________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भवाद्यर्थाः
३८१ छन्दोविचिती १० छन्दोविजिति, न्याय, पुनरुक्त, निरुक्त, व्याकरण, निगम, (निगमन ?) वास्तुविद्या, अङ्गविद्या, क्षत्रविद्या, (त्रिविद्या, विथा ?), उत्पात, २० उत्पाद, संवत्सर, मुहूर्त, निमित्त, उपनिषद्, ऋषि, यज्ञ, चर्चा, क्रमेतर, श्लक्ष्ण, ३० इति शिक्षादयस्त्रिंशत् । बहुखराणामदुसंज्ञकानामुपादानम् प्रायोग्रहणस्यैव प्रपञ्चः । दुसंज्ञकानां तु ईयबाधनार्थमित्युक्तमेव ॥ ५८ ॥
* इति भवार्थानुगतम् तस्य व्याख्यानप्रकरणम् ।
तत आगते ततः प्रभवति ॥ ५९॥ अनयोरर्थयोः पञ्चम्यन्तादणादयः स्युः । माथुरः पान्थः । हैमवती गङ्गा ॥ ५९॥
"तत आगते” (६३।१४९) तत इति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च स्युः । त्रुघ्नादागतः स्रौनः । एवं माथुरः, औत्सः, गव्यः, दैत्यः, बाह्यः, कालेयः, आग्नेयः, स्त्रैणः, पौलः, नादेयः, राष्ट्रियः, ग्रामीणः, प्राम्यः । मुख्यापादानपरिप्रहात सुनादागच्छन् वृक्षमूलादागतः १० इत्यत्र वृक्षमूलादमुख्यादपादानान्न स्यात् ।
आदिशब्दसंसर्गात् "विद्यायोनिसम्बन्धादकम्" ( ६।३।१५०) । विद्याकृतो योनिकृतश्च सम्बन्धो येषां तद्वाचिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽकञ् स्यात् । अणोऽपवादः । ईयं तु परत्वात् बाधते । विद्यासम्बन्धः-आचार्यादागतमाचार्यकम् । औपाध्यायकम् , शैष्यकम् , आविजकम् (आन्तेवासकम् ) । योनिसम्बन्ध. पैतामहकम् , मातामहकम् , पैतृव्यकम् , मातुलकम् । “पितुर्यो वा"१५ ( ६।३।१५१) इकणोऽपवादः । पितुरागतं पित्र्यम् , "ऋतो रस्तद्धिते" ( १।२।२६) इति रत्वम् । "ऋत इकण्" (६।३।१५२) ऋकारान्ताद्विद्यायोनिसम्बन्धवाचिन आगतेऽर्थे इकण् स्यात् । अकबोऽपवादः । होतुरागतं होतकम् , पैतृकम् , प्राशास्तृकम् (शास्तृकम् ) । योनिसम्बन्ध. मातृकम् , भ्रातृकम् , स्वासकम् , दौहितकम् , जामातृकम् , नानान्हकम् । मातुरागता मातृकी विद्या-इकणन्तत्वाद् ङीप्रत्ययः । सर्वत्र च 'ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७४।७१) इतीकण इकारस्य २० लुक् । “आयस्थानात्" (६।३।१५३ ) । स्वामिग्राह्यो भाग आयः, स यस्मिन्नुत्पद्यते तदाऽऽयस्थानम् । तद्वाचिन आगतेऽर्थे इकण् स्यात् । अणोऽपवादः । ईयं तु परत्वात् बाधते । एत्य तरन्त्यस्मिनित्यातरो नदीतीर्थम् , तत आगतं आतरिकम् , शौल्कशालिकम् , आपणिकम् , दौवारिकम् । आयस्थानत्वेनाप्रसिद्धादपि ताद्रूप्येण विवक्षिताद्भवतीति कश्चित् सौनिकः । “शुण्डिकादेरण" (६।३। १५४) इकणादेरपवादः । अण्ग्रहणं विस्पष्टार्थम् , यदि ह्यनेनाप्यायस्थानादिकण तीर्थाचूमाद्यकञ् पर्ण-२५ फकणाभ्यां चैयः स्यांद्वचनमिदमनर्थकं स्यात् । न चोदपानादिहायणि वा विशेषोऽस्तीति । यदा तु शुण्डिकादीनि सर्वाण्यायस्थानान्येव, तदा अकबीयबाधनार्थम् । शुण्डः. शुण्डा सुरा, ततो मत्वर्थीये शुण्डिकः शुण्डिका वा सुरापणः सुराविक्रयी चोच्यते । तत आगतं शौण्डिकम् , औदपानम् , कार्कणम् । शुण्डिका, उदपान, पर्ण, कृकण, उलप, तृण, तीर्थ, स्थण्डिल, उपल, उदक, भूमि, पिष्पल, इति शुण्डिकादयो द्वादश । “गोत्रादकवत्" (६।३।१५५) । गोत्रवाचिनः शब्दादागतेऽर्थे अङ्क-३०
१ ननु यद्यण्ग्रहणं न क्रियते तदानीं 'आयस्थानात्-' इत्यादिभिरिकणादयः प्राप्नुवन्तीत्याह-यदीति। २ तैरेव सूत्रैरमीषां प्रत्ययानां सिद्धलात् । किश्चानन्तर इकण नानुवर्तते । अनायस्थानले हि सूत्रारम्भात् आयस्थानशुण्डिकादिभ्यामित्येकयोगाकरणाच । तस्मात् विस्पष्टार्थमिति सूक्तम् । ३ अयमर्थः-यदा शुण्डिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाळूमाद्यकमः पर्णकृकणाभ्यामिति च ईयस्थापवादे भायस्थानादितीकणि प्राप्ते अयमारम्भ इत्यारम्भादिकणो निवृत्तेर्यथाप्राप्तमिति ततोऽकजीयो प्रामुतः। अतस्तो बाधिला ततोऽप्यणेव यथा स्यादित्येवमर्थमणग्रहणमित्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org