________________
३७४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशास्त्रम् । कचिदुपाध्यन्तरयोगः-आर्हतं महत्सुविहितमिति । कचिद्वाक्यम्-आर्हतमधीते । कचिवृत्तिःआहेत इति-अर्हता प्रोक्तं "तेन प्रोक्ते" ( ६।३।१८१) इत्यण आर्हतं वेत्त्यधीते वाण तस्य लुप् । इह पुनर्नियमायुगपदेव विग्रहः-कठेन प्रोक्तमधीयते कठा इति ।
इति तद्वत्त्यधीते इत्यधिकारः। ६५ ५ तेन छन्ने रथे" (६।२।१३१) । तृतीयान्तात् छन्ने रथेऽभिधेये यथाभिहितं प्रत्ययः स्यात्,
वस्त्रेण छन्नो रथो वास्त्रः । एवं काम्बलः, चार्मणः, द्वैपेन चर्मणा द्वैपः, वैयाघेण वैयाघ्रः, व्याघ्रस्य विकारः "प्राण्यौषधि०" (६।२।३१) इत्यण् , इदमर्थे त्वीयः स्यात् । छन्नः समन्ताद्वेष्टित उच्यते, तेन पुत्रैः परिवृतो रथ इत्यत्र न भवति । “पाण्डुकम्बलादिन्” (६।२।१३२) पाण्डुकम्बलेन छन्नः पाण्डुकम्बली रथः ।
. - इति छन्नरथाधिकारः । . ___ "दृष्टे सान्नि नानि" ( ६।२।१३३) । तृतीयान्तादृष्टं सामेत्यस्मिन्नर्थे यथाविहितं प्रत्ययः स्यात्, प्रत्ययान्तं चेत्साम्नो नाम स्यात् । क्रुश्चेन दृष्टं साम क्रौश्चम् । मृगीयुणा मार्गीयवम् । एवं मायूरम् , तैत्तिरम् , वासिष्ठम् , वैश्वामित्रम् , कालेयम्, आग्नेयम् । एवन्नामानि सामानि ॥
"गोत्रादङ्कवत्" (६।२।१३४ ) । गोत्रवाचिनस्तृतीयान्तादृष्टं सामेत्यर्थे अङ्कवत् प्रत्ययः स्यात् , १५ यथा तस्यायमङ्क इत्यत्रेदमर्थे प्रत्ययः स्यात्तथा दृष्टं सामेत्यर्थेऽपि । औपगवेन दृष्टं साम औपगवकम् ।
कापाटवकम् । अङ्क इति विशेषोपादानेऽपि तस्येदमित्यर्थमात्रं परिगृह्यते ॥ "वामदेवाद्या" (६।२।१३५) वामदेवेन दृष्टं साम वामदेव्यम् ॥ "डिद्वाऽ" ( ६।२।१३६) दृष्टं सामेत्यर्थे योऽण विहितः स डिद्वा भवति । उशनसा दृष्टं साम औशनसम् , औशनम् । “वा जाते द्विः"
(६।२।१३७)। जात इत्यर्थे योऽण् द्विर्विहितः उत्सर्गतः प्राप्तोऽपवादेन बाधितः सन् पुनर्विहितः स २०डिद्वा स्यात् । शतभिषजि जातः शातभिषः शातभिषजः । शतं भिषजोऽस्याः शतभिषजा चन्द्रयुक्तया युक्तः कालोऽण् , “चन्द्रयुक्तात्काले०” (६।२।६) इत्यणो लुप् 'जाते' ( ६।३।९८) इत्यणो वाधको "वर्षाकालेभ्यः” ( ६।३।१८०) इकण, पुनस्तद्बाधको “भ सन्ध्यादेरण्” ( ६।३।८९) । केचित्तु द्विर्डिस्वमिच्छन्ति, तन्मते द्विर्डित्वात् द्विरन्त्यस्वरादिलोपे शातभ इत्यपि स्यात् । एवं पूर्वसूत्रेऽपि । औत्सम् (शं) साम । एवं च योगद्वयेऽपि त्रैरूप्यम् ।
* इति दृष्टसामाधिकारः । *. "तत्रोद्धते पात्रेभ्यः” (६।२।१३८) । तत्रेति सप्तम्यन्तात्पात्रवाचिन उद्धृत इत्यर्थे यथाविहितं प्रत्ययः स्यात् । शरावेषु उद्धृतः ओदनः शारावः । माल्लकः । कार्परः । बहुवचनं पात्रविशेपपरिग्रहार्थम् । “स्थण्डिलात् शेते व्रती” (६।२।१३९) । अस्मात्सप्तम्यन्ताच्छेते इत्यर्थे यथाविहितं प्रत्ययः स्यात् । योऽसौ शेते स चेद् व्रती स्यात् । तत्र शयनवतोऽन्यत्र शयनान्निवृत्त इत्यर्थः । ३० स्थण्डिलं चत्वरम् , तत्रैव शेते स्थाण्डिलो भिक्षुः “स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात्" इत्यभिधानचिन्तामणौ ॥ ५२ ॥
संस्कृते भक्ष्ये ॥ ५३ ॥ [ सि० ६।२।१४०] सप्तम्यन्तादसिन्नर्थेऽणादयः स्युः । भ्राष्ट्राः अपूपाः । “शूलोखाद्यः" (६।२।१४१) ३४ शूल्यम् उख्यम् । “क्षीरादेयण" (६।२।१४२) क्षैरेयी यवागूः ॥५३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org