________________
३८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवत्प्रत्ययः स्यात् । यथा भवति बिदानामकः बैदः । गार्गः, दाक्षः, इति "सङ्घयोषाऽङ्कः” (६।३।१७२) इत्यादिनाण् , तथेहापि विदेभ्य आगतं बैदम् , गार्गम् , दाक्षम् । अङ्कग्रहणेन "तस्येदम्" (६।३।१६०) इत्यर्थसामान्य लक्ष्यते, तेनाऽकञोऽप्यतिदेशः । अन्यथा सङ्घायण एव स्यात् । तेन यथा भवति
औपगवकः कापटवकः नाडायनकः गाायणकः इति "गोत्राददण्ड०" (६।३।१६९) इत्यादिनाकञ् , ५तथेहापि औपगवेभ्य आगत औपगवकः । कापटवकः । नाडायनकः । गाायणकः । एवं "रैवतिकाऽऽदेरीयः" (६।३।१७०)। रैवतिकेभ्य आगतं रैवतिकीयम् । “कोपिञ्जलहास्तिपदादण्” (६।३।१७१) कौपिञ्जलादागतं कौपिञ्जलं हास्तिपदम् । “नहेतुभ्यो रूप्यमयटौ वा” (६।३।१५६) नृवाचिभ्यो हेतुवाचिभ्यश्च आगतेऽर्थे एतौ स्याताम् । पक्षे यथाप्राप्तम् । वचनभेदाद्यथासङ्ख्याऽभावः ।
हेतुः कारणम्, नृग्रहणमहेत्वर्थम् । देवदत्तादागतं देवदत्तरूप्यम् , देवदत्तमयम् ; पक्षे दैवदत्तम् । १० अत्रापादानपञ्चमी । हेतुः कारणम् , समादागतं समरूप्यम् सममयम ; पक्षे गहादिपाठादीयः समी
यम् । पापमयम् पक्षे "दोरीयः" (६।३।३२) पापीयम् । अत्र हेतौ पश्चमी । टकारो ड्यर्थः-सममयी । बहुवचनं स्वरूपव्युदासार्थम् ।
* इति तत आगते इत्यधिकारः ॥
अथ ततः प्रभवत्यधिकारः। १५ तत्र "प्रभवति" ( ६।३।१५७ ) इति सूत्रम् । अनयोरर्थयोरित्यादि स्पष्टम् । अत्रायमर्थः-पञ्च
म्यन्तात्प्रथमं प्रकाशमानेऽर्थे यथाविहितं प्रत्ययाः स्युः । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमान इत्याहुः । “जाते" ( ६।३।९८) इति भूते सप्तम्यन्तात्प्रत्ययः, अत्र तु पञ्चम्यन्ताद्वर्त्तमान इति विशेषः । हैमवती गङ्गेति-हिमवतः प्रभवति प्रथममुपलभ्यते इति । एवं दारदीसिन्धुः । काश्मी
रीवितस्ता । काश्मीरशब्दाद् "बहुविषयेभ्यः” (६।३।४५) इत्यकोऽपवादः कच्छाद्यण् । २० अत्रादिशब्दोपादानात् । “वैडूर्यः” (६।३।१५८) विडूरशब्दात्प्रभवत्यर्थे ज्यो निपात्यते । विडूरात्प्रभवति वैडूर्यो मणिः । विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । वालवायात्तु पर्वतात्प्रभवन्नसौ न मणिः किन्तु पाषाणः । यदा तु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्य ब्यस्तत्सन्नियोगे विडूरादेशश्च निपात्यते । वालवायपर्याय एव वा विडूरशब्दः । प्रतिनियतविषयाश्च रूढय इति वैयाकरणानामेव [ विडूरशब्दस्य वालवाये ] प्रसिद्धिः [ नान्येषाम् ] । यथा २५ जित्वरीशब्दस्य वाराणस्यां वणिजामेव । वालवायशब्दात्तु ईयप्रत्ययोऽनभिधानान्न भवति । "त्यदादेर्मयट्" (६।३।१५९) । प्रभवत्यर्थे तन्मयं तन्मयी ॥ ५९॥
+8 इति ततः प्रभवति इत्यभिकारः ॥ 8
तस्येदम् ॥ ६॥ [सि० ६।३।१६० ] षष्ठ्यन्तादसिन्नर्थेऽणादयः स्युः । आर्षम् ॥ ६०॥ ३० "तस्येदम् ।” षष्ठ्यन्तादित्यादि-षष्ट्यन्तादिदमर्थे यथाविहितमणादय एयणादयश्च स्युः । आर्षमिति-ऋषीणामिदमार्षम् । एवं सौनम् । माथुरम् , दैत्यम् , बार्हस्पत्यम् , कालेयम् , आग्नेयम् ,
औत्सम् , स्त्रैणम् , पौंस्नम् , गव्यम् , नादेयम् , राष्ट्रियम् । पारीणा, भावनीयः, श्यामगवीयः, पाटलीपुत्रकः प्राकारः । इह त्वनभिधानान्न भवति-देवदत्तस्यान्तरः, ग्रामस्य समीपम्, विंशतेरवयव
एकः, शतस्य द्वौ, सहस्रस्य पञ्च, तस्येति षष्ठ्यर्थमात्रमिदमिति षष्ठ्यर्थसम्बन्धिमानं च विवक्षितम् । ३५ यदन्यलिङ्गसङ्ख्या प्रत्यक्षपरोक्षत्वादिकं तदविवक्षितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org