________________
मक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । संस्कृते भक्ष्ये इत्याद्याः शेषे इत्यधिकारश्च
३७५
"संस्कृ०" । संस्कृत इति प्रत्ययार्थस्तस्य भक्ष्य इति विशेषणम्, सप्तम्यन्तात् अस्मिन्नर्थे इति संस्कृते भक्ष्येऽर्थे ऽणादय इति यथाविहितं प्रत्ययः स्यात् । सत उत्कर्षाधानं संस्कारः । भ्राष्ट्रे संस्कृता भ्रष्ट्राः अपूपाः । “शूलो०" । शूले संस्कृतं शूल्यं मांसम् । उखायां संस्कृतं उख्यमन्नम् । " क्षीरा०" । क्षीरे संस्कृता क्षैरेयी ।
आदिशब्दात् "दन इकण" ( ६।२।१४३ ) । दधि संस्कृतं दाधिकम् । इकणधिकारे "संस्कृते” ५ ( ६ | ४ | ३ ) इति वक्ष्यमाणसूत्रेण न सिद्ध्यतीत्येतद्विधानम्-दना हि तत्संस्कृतम्, यस्य दधिकृतमेवोत्कर्षा - धनम् । इह दधि तु केवलमाधारभूतम्, द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते । "वोदश्वितः” ( ६।२।१४४ ) । उदकेन श्वयतीति उदश्वित् । अत एव निर्देशात् वृदभावः । " रसायनमथार्द्धाम्बूदश्वित् श्वेतं समोदकम्” इति अस्मादिकण् षा । उदश्विति संस्कृतं औदश्वित्कम्, औदश्वितम् । “क्वचित्” ( ६।२।१४५ ) । अपत्यादिभ्यो ऽन्यत्राप्यर्थे कचिद्यथाविहितं प्रत्ययः स्यात् । चक्षुषा १० गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । रासनो रसः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखलो यावकः । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । चतुर्भिरुह्यते चातुरं शकटम् । अश्वरुह्यते आवो रथः । सम्प्रति युज्यते साम्प्रतम्, साम्प्रतः ।
" शेषे ” ( ६।३।१ ) इत्यधिकृत्य वक्ष्यमाणेषु “ नद्यादेरेयण्" ( ६।३।२ ) इत्यादिसूत्रेषु एयण - प्रभृतयः प्रत्ययाः शेषेष्वर्थेषु वक्ष्यन्ते, ततः प्रथमं बालानां सुखावबोधाय शेषसंज्ञान् कतिचिदर्थान् १५ सङ्क्षेपेण निर्दिशति ॥ ५३ ॥
तत्र कृतलब्धक्रीतसम्भूते ॥ ५४ ॥ [ सि० ६ |३ | १४]
सप्तम्यन्तादेष्वर्थेष्वणादयः एयणादयश्च प्रत्ययाः स्युः । स्रौघ्नः । दिश्यः मूर्धन्यः । "मध्यानिण्णेया मोऽन्तश्च" ( ६ | ३ | १२६ ) माध्यन्दिनः । माध्यमः । मध्यमीयः । “वर्गान्तात्” (६|३|१२८ ) ईयः कवर्गीय: । " अशब्दवर्गादीनयेयाः " भरतवर्गीणः | २० भरतवर्ग्यः । भरतवर्गीयः ॥ ५४ ॥
1
“तत्र कृतलब्धक्रीतसम्भूते" अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते । तत्रेति - सप्तम्यन्तात्कृतादिषु चतुर्ष्वर्थेषु यथायोगमणादय एयणादयश्च प्रत्ययाः स्युः । यदन्येनोत्पादितं तत्कृतम्, यत्प्रतिग्रहादिना प्राप्तं तल्लब्धम्, यन्मूल्येन स्वीकृतं तत्क्रीतम्, यत्संम्भाव्यते सैम्माति वा तत्सम्भूतम् । मथुरायां कृत लब्धः क्रीतः सम्भूतो वा माथुरः पटः - अत्राण् । औत्सः - उत्साद्यन् । बाह्यः बाहीक : “बहिषष्टीकणू २५ च" ( ६।१।१६ ) | नादेय: - नद्यादित्वादेयण् । राष्ट्रिय :- "राष्ट्रादियः ” ( ६।३।३ ) ॥ ५४ ॥
कुशले ॥ ५५ ॥ [ सि० ६।३ । ९५]
अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितमणादय एयणादयश्च स्युः । मथुरायां कुशलो माथुरः । “पेथोकः " ( ६।३।९६ ) । सप्तम्यन्तात्पथिनशब्दात् कुशलेऽर्थे कः स्यात् । अणोऽपवादः । पथि कुशलः पथकः । “कोऽश्मादेः” ( ६।३।९७ ) | सप्तम्यन्तेभ्योऽश्मादिभ्यः कुशलेऽर्थेऽकः स्यात् । अणादेरपवादः । अश्मनि कुशलः अश्मकः । अश्मादय उपचारात्तद्विषयायां क्रियायां वर्त्तमानाः ३१
१ उत्पत्तिज्ञानं सम्भावना, तत्रोत्पद्यते तत्र घटते इत्यर्थः । २ प्रमाणानतिरेकेणावतिष्ठते । ३ सम्मात्यर्थे अकर्म कलाच्छील्यादिवात्सति कर्त्तरि क्तः, इतरे तु अन्तर्भूतण्यर्थखात् कर्मणि क्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org