________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । देवतार्थावधिकाराः ३७१ देवता अस्य मरुत्वतीयं मरुत्वत्यम् । वास्तोष्पतिः शक्रः, “वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्" (३।२।३६) इत्यलुप्समासः । वास्तोष्पतिर्देवतास्य वास्तोष्पतीयम् वास्तोष्पत्यम् । गृहमेधशब्दोऽकारान्तः । गृहमेधो देवता अस्य गृहमेधीयं गृहमेध्यम् ॥ "वावृतुपियूषसो यः” (६।२।१०९)। अणोऽपवादः । वायुर्देवताऽस्य वायव्यम् । एवं ऋतव्यम् पितृव्यम्, उषा देवतास्य उषस्यम् । "उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां वक्ति" इति मनोरमायाम् ॥ "महाराजप्रोष्ठपदादिकण्"५ (६।२।११०)। आभ्यामिकण् स्यात् । अणोऽपवादः । महाराजो देवताऽस्य माहाराजिकः, माहाराजिकी । प्रौष्ठपदिकः प्रौष्ठपदिकी । “कालाद्भववत्" (६।२।१११)। कालविशेषवाचिभ्यो यथा भवेऽर्थे प्रत्यया वक्ष्यन्ते तथा साऽस्य देवतेत्यर्थेऽपि स्युः । वत्सर्वसादृश्यार्थः, तेन याभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवन्ति, तथैव ते इहापि भवन्ति । यथा मासे भवं मासिकं सांवत्सरिकं हैमनं वासन्तं प्रावृषेण्यम् , तथा मासो देवताऽस्य मासिकमित्यादि तथैव ॥ "आदेश्छन्दसः१० प्रगाथे” (६।२।११२) (सेति प्रकृतिरस्येति प्रत्ययार्थश्चानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्रगाथे इति च ) सेति प्रथमान्तादादिभूताच्छन्दसोऽस्येति षष्ठ्यर्थे प्रगाथेऽभिधेये यथाविहितं प्रत्ययः स्यात् । यत्र द्वे ऋचौ प्रग्रन्थनेन (प्रकृष्टरचनाविशेषेण ) प्रकर्षगानेन वा (उच्चारविशेषेणेत्यर्थः) तिस्रः क्रियन्ते स मनविशेषः प्रगाथः । पडिरादिरस्य प्रगाथस्य पाङ्कः प्रगाथः । एवमानुष्टभः, जागतः ॥ “योद्धप्रयोजनायुद्धे” (६।२।११३) । प्रथमान्ताद्योद्धृवाचिनः प्रयोजनवाचिनश्च १५ अस्येति षष्ठ्यर्थे युद्धेऽभिधेये यथाविहितं प्रत्ययः स्यात् । विद्याधरा योद्धारोऽस्य युद्धस्य वैद्याधरं युद्धम् ॥ प्रवृत्तिसाध्यं फलं प्रयोजनम् । सुभद्रा प्रयोजनमस्य सौभद्रमेवं सौतारं युद्धम् । अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तते इति प्रयोजनम् । ( योद्धप्रयोजनादिति किम् ? मासोऽस्य युद्धस्य । युद्ध इति किम् ? सुभद्राप्रयोजनमस्य वैरस्य ) ॥ "भावघञोऽस्यां णः” (६।२।११४) । भावे यो घञ् तदन्तादस्यामिति स्त्रीलिङ्गे सप्तम्यर्थे णः स्यात् । प्रपातोऽस्यां तिथौ वर्तते इति प्रपाता । एवं दाण्डघाता, २० मौसलपाता भूमिः । स्त्रीलिङ्गग्रहणादिह न भवति-दण्डपातोऽस्मिन्दिवसे । इति करणानुवृत्तेः कचिन्न भवति-द्रोणपाकोऽस्यां स्थाल्याम् । केवलाच भावे घनन्तान भवति ॥ "श्यैनम्पाता-तैलम्पाता" (६।२।११५) श्येनतिलशब्दयोर्भावघमन्ते पातशब्दे परे मो न्तो निपात्यते, प्रत्ययस्तु पूर्वेणैव सिद्धः । श्येनपातोऽस्यां वर्त्तते श्यैनम्पाता । तिलपातोऽस्यां वर्त्तते तैलम्पाता तिथिः क्रियाभूमिः क्रीडा वा ॥ "प्रहरणात्क्रीडायां णः” (६।२।११६) । ( दण्डं ) प्रहरणमस्यां क्रीडायां दाण्डा । एवं मौष्टा २५ पादा क्रीडा । यत्राद्रोहेण घातप्रतिघातौ स्यातां सां क्रीडा । "भावपञोऽस्यां णः" इत्यनन्तरो णो नानुवर्तते, क्रीडाया अर्थान्तरत्वात् । यथा "श्रवणाश्वत्थानाभ्यः" (६।२।८) इत्यत्रोपात्तोऽप्रत्ययः “षष्ठ्याः समूहे" ( ६।२।९) इत्यत्र नानुवर्तते । (अन्यथा "भावघयोऽस्यां णः” इत्यतोऽधिकारायातेनैव सिद्ध्यति ) ततो यथाविहितं प्रत्ययः स्यादिति वचनादणेव स्यादितीह पुनर्णग्रहणम् ॥५१॥
तद्वेत्त्यधीते ॥ ५२ ॥ [सि० ६२११७] द्वितीयान्ताद्वेत्यधीते वेत्यर्थयोरणादयः स्युः । वैयाकरणः ॥ "न्यायादेरिकण्" (६।२।११८) नैयायिकः ॥५२॥
"तद्वे." । वैयाकरण इति एवं मौहूर्तः, औत्पातः, नैमित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः, नैमित्तिकः । छन्दोऽधीते छान्दसः । नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधानान भवति । केचित्तु वेदनाऽध्ययनयोरेकविषयतायामेवेच्छन्ति; तन्मते अमिष्टोमं यज्ञं ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org