________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भवाद्यर्थाः
३७९ वैभ्यस्तत्र भवे व्यः स्यात् । अणोऽपवादः । परितः सर्वतो भवं मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परि:- मुखात् परि परिमुखम्, “पर्यपाङ्वयें” ( ३।१।३२ ) इत्यनेनाव्ययी - भावः । परिमुखे भवः पारिमुख्यः । परिहनु तत्र भवः पारिहनव्यः । पर्योष्ठयः । परिमुखादेरिति किम् ? औपकूलम्, औपशाखम्, औपकुम्भम्, औपखलम्, आनुकुम्भम् आनुकूलम्, आनुखलम् । अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुखस्तत्र भवः पारिमुखः । परिमुख, परिहनु, ५ पर्योष्ठ, पर्युलूखल, परिरथ, परिसिर, परिसीर, उपसीर, अनुसीर, उपस्थूण १०, उपस्थूल, उपकपाल, उपकलाप, अनुपथ, अनुगङ्ग, अनुतिल, अनुशीत, अनुमाष, अनुयव, अनुयूप, २० अनुवंश, अनुपद, २२ इति परिमुखादयो द्वाविंशतिः । अनुवंशाद्दिगादित्वाद्योऽपि - अनुवंश्यः । " अन्त:पूर्वादिकण” ( ६।३।१३७ ) । अन्तःशब्दपूर्वादव्ययीभावाद्भवे इकण् स्यात् । अणोऽपवादः । अगारस्यान्तः अन्तरगारम्, तत्र भव आन्तरगारिकः, आन्तर्गेहिकः, आन्तर्वेश्मिकः, आन्तःपुरिकः, १० अव्ययीभावादित्येव - अन्तर्गतमगारस्य, अन्तःस्थं वा अगारं अन्तरगारम्, तत्र भवमान्तरगारम्, आन्तःपुरम्, आन्तःकरणम् || "पर्यऽनोग्रमात्" ( ६।३।१३८ ) । पर्यनुपूर्वग्रामशब्दान्तादव्ययीभावाद्भवे इकण् स्यात् । अणोऽपवादः । ग्रामात्परि परिश्रामम्, ग्रामस्य समीपमनुग्रामम्, तत्र भवः पारिप्रामिकः, आनुग्रामिकः । अव्ययीभावादित्येव - परितो ग्रामः परिग्रामस्तत्र भवः पारिग्रामः ॥ “उपाज्जानुनी विकर्णात्प्रायेण” ( ६।३।१३९) उपपूर्वजान्वादिशब्दान्तादव्ययीभावादिकण् १५ स्यात्, प्रायेण । तत्र भवे (- यस्तत्र बाहुल्येन भवति, अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः ) । जानुनः समीपमुपजानु, प्रायेणोपजानु भवति, अन्यत्र कदाचित्, औपजानुकः सेवकः । एवं ( औपजानुकं शाटकम् ) औपनीविकं ग्रीवादाम, कार्षापणं वा । औपकर्णिकः सूचकः । प्रायेणेति किम् ? नित्यम्भवे मा भूत् - औपजानवं मांसम् ( औपजानवं गडु, ) जानुशब्दो देहावयवो नोपजानुशब्द इति दिगादिदेहांशादिति यो न स्यात् ।। " रूढावन्तः पुरादिकः” ( ६।३।१४० ) । एकपुरुषपरिग्रहे स्त्रीसमुदाये, २० उपचारात्तन्निवासेऽपि रूढावन्तः पुरशब्दादिकः स्यात् । अन्तःपुरे भवा अन्तःपुरिका स्त्री । रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् । यथान्तरङ्गुलो नख इति । तत्र भवः आन्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावादिकण् स्यात्, आन्तःपुरिक इति ॥ " कर्णललाटात्कलु” ( ६।३।१४१ ) । रूढौ–प्रकृतिप्रत्ययसमुदायश्चेत् कचिदूढो भवति । कर्णिका कर्णाभरणविशेषः, पद्माद्यवयवश्च । ललाटिका- ललाटमण्डनम् । रूढावित्येव - कर्णे भवं कर्ण्यम्, ललाट्यम्; दिगादिदेहांशाद्यः । लकारः २५ स्त्रीत्वार्थः ।
** इति भवार्थप्रकरणम् । 93
" तस्य व्याख्याने च ग्रन्थात् " ( ६ | ३ | १४२ ) ग्रन्थः शब्दसन्दर्भः । स व्याख्यायते ( अवयवशः कथ्यते ) येन तद्व्याख्यानम् । तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च भवेऽर्थे यथाविहितं प्रत्ययः स्यात् । चकारस्तत्र भवे इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपस्थश्चकारः । पूर्व - ३० वाक्यार्थं समुञ्चिनोति । कृतां व्याख्यानं कृत्सु भवं वा कार्त्तम् । अत्र सूत्रे युगपदुभयोस्तस्य व्याख्याने तत्र भवे चेत्यर्थयोरुपादानं वक्ष्यमाणः सकलोऽप्यपवाद विधिरनयोरर्थयोर्यथा स्यादित्येवमर्थम् । ननु ३२
१ पुरस्य शरीरस्य अन्तर्गतं चित्तस्थं गृहस्य वाऽन्तर्गतम् । २ रूढाविति वचनात् अव्ययीभावादिति निवृत्तम्, अव्ययीभावे रूढेरसम्भवात् । अन्तःपुरमिति ह्यत्र राज्ञोऽन्तः पुरमिति राज्ञः स्त्रीवर्ग उच्यते नासावव्ययीभावार्थों भवति । अव्ययीभावो हि पूर्वपदार्थप्रधानोऽन्तरर्थप्रधान इति पूर्वेणेकणेत्र भवतीति । ३ कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्रम्, पद्माद्यवयवस्य कर्णे अभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org