________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । तस्येदमित्यर्थः
३८३ अत्रादिशब्दानुसन्धानात् "हलसीरादिक" (६।३।१६१)। अणोऽपवादः । हलस्येदं हालिकम् । एवं सैरिकम् । “समिध आधाने टेन्यण्" (६।३।१६२) । आधीयते समित् येन तदाधानम् । अणोऽपवादः । टकारो ड्यर्थः । समिधामाधानो मत्रः सामिधेन्यो मत्रः । सामिधेनी ऋक् । पञ्चदश सामिधेन्यः । “विवाहे द्वन्द्वादकल्" (६।३।१६३) । अणोऽपवादः । लकारः स्त्रीत्वार्थः । अत्रिभरद्वाजानां विवाहः अत्रिभरद्वाजिका । वसिष्ठकाश्यपिका । भृग्वङ्गिरसिका ।५ कुत्सकुशिकिका । गर्गभार्गविका । कुरुवृष्णिका । कुरुकाशिका । “अदेवासुराऽऽदिभ्यो वैरे" (६।३।१६४) । देवासुरादिवर्जिताहन्द्वाद्वैरे इदमर्थेऽकल् स्यात् । अणोऽपवादः । ईयं तु परत्वाद्वाधते । बाभ्रवशालङ्कायनानामिदं वैरं बाभ्रवशालङ्कायनिका । काकोलकिका, श्वावराहिका, श्वशृगालिका, अहिनकुलिका । अदेवासुरादिभ्य इति किम् ? दैवासुरम् , राक्षोऽसुरम् , । देवासुरादयः प्रयोगगम्याः । "नटान्नृत्ते ज्यः” (६।३।१६५) । नटानामिदं नृत्तं नाट्यम् । “छन्दोगौक्त्थिकयाज्ञिक-१० बढचाच धर्माऽऽनायसङ्के" (६।३।१६६) । छन्दोगादिभ्यश्चतुर्यो नटाञ्च धर्मादौ इदमर्थे ज्यः स्यात् । छन्दोगानां धर्म आम्नायः सङ्घो वा छान्दोग्यम् । औक्त्थिक्यम् । याज्ञिक्यम् । बाढूच्यम् । नाट्यम् । “आथर्वणिकादणिक लुक् च” (६।३।१६७ ) । अस्मादिदमर्थेऽण् इकलोपश्चास्य । अथर्वणा प्रोक्तं वेदं वेत्त्यधीते वा आथर्वणिकः न्यायादित्वादिकण, अतएव निपातनाद्गणपाठसामर्थ्यावा प्रोक्ताल्लब् न भवति । आथर्वणिकानां धर्म आनायः सङ्घो वा आथर्वणः । चरणाकनि प्राप्ते वचनम् । १५ "चरणादकम्" (६।३।१६८)। चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यायिषु वर्त्तते, चरणवाचिनो धर्मादौ इदमर्थेऽकञ् स्यात् । अणोऽपवादः । ईयं तु परत्वाद्वाधते । कठानां धर्म आम्नायः सङ्घो वा काठकः । चरकानां चारककः । कालापानां कालापकः । पैष्पलादानां पैप्पलादकः । मौदानां मौदकः । आर्चाभिनामा भकः । वाजसनेयिनां वाजसनेयकः । “गोत्राददण्डमाणवशिष्ये" (६।३।१६९) । गोत्रवाचिनो दण्डादिवर्जिते इदमर्थेऽकञ् स्यात् । अणोऽपवादः । ईयात्रौ तु पर- २० त्वाद्वाधते । औपगवकम् , कापटवकम् , दाक्षकम् , प्लाक्षकम् , गार्गकम् , गाायणकम् (ग्लौचुकायनकम् , म्लौचुकायनकम् ) अदण्डमाणवशिष्य इति किम् ? काव्यस्यमे काण्वाः-दण्डमाणवाः, शिष्या वा । एवं गौकक्षाः "शकलादेर्यवः(६।३।२७) इत्यब् । दाक्षेरिमे दाक्षाः प्लाक्षाः माहकाः "वृद्धेऽञः" (६।३।२८) इत्यञ् । दण्डप्रधाना माणवाः दण्डमाणवाः, आश्रमिणां रक्षापरिचरणार्थाः । शिष्या अध्ययनार्था अन्तेवासिनः । रैवतिकादेरीया" (६।३।१७०) । अस्माद्गोत्रवा. २५ चिन इदमर्थे ईयः स्यात् । रैवतिकीयं शकटम् । रैवतिकीयः सङ्घादिः । रैवतिकीया दण्डमाणवशिष्याः । गौरपीवीयं शकटम् । गौरग्रीवीयः सङ्घादिः । गौरपीवीया दण्डमाणवशिष्याः ॥ रैवतिक, गौरग्रीवि, स्वापिशिष्य, क्षैमधन्वि (१मधृति इति मुद्रितबृहद्वृत्तौ), औदमेघि, औदवाहि, वैजवापि, इति रैवतिकादयः सप्त । "कौपिञ्जलहास्तिपदादण्" (६।३।१७१) । आभ्यां गोत्रवाचिभ्यामिदमर्थेऽण् । अकादेरपवादः । कुपिञ्जलस्यापत्यं कौपिञ्जलः । हस्तिपादस्यापत्यं हास्तिपादः । ३० अतो निपातनादेवाण पादस्य च पद्भावः । तयोरिदं कौपिञ्जलं हास्तिपदं शकटम् । कौपिञ्जला हास्तिपदा दण्डमाणवशिष्याः । ननु यथाविहितमित्यण् सिद्ध एव, न चेयः प्राप्नोति, तदभीष्टौ हि रैवतिकादावेवैतौ पठ्येयाताम् , तथा अकञः प्राप्तौ वचनमनर्थकं स्यात् तथाप्यत्राणग्रहणाभावे दण्डमाणवशिष्येष्वकमर्थमेतत्स्यात्तत्र ह्यकञ् प्रतिषिद्ध इति । णित्वं ड्यर्थं पुंवद्भावार्थं च-कौपिञ्जली स्थूणः । हास्तिपदी स्थूणः । “सङ्घघोषाऽङ्कलक्षणेऽञ्यनित्रा" (६।३।१७२ ) अबन्ताद्यजन्तादिनन्ताच गोत्रवाचिनः "तस्येदम्" इत्यर्थे सङ्कादावण स्यात् । अकोऽपवादः । अबू, बिदानामयं बैदः सङ्घो ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org