________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुप्रत्ययमुत्पादयन्ति, तत्रैव कुशलार्थयोगात् । प्रत्ययान्तरकरणमिकारोकारान्तशब्दार्थम् , अन्यथा तेष्व
निष्टं, रूपं स्यात् , अश्मन् , अशनि, आकर्ष, त्सरु, पिशाच, पिचण्ड, पाद, शकुनि, निचय, ह्राद, हाद इत्यश्मादय ऎकादश ॥ ५५ ॥
___ जाते ॥ ५६ ॥ [ सि० ६॥३॥९८] ५ सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादय एयणादयश्च स्युः । मथुरायां जातो माथुर:-अण् ।
औत्सः-अञ् । बाह्यः बाहीकः-न्यटीकणौ । कालेयः आमेयः-"कल्यग्नेरेयण्” ( ६।१।१७ ) एवं बैणः, पौनः । तथा नद्यां जातो नादेयः राष्ट्रियः इत्यादि । स्वयमुत्पत्तिर्जातस्यार्थ, इति कृतादिभ्यो भेदः। सप्तम्यन्तत्वं प्रकृतिविशेषणं शेषाधिकारे सर्वत्रानुवर्तनीयम् ।
"प्रावृष इकः” ( ६।३।९९)। एण्यस्यापवादः-प्रावृषि जातः प्रावृषिकः । "नानि शरदो१० ऽकम्” (६।३।१००)। ऋत्वणोऽपवादः । शरदि जाताः शारदकाः दर्भाः, मुद्गाः । दर्भ-मुद्गविशेषाणामियं संज्ञा । “सिन्ध्वऽपकारात्काणौ” (६।३।१०१) । सिन्धौ जातः सिन्धुकः सैन्धवः । अपकरे कचवरे जातः अपकरकः आपकरः । नाम्नीत्यधिकारः "कालेध्ये ऋणे" ( ६।३।११३ ) इति सूत्रं यावत् । अन्ये तु नाम्नीत्यधिकारं नेच्छन्ति । “पूर्वाह्नाऽपराह्नाऽऽामू
लप्रदोषाऽवस्करादकः” ( ६।३।१०२)। जातेऽर्थे । इकणादेरपवादः । पूर्वाहे जातः पूर्वाह्नकः । १५ अपराहकः । अत्रेकण्तनटोरपवादः ॥ आर्द्रकः मूलक:-अत्र भाणः । प्रदोषकः-अत्रेकणणोः । अवस्करकः-अत्रौत्सर्गिकाणः । नाम्नीत्येव-पौर्वाह्नकम् , पूर्वाह्नेतनम् , अपराह्निकम् , अपराह्तनम् । आई मौलं प्रादोषिकं प्रादोषं आवस्करम् । केनैव सिद्धे अकविधानं आxिकेत्येवमर्थम् , अन्यथा खट्वाका खट्रिका खट्टकेति वत् के रूपत्रयं स्यात् । “पथ: पन्थ च” (६।३।१०३)। पथिन्शन म्यन्ताज्जातेऽर्थेऽकः स्यादस्य च पन्थादेशः । अणोऽपवादः । पथि जातः पन्थकः । “अश्च वाऽमा२०वास्यायाः” (६।३।१०४ ) । अमावास्याशब्दात्सप्तम्यन्ताज्जातेऽर्थे अकारोऽकश्च प्रत्ययौ भवतः;
नाम्नि । सन्ध्याधणोऽपवादः । अमावास्यायां जातः अमावास्यः, अमावास्यकः । नानीत्येव-आमा. वास्यः । "श्रविष्ठाऽषाढादीयण च” (६।३।१०५)। चकारादीयण-अश्च; प्रत्ययौ स्याताम् , नाम्नि । भाणोऽपवादः । श्रविष्ठा धनिष्ठाः, ताभिश्चन्द्रयुक्ताभिर्युक्तः कालस्तासु जातः श्राविष्ठीयः,
अविष्ठः । एवमषाढायामषाढयोरषाढासु वा जातः आषाढीयः अषाढः । अणमपीच्छन्त्यन्ये । २५“फल्गुन्याष्टः” (६।३।१०६) । नानि । भाणोऽपवादः । फल्गुन्योर्जातः फल्गुनः, फल्गुनी स्त्री । अणमपीच्छन्त्यन्ये-फाल्गुनः टकारो ड्यर्थः । “बहुलाऽनुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेलप्” (६।३।१०७ ) । एभ्यः सप्तभ्यः सप्तम्यन्तेभ्यः परस्य भाऽणो जातेऽथें लुप् स्यात्, नाग्नि । बहुलाः कृत्तिकाः, ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलास्तासु जातो बहुल:
अत्राणो लुपि "ड्यादेगौणस्य०” (२।४।९५) इत्यादिना आपोऽपि लुक । एवमनुराधासु अनुराधः । ३० “घन्युपसर्गस्य बहुलम्" ( ३।२।८६) इति दीघे आनुराधास्तासु अनुराधः । पुष्यार्थे-पुष्ये पुष्यः ।
तिष्यः । सिद्ध्यः । पुनर्वसौ पुनर्वसुः ॥ हस्ते हस्तः । विशाखायां विशाखः । स्वातौ स्वातिः। "चित्रा. ३२ रेवतीरोहिण्याः स्त्रियाम्" (६।३।१०८) नाग्नि । चित्रायां जाता चित्रा पुत्री। रेवत्यां रेवती ।
१ 'ननु पथोऽकः' इत्यतोऽकेनैव साध्यसिद्धिर्भविष्यति किं करणेनेति । २ 'अवर्णवर्णस्य' इति प्रसङ्गात् । ३ मुद्रितबृहइत्ती जयनयावपि।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org