्तादेवणादयः स्युः । भाद्रवाहवं शास्त्रम् । विनोपदेशमादौ ज्ञातं उपज्ञातम् ॥६१॥
"तेन.", उप०, कृते, इति सूत्रत्रयं स्पष्टम् । तृतीयान्तादिवृत्तिश्च कण्ठ्या । तत्र प्रकर्षेण व्याख्या- . तमध्यापितं वा प्रोक्तम् , न तु कृतम्, तत्र कृत इत्येव गतत्वात्तस्मिन्नर्थे तृतीयान्तानानो यथाविहित
मणादय एयणादयश्च स्युः । भाद्रबाहवं शास्त्रमिति-एवं भाद्रबाहवानि उत्तराध्ययनानि गणधरप्रत्येकबु३० द्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि । पाणिनिना पाणि
१ प्रत्ययस्तूत्तरेणैव । तयेक एवं योगः क्रियेताम् ? नैवम् । रथात्सादेश्च वोढ़ले य इति कृते विधिसूत्रं स्यात्, ततश्च वोदङ्ग इत्यस्य व्यावृत्ती रथस्येदं स्थानमिति कृते अण् प्राप्येत । नियमे वाक्यमेव । २ आदिशब्दावीयध्ययोः, ईये रासभ इति, ज्ये औष्टपतमिति द्रष्टव्यमिति । ३ यदि पूर्वेण सह एक योगं कुर्यात्तदानी वाहनवाचिनो पथ्युपकरणे अमेवान्यत्र यथा प्राप्तमेव स्यात्, पृथग्योगे तु नियमार्थम् । ४ अत्र परे इकारागमे कर्तव्ये ढत्यादिशास्त्रमसत्, इकारागमे च कृते न प्राप्नोति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org