________________
३८० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुच तस्य व्याख्यानेऽर्थे "तस्येदम्" (६।३।१६० ) इत्यनेनैव प्रत्ययविधिः सिद्धः; चकारानुकृष्ट तत्र भवेऽप्यर्थे पूर्वमेव प्रत्ययविधिरक्तस्तत्किमनयोर्युगपदुपादानम् ? उच्यते-वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यादित्येवमर्थम्-उत्सरेणैकयोगत्वे चानुकृष्टत्वात्तत्र भव इत्यस्य ततः परं नानुत्तिः स्यात् , योगविभागे विहानुवृत्तिरनर्थिकेति द्वयोरुत्तरत्रानुवृत्तिर्भवति । उदाहरणोपन्यासस्त्वनु५वादमात्रम् । यच्चोक्तम्-तस्य व्याख्यानेऽर्थे "तस्येदमि” त्यनेनैव प्रत्ययसिद्धिस्तदपि न । तथा सति इदमर्थोल्लेखानां भूयस्त्वादर्थानियमः स्यादिति ॥ "प्रायो बहुखरादिक" (६।३।१४३) । बहुखरादन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् स्यात् । अणादेरपवादः । षत्वणत्वयोाख्यानम् , तत्र भवं वा, पात्वणत्विकम् । एवं नातानतिकम् ; उदात्ताऽनुदात्तयोरेते नतानतसंज्ञे ।
आत्मनेपदपरस्मैपदिकम् । आव्ययीभावतत्पुरुषिकम् । नामाख्यातिकम् । आख्यातिकम् , ब्राह्मणिकम् , १० प्राथमिकम् , आध्वरिकम् , । पौरेश्वरणिकम्-प्रायश्चित्तटीका । प्रायोवचनात् कचित् न भवति-सांहि
तम् प्रातिपदिकीयम् ॥ "ऋगृद्विखरयागेभ्यः" (६।३।१४४) ऋच् इत्येतस्मात् ऋकारान्तात् द्विखराधागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण स्यात् । अणादेरपवादः । ऋचां व्याख्यानमृक्षु भवं या आर्चिकम् । ऋकारान्त. चतुर्पु होतृषु भव इत्यणो लुपि चतुर्होता ग्रन्थः,
तस्य व्याख्यानं तत्र भवं वा चातुर्होतृकम् , एवं पाश्चहोतृकम् । द्विस्वर. आङ्गिकम् , पौर्विकम् , १५ सौत्रिकम् , तार्किकम् , नामिकम् । याग. आग्निष्टोमिकम् , राजसूयिकम् , वाजपेयिकम् , पाकयज्ञिकम् ,
नावयज्ञिकम् , पाश्चौदनिकम् , दाशौदनिकम् । ऋकारान्तयागयोर्ग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामग्निष्टोमादीनामसोमकानां पञ्चौदनादीनां च परिग्रहार्थम् ॥ "ऋषेरध्याये" ( ६।३।१४५) ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्यायेऽर्थे इकण स्यात् । वसिष्ठस्य पॅन्थस्य व्याख्यानस्तत्र भवो वासिष्ठिकोऽध्यायः । वैश्वामित्रिकोऽध्यायः । अध्याय इति किम् ? २० वसिष्ठस्य व्याख्यानी, तत्र भवा वासिष्ठी ऋक् । “प्रायो बहुवरादि"ति प्रायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् , प्राप्तिकल्पनायामध्याय एवेति नियमार्थ वचनम् ॥ "परोडाशपौरोडाशादिकेकटौ" (६।३।१४६) आभ्यामनयोरर्थयोरेतौ स्याताम् । अणीययोरिकणो वापवादः । पुरोडाशादणोऽपवादः । पौरोडाशशब्दात्तु "दोरीयः” (६।३।३२) इति प्राप्तस्य ईयस्यापवादः । इकण्प्राप्तिकल्पनायां
तूभयोरपि इकणोऽपवादः । वचनभेदात्तु यथासङ्ख्याऽभावः । इकेकटोः स्त्रियां विशेषः-पुरोडाशाः २५ पिष्टपिण्डास्तैः सह चरितो मत्रः पुरोडाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः पुरोडाशिका, पुरोडाशिकी; पुरोडाशानामयं तत्र भवो वा पौरोडाशस्तत्संस्कारको मत्रस्तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः, पौरोडाशिका, पौरोडाशिकी ॥ "छन्दसो यः" (६।३।१४७) । द्विस्वरेकणोऽपवादः । छन्दसो व्याख्यानस्तत्र भवो वा छन्दस्यः ॥ “शिक्षादेश्वाण्" (६।३।१४८)। इकणोऽपवादः। शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः आर्गयनः । छन्दस्. छान्दसः। एवं छन्दसो द्वैरूप्यम् । ३० अणग्रहणमीयबाधनार्थम्, अन्यथात्राणोऽग्रहणे योऽन्येन बाधितो न प्राप्नोतीति न्यायात्प्रायो बहुस्वरा
दितीकणा बाधितो वास्तुविद्यादिशब्देभ्यो "दोरीय" इतीय एव स्यात् नत्वऽण् । नैयायः । वास्तुविद्यः । ३२ शिक्षा, ऋगयन, पद, व्याख्यान, पदव्याख्यान, छन्दोव्याख्यान, छन्दोमान, छन्दोभाष छन्दोविचिति
१ नतोऽनुदात्तः, अनतस्तूदात्तोऽल्पखरखान्नतस्य पूर्व निपातः। २ पुरो विपाककालादर्वाक् चर्यते पुरश्चरणम् 'भुजिपत्यादिभ्यः' प्रायश्चित्तम् । तत्प्रतिपादको प्रन्थोऽपि । ३ ऋगन्तानां यागवाचिनां च द्विस्वराणां द्विखरेत्यंशेन, बहुखराणां तु 'प्रायो बहुखरात्' इति सिद्ध्यति; एकखरास्तु न सम्भवन्त्यैव तस्किमर्थमित्याह पू०-प्रायो बहुखरातू इत्यस्येत्यर्थः । ४ वसिष्ठादिसाहचर्यात् ग्रन्थोऽपि तथोच्यते । ५ प्रायोग्रहणस्य यादृच्छिकखात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org