________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः। तद्वेत्त्यधीते इत्यधिकारः ३७३ पदकः । एवं क्रमकः, शिक्षकः, मीमांसकः, सामकः । उपनिषच्छब्दादपीच्छति कश्चित्-उपनिषदकः । के सति शिक्षाका शिक्षिका शिक्षका । मीमांसाका मीमांसिका मीमांसकेति "इचापुंसोऽनिक्याप्परे” (२।४।१०७) । इति रूपत्रयं स्यात् । शिक्षिका मीमांसिकेति चेष्यते तदर्थमकवचनम् ॥ "ससर्वपूर्वाल्लप" (६।२।१२७) । सपूर्वात्सर्वपूर्वाञ्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् स्यात् । सवार्त्तिकमधीते सवार्तिकः। ससङ्ग्रहः-अणो लुप् । सकल्पः, अत्रेकणः । सर्ववेदः, सर्वतत्रः-५ अत्राणः । सर्वविद्यः-अत्रेकणः । कथं द्विवेदः पञ्चव्याकरण इति ? "द्विगोरनपत्ये यस्वरादे बद्विः" (६।१।२४) इति लुपि भविष्यति ॥ “सङ्ख्याकात्सूत्रे" (६।२।१२८)। सङ्ख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तात्सूत्रे वर्तमानान्नानो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवति । अप्रो. क्तार्थ आरम्भः (अन्यथोत्तरेणैव सिद्ध्यति)। अष्टावध्यायाः परिमाणमस्य अष्टकं सूत्रम् । तद्विदन्त्यधीयते वा अष्टकाः पाणिनीयाः । आपिशलीयाः। त्रिकाः काशकृत्स्नाः। दशका उमास्वातीयाः। द्वादशका १० आर्हताः । सयाग्रहणं किम् ? माहावार्तिका:-महद्वार्तिकस्य सूत्रं विदन्त्यधीयते वा माहावार्तिकाः । कालापकाः । कादिति किम् ? चतुष्टयं सूत्रमधीयते चातुष्टयाः ॥ “प्रोक्तात्" (६।२।१२९) प्रोक्तार्थविहितः प्रत्यय उपचारात्प्रोक्त इत्युच्यते, तदन्तानाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुप स्यात। गोतमेन प्रोक्तं गौतमम, तद्वेत्त्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्तं सौधर्मम, सौधर्मणं वा; तद् वेत्त्यधीते सौधर्मः सौधर्मणः "द्विपदाद्धर्मादन्” (७।३।१४१) इत्यस्यैकेषां मते विकल्पः । १५ एवं भाद्रबाहवः पाणिनीयः आपिशलः । अन्यत्र प्रत्ययस्य लुप्यलुपि अविशेषेऽपि स्त्रियां विशेष:गौतमा सौधर्मा सौधर्मणा स्त्री अणो लुप्यणन्तत्वाभावाद् डीन भवति । अत्र हि यस्यां स्त्रियां योऽण्विहितः स लुप्तः, यश्च विद्यते तस्य न सा स्त्री ॥ "वेदेन्ब्राह्मणमन्त्रैव” (६।२।१३०) । प्रोक्तप्रत्ययान्तं वेदवाचि इन्नन्तं च ब्राह्मणवाचि भवति । अत्रैव वेत्त्यधीते वेत्येतद्विषय एव प्रयुज्यते, तेन स्वातत्यमुपाध्यन्तरयोगो वाक्यं च निवर्तते, वेत्त्यधीते वेत्यर्थरहितं न प्रयुज्यते इति स्वातथ्य-२० निवृत्तिः । कठेन प्रोक्तं शोभनं वेदं विदन्यधीयते वेति विशेषणान्तरयोगोऽपि न स्यात् इत्यर्थः । वेद कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः । एवं कलापिना कालापिना कलापेन कालापाः । मौदेन मौदाः । पैष्पलादः ततो "मौदादिभ्यः” (६।३।१८२) इतीयापवादोऽण् । ऋग्भिराभाति ऋगाभः, पृषोदरादित्वाद्गस्य चत्वे ऋचाभः; ततः प्रोक्ते शौनकादित्वाण्णिन् तदन्तादणो लुप् आर्चाभिनः । भाल्लविना भाल्लविनः । शाट्यायनिना शाट्यायनेन शाट्यायनिनः । ऐतरेयेण ऐतरेयिणः । भल्लवशब्दादिन-२५ न्तात्प्रोक्तार्थे पूर्ववण्णिनादयः । शटशब्दात् गर्गादियबन्तात् तिकाद्यायनिञ् । एके त्वयजन्तं तिकादौ पठन्ति, तन्मते “यभित्रः" (६।१।५४) इत्यायनणि पूर्ववत् शौनकादित्वागिणनादौ शाट्यायनिनः । इतरस्यापत्यं शुभ्रादित्वादेयणि ऐतरेयः; ततः पूर्ववण्णिनादौ ऐतरेयिणः । इन्ग्रहणं किम् ? याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि "शकलादेर्यत्रः" (६।३।२७) इत्यञ् । सौलाभेन सौलाभानि "मौदादिभ्य" इत्यण् । याज्ञवल्क्यादीनि ब्राह्मणानीत्यनिनन्तस्य वेद इति नियमो निवर्त्तते । ब्राह्मण.. मिति किम् ? पिङ्गेन प्रोक्तः पैङ्गी कल्पः । ब्राह्मणं वेद एव, तत्र वेद इत्येव सिद्धे अनिनन्तस्य नियमनिवृत्त्यर्थमिन्ब्राह्मणग्रहणम् ॥ प्रोक्तानुवर्तनं किमर्थम् ? ऋचः यजूंषि सामानि मन्त्राः वेदः। ऋगादयः शब्दा वेदवाचिनो भवन्ति, नतु प्रोक्तप्रत्ययान्ता इति । यदि प्रोक्तग्रहणं नानुवर्तेत तदत्रापि वेत्त्यधीते वेत्येतद्विषय एवेति प्रयोगनियमः प्रसज्येत, ततश्च ऋचस्तिष्ठन्तीत्यादि वक्तुं न लभ्येत ॥ आरम्भसाम
र्थ्यात् अवधारणे सिद्धे उभयावधारणार्थमेवकारः । प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र, तथात्र वृत्तिरेव न केवलस्य प्रोक्तप्रत्ययान्तस्यावस्थानम् , अन्यत्र त्वनियमात्कचित्स्वातत्रयं भवति-अर्हता प्रोक्तं आहेत ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org