________________
३७२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवेत्तीत्यादावपि प्रत्ययो न स्यात् । “न्याया" । न्याय, न्यास, लोकायित, पुनरुक्त, परिषद् , चर्चा, क्रमेतर, लक्षण, संहिता, पदे, पद, क्रम, सङ्घट, सङ्घन्टा, वृत्ति, सन्ह, आयुर्वेद, गण, गुण, स्वागम, इतिहास, पुराण, भारत, ब्रह्माण्ड, आख्यान, द्विपदा, ज्योतिष, गणित, अनिस्त, लक्ष्य, लक्षण, अनुलक्ष्य, सुलक्ष्य, वसन्त, वर्षा, शरद्, हेमन्त, शिशिर, प्रथम, चरम, प्रथमगुण, चरमगुण, अनुगुण, अथर्वन् , आथर्वण, इति न्यायादयः ४५ पञ्चचत्वारिंशत् । ५ अत्रादिशब्दसंसर्गात् “पदकल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्" (६।२।११९)। पदकल्पलक्षणान्तेभ्यः क्रत्वाख्यानाख्यायिकावाचिभ्यश्च वेत्त्यधीते वेत्यर्थे इकण स्यात् । पदान्त. पौर्वपदिकः, औत्तरपदिकः, आनुपादिकः; बहुप्रत्ययपूर्वात्पदशब्दान्न भवत्यनभिधानात् । कल्पान्त. मातृकल्पिकः, पैतृकल्पिकः, पाराशरकल्पिकः, श्राद्धकल्पिकः । लक्षणान्त. गौलक्षणिकः, आश्वलक्षणिकः,
हास्तिलक्षणिकः, आनुलक्षणिकः, सौलक्षणिकः लाक्षणिक इति न्यायादित्वात् सिद्धम् । क्रतु. आमि१० ष्टोमिकः, वाजपेयिकः, ज्यौतिष्टोमिकः, राजसूयिकः । आख्यान. अभिनयन् गायन पठति यदेको
प्रान्थिकस्तदाख्यानम् (आख्यानशब्दस्य न्यायादिपाठादेव इकसिद्ध इत्यर्थप्रधानोऽयम् । एतत्साहचर्याच क्रत्वादीनामप्यर्थप्रधानानां ग्रहः)। यावक्रीतिकः, यावक्रिकः प्रैयङ्गविकः, प्रैयङ्गुकः, आविमारिकः । आख्यायिका. बृहत्कथेति बृहदुण्ढिकायाम् । वासवदत्तिकः सौमनोहारिकः । “अक
ल्पात्सूत्रात्" (६।२।१२०) । कल्पशब्दवर्जितात्परो यः सूत्रशब्दस्तदन्तादिकण् स्यात् । वार्त्तिक१५ सूत्रिकः (वार्त्तिसूत्रिकः ? ), साभहसूत्रिकः । अकल्पादिति किम् ? सौत्रः । काल्पसौत्रः ॥ “अधमक्षत्रिसंसराङ्गाद्विद्यायाः" ( ६।२।१२१)। धर्मादिवर्जितात्परो यो विद्याशब्दस्तदन्तादिकण् स्यात् । वायसविधिकः, सार्पविधिकः । अधर्मादेरिति किम् ? वैद्यः । धार्मविद्यः, क्षात्रविद्यः, त्र्यवयवा विद्या त्रिविद्या, तां वेत्त्यऽधीते वा त्रैविद्यः-अत्र त्रिविद्याशब्दस्य कर्मधारयस्यैव ग्रहणं न द्विगोः; तत्र लुपि सत्यामणिकणोर्विशेषाभावात् , त्रिविद्यः, सांसर्गविद्यः, आङ्गविद्यः ॥ “याज्ञिको२० क्थिकलौकायितिकम्” (६।२।१२२)। एते निपात्यन्ते । यज्ञशब्दात् याज्ञिक्यशब्दाच्चेकण्
इक्यलोपश्च, यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा याज्ञिकः ॥ उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात्प्रत्यय इष्यते किं तर्हि तद्व्याख्याने औथिक्ये उपचारेण वर्तमानात् उक्थमधीते ओक्थिकः; औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दात्तु प्रत्ययो न भवत्य
नभिधानात् । तस्मादपीच्छन्त्येके । औक्थिक्यमधीते औक्थिकः ।। लोकायतशब्दादिकण् यकाराकारस्य २५चेकारो निपात्यते-लोकायतं वेत्त्यधीते वा लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात्सिद्धम् ॥
"अनुब्राह्मणादिन्” (६।२।१२३) । ब्रह्मणा प्रोक्तो, ग्रन्थो ब्राह्मणम् , ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् , सहगर्थेऽव्ययीभावः । तद्वेत्त्यधीते वाऽनुब्राह्मणी, अनुब्राह्मणिनौ । मत्त्व येनैवेना सिद्धे अनभिधानाच इकस्याप्रवृत्तावण्बाधनार्थमिनो विधानम् । “शतषष्टेः पथ इकट्" (६।२।१२४)।
आभ्यां परस्य पथिनशब्दस्य इकट् स्यात् । शतपथिकः, शतपथिकी । षष्टिपथिकः; पष्टिपथिकी । ३०"पदोत्तरपदेभ्य इकः” (६।२।१२५) । पदशब्द उत्तरपदं यस्य तस्मात्पदशब्दात्पदोत्तरपदशब्दाच्च वेत्त्यधीते वेत्यर्थे इकः स्यात् । पूर्वपदिकः, उत्तरपदिकः । पूर्वपदिका, उत्तरपदिका । पदिकः, पदिका । पदोत्तरपदिकः, पदोत्तरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् । “पदक्रम३४शिक्षामीमांसासानोऽकः” (६।२।१२६) । एभ्यः पञ्चभ्योऽकः स्यात् । पदं वेत्त्यधीते वा
१ यवैः क्रीतं यवाः क्रीता अस्मिन्निति वा यवक्रीतमाख्यानम् । यवान् क्रीणातीति यवक्रीस्तमधिकृत्य कृतमाख्यानं 'अमोऽधिकृत्य' इत्यणि यावक्रम् , ततस्तद्वेत्त्यधीते वेतीकणि यावक्रिकः । २ अकल्पादिति पर्युदासेन पूर्वपदाभावे न भवति ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org