________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । जाताद्यर्थाः
३७७
1
रोहिण्यां रोहिणी । स्त्रियामिति किम् ? चैत्रः । रैवतः । रौहिणः । पुंस्येषां विकल्प इत्येके - तन्मते चित्र: रेवतः रोहिण इत्यपि भवति । "बहुलमन्येभ्यः " ( ६ | ३ | १०९ ) । श्रविष्ठादिभ्यो येऽन्ये नक्षत्रशब्दास्तेभ्यः परस्य भाऽणो जातेऽर्थे बहुलं लुप् स्यात्, नाम्नि । अभिजिति जात: अभिजित्, अभिजितः । अश्वयुजि - अश्वयुक् आश्वयुजः । शतभिषजि - शतभिषक् शातभिषजः । शातभिषो "वा जाते द्विः” ( ६।२।१३७ ) इति विकल्पेनाणो ङित्त्वादन्त्यस्वरादिलोपे शातभ इत्यपि । कृत्तिकासु - ५ कृत्तिकः कार्त्तिकः । मृगशिरसि - मृगशिराः मार्गशीर्षः । एषु वा लोपः ॥ क्वचिन्नित्यम् - अश्विनीषु जात: अश्विनः, अश्विनी । राधः, राधा । श्रवणः, श्रवणा । उत्तरः, उत्तरा । कचिन्न भवति - मघासु माघः । अश्वत्थे आश्वत्थः । प्रोष्ठपदासु प्रोष्ठपादः । भद्रपादः । “प्रोष्ठभद्राज्जाते" ( ७|४|१३ ) इत्युत्तरपदवृद्धिः ॥ “स्थानान्तगोशालखरशालात्" ( ६।३।११० ) । गोस्थाने जातो गोस्थानः । अश्वस्थाने जातः अश्वस्थानः । गोशाले गोशालः । खरशाले खरशालः । लिङ्गविशिष्टस्यापि ग्रहणात् १० गोस्थान्यां गोस्थानः । गोशालायां गोशालः । खरशालः । "ङयादेर्गौणस्य ० " इति स्त्रीप्रत्ययस्यापि लुप् ॥ " वत्सशालाद्वा” ( ६ |३ | १११ ) । वत्सशालः, वात्सशालः ॥ " सोदर्यसमानोदयौं” ( ६।३।११२ ) । एतौ निपात्यौ । समानोदरे जातः सोदर्यः, समानोदर्यः । निपातनात्पक्षे समानस्य सभावः, तत एव जातार्थमात्रत्वेऽपि भ्रातृष्वेवाभिधानं न कृमिमलादिषु । नाम्नीत्यधिकाराद्वा ॥ ५६ ॥ इति जातार्थप्रकरणम् । १
I
१५
भवे ॥ ५७ ॥ [ सि० ६।३।१२३]
सप्तम्यन्तादस्मिन्नर्थे यथाविहितमणादय एयणादयश्च स्युः । सत्ता भवत्यर्थो गृह्यते, न जन्म, जात इत्यनेन गतार्थत्वात् । यथा स्रुने भवः स्रौघ्न इति स्रुने सन् वर्त्तमान इत्यर्थः । एवं औत्सः, नादेयः, राष्ट्रियः, पारावारीणः, ग्राम्यः, ग्रामीणः ॥ " बिल्वकीयादेरीयस्य " ( २ |४| ९३ ) | नडादिषु बिल्वादयः पठ्यन्ते तेषु कीयप्रत्ययान्तानामिह निर्देशः । बिल्वकीयादीनां दशानामवयवस्य ईयस्य २० तद्धितयस्वरे लुक् स्यात्, बिल्वाः वेणवो वेत्राणि वेतसाः त्रयस्तक्षाण इक्षवः काष्ठानि कपोताः कुखाः सन्त्यस्यामिति “नडाऽऽदेः कीयः " ( ६।२।९२), "तत आत्" ( २।४।१८ ) इत्यापू बिल्वकीयाद्या नद्यस्तासु भवा इति भवार्थेऽणि अनेन ईयलोपे बैल्वकाः वैणुकाः वैत्रकाः वैतसकाः त्रैकाः ताक्षकाः ऐक्षुकाः काष्ठकाः कापोतकाः क्रौञ्चकाः ॥ ५७ ॥
दिगादिदेहांशाद्यः ॥ ५८ ॥ [ सि० ६ | ३|१२४ ]
भवे । दिश्यः । मूर्द्धन्यः || ५८ ॥
“दिगादि०” दिगादिभ्यो देहावयववाचिभ्यश्च भवेऽर्थे यः स्यात् । अणीयादेरपवादः । दिशि भवो दिश्यः । वर्ग्यः । अपसव्यः - " अपो ययोनिमतिचरे” ( ३।२।२८ ) इति सप्तम्यलुप् । देहांश. मूर्द्धनि भवो मूर्द्धन्यः–“अनोऽट्ये ये” । ( ७।४।५१ ) इत्यनो लोपाभावः । दन्त्यः कर्ण्यः, ओष्ठ्यः, पाण्यः, पद्यः, तालव्यः, मुख्यः, जघन्यः । देशान्तात्तदन्तादपीच्छन्त्येके - कण्ठतालव्यः, दन्तोष्ठ्यः ॥ ३० दिश, वर्ग, पूरा, गण, यूथ, पक्ष, धाय्या, मित्र, धाय्यमित्र, मेधा, १० न्याय, ( अन्तर ? ) अन्तर्, पथिन्, रहस्, अलीक, उख, उखा, साक्षिन्, आदि, २० अन्त, मुख, जघन, मेघ, वंश, अनुवंश, देश, काल, वेश, आकाश, ३० अप् ३१ इति दिगादय एकत्रिंशत् । मुखजघनवंशानुवंशानामदेहांशार्थः पाठः । सेनाया यन्मुखं तत्र भवो मुख्यः । सेनाया यज्जघनं तत्र भवो जघन्यः । वंशो - ३४ है ० प्रका० पूर्वा • ४८
Jain Education International
२५
For Personal & Private Use Only
www.jainelibrary.org