________________
३७८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
ऽन्वयस्तत्र भवो वंश्यः । एवमनुवंश्यः ॥ "नाइयुदकात् " ( ६।३।१२५ ) उदक्या रजस्वला स्त्री । नाम्नीति किम् ? औदको मत्स्यः ।
"मध्यादि नण्णेया मोऽन्तश्च” ( ६ |३ | १२६ ) माध्यन्दिनः माध्यमः । मध्यमीयः । " वर्गान्तात् " ( ६।३।१२८ ) । ईयः । कवर्गीयः । *अशब्दवर्गादीनयेयाः । भरतवगणः । ५ भरतवर्ण्यः । भरतवर्गीयः ॥
" मध्या०" मध्यशब्दात् दिनणू, ण, ईय, एते त्रयः प्रत्यया भवेऽर्थे स्युः; तद्योगे मागमश्च स्यात् । क्रमेणोदाहरणानि - मध्ये भवो माध्यन्दिनः, माध्यमः, मध्यमीय इति । अन्ये तु दिनं णितं नेच्छन्ति-मध्यन्दिनः ॥ “जिह्वामूलाऽङ्गुलेश्श्रेयः” ( ६।३।१२७ ) । जिह्वामूले भवो जिह्वामूलीयः । अङ्गुलीयः । चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् - मध्यीयः || "वर्गा” | वर्गान्तादित्येताव१० त्सूत्रं स्पष्टम् । ईय इति वृत्त्यशः । कवर्गीयः पवर्गीयो वर्णः ॥ अशब्दवर्गेत्यादि अत्र सूत्रम् - "ईनयो चाऽशब्दे” ( ६।३।१२९ ) वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईन य इत्येतौ चकारादीयश्च प्रत्ययाः स्युः; अशब्दे - नचेत् भवार्थः शब्दो भवति । भरतवर्गीण इत्यादि । अशब्द इति किम् ? अकवर्गीय: ।
इत्यादिशब्दानुवर्त्तनात् “दृतिकुक्षिकल शिवस्त्य हेरेयण” ( ६।३।१३०) अणादीनामपवादः । हृतौ चर्मखल्वायां भवं दार्त्तेयं जलम् । कुक्षौ देहांशे भवः कौक्षेयो व्याधिः । देशार्थादपि परत्वाद्य१५ मेव न धूमाद्यकम् ; खड्गेऽप्ययमेव न तु कुलकुक्ष्याद्येयकञ् तस्य भवादन्यत्र जातादावर्थे चरितार्थत्वात् । असं कौक्षेयमुद्यम्य | कलश्यां मन्थन्यां भवं कालशेयं तत्रम् । वस्तौ पुरीषनिर्गमरन्ध्रे भवं वास्तेयं पुरीषम् । अहौ भवमाहेयं विषम् || "आस्तेयम्" । ( ६।३।१३१ ) । अस्तिशब्दात्तिवन्तप्रतिरूपकादव्ययाद्धन विद्यमानपर्यायात्तत्र भवे एयण् निपात्यते । असृग्ाब्दस्य चास्त्यादेशश्च । अस्ति धने 'वा' विद्यमाने वा असृजि वा भवमास्तेयम् ॥ " ग्रीवातोऽण् च” (६।३।१३२ ) । ग्रीवाशब्दाद्भवे ऽर्थे ऽणू २० चकारादेयण् स्याताम् । देहांशयापवादः । श्रीवायां ग्रीवासु भवं प्रैवेयम् । ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां (बहुत्वात् ) बहुवचनम् ॥ "चतुर्मासान्नानि” (६।३।१३३) अण् । चतुर्मासेषु भवा चातुर्मासी । आषाढी कार्त्तिकी फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् "द्विगोरनपत्ये०” (६।१।२४) इति प्रत्ययलुप् न स्यात् । नाम्नीति किम् ? चतुर्मासेषु भवः चतुर्मासः - अत्र “वर्षाकालेभ्यः” (६।३।८० ) इतीकण्, तस्य लुप् ॥ "यज्ञे ञ्यः” (६।३।१३४) । चतुर्मासशब्दात्तत्र २५भवे यज्ञे ञ्यः स्यात् । चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि ॥ “ गम्भीरपञ्चजनबहिदेवात् " ( ६।३।१३५ ) । भवे व्यः स्यात् । अणाद्यपवादः । गम्भीरे भवो गाम्भीर्यः पाञ्चजन्यः । बाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाश्र्वजनः, द्विगौं स्वणो लुपि पञ्चजनः । बाहीकः । दैवः । ननु “बहिषष्टीक च” (६।१।१६ ) इति सूत्रेण अस्य प्राजितीयेऽर्थे सिद्धिः, भवार्थोऽपि प्राग्जितीय एवेत्यत्र बहिः शब्दग्रहणं व्यर्थमिति चेत् ? नैवम्-तत्र टीकण्साहचर्यात् ज्योऽपि भवार्थवर्जित एव ३० प्रागूजितीयेऽर्थे स्यादिति भवार्थेऽपि व्यविधानार्थं बहिर्ग्रहणम्, । टीकणश्च भवार्थवर्जनं स्वमते स्पष्टमेव, 'तत्र सूत्रे भवेऽर्थेऽपि बाहीक इति इत्येके' इति वचनात्, तथा “देवाद् यन" ( ६।१।२१ ) इति सूत्रेण यनैव प्राजितीयार्थेन सिद्धे अत्र देवग्रहणं स्त्रीलिङ्गरूपविशेषार्थम् । तथाहि "देवाद् यच" इति सूत्रेण यमनोर्देव्यायनीति यभि अनि च देवीति रूपद्वयं स्यात् । मतान्तरेण भववर्जिते प्राजिती - asर्थे यस्यापि विधानात् दैव्या इत्यपि भवार्थे त्वनेन सूत्रेण व्यविधानात् दैव्या इत्येव न तु दैव्या३५ यनीत्यादि ॥ " परिमुखाऽऽदेरव्ययीभावात् " ( ६।३।१३६ ) परिमुख इत्यादिभ्यो ऽव्ययीभा
'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org