________________
३७० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु__ "सास्य पौर्णमासी" (६।२।९८) इति शब्दो नानीति चानुवर्तते, देशे इति निवृत्तम् । प्रथमान्तात्पौर्णमासीवाचिशब्दादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् , प्रत्ययान्तं चेन्नाम स्यात् । इति शब्दो विवक्षार्थस्तेन मासाद्धमासयोरेव 'संवत्सरपर्वणोः प्रत्ययः। संवत्सरेऽप्यन्ये । अस्येत्यवयवावयविसम्बन्धे षष्ठी । पौषी पौर्णमासी अस्य पौषो मासोऽर्द्धमासो वा । एवं माघः, वैशाखः, आषाढः ५ इति । नानीत्येव-पोषी पौर्णमासी अस्य पश्चरात्रस्य (दशरात्रस्य भृतकमासस्य वा) इति वाक्यमेव । पौर्णमासीति–पूर्णो माश्चन्द्रोऽस्यामस्तीति “पूर्णमासोऽण्” (७।२।५५) इत्यण् । पूर्णमास इयमिति वा "तस्येदम्" ( ६।३।१६० ) इत्यण् पूर्णो मा मासो वाऽस्यां पूर्णमासा वा युक्तेति अत एव निपातनादण् । “आग्रहायण्यश्वत्थादिकण्" (६।२।९९) । आग्रहायणी मार्गशीर्षी पौर्णमासी । अस्य
आग्रहायणिको मासोऽर्द्धमासो वा, मार्गशीर्ष इत्यर्थः । अश्वत्था आश्वयुजी पौर्णमासी । अस्य आश्व१० स्थिको मासोऽर्द्धमासो वा आश्विनमास इत्यर्थः । अन्ये तु अश्वत्थशब्दमप्रत्ययान्तं पौर्णमास्यामपि पुंलिङ्गमिच्छन्ति-अश्वत्थः पौर्णमासी । “चैत्रीकार्तिकीफाल्गुनीश्रवणाद्वा" (६।२।१००)। इकण् । पक्षे औत्सार्गकोऽण् । चैत्री पौर्णमासी अस्य चैत्रिकश्चैत्रो वा मासोऽर्द्धमासो वा । एवं कार्तिक्याः कार्त्तिकिकः कार्तिकः; फाल्गुन्याः फाल्गुनिकः फाल्गुनः; श्रवणायाः श्रावणिकः श्रावणः ॥ ५० ॥
ल इति मासप्रकरणम् ।
देवता ॥ ५१॥ [सि० ६२॥१०१] देवतार्थात्प्रथमान्तात् षष्ठ्यर्थेऽणादयः स्युः। जिनो देवता अस्येति जैनः ॥५१॥ "देव." । सूत्रं स्पष्टम् ।
अत्रायं विशेष:-"पैङ्गाक्षीपुत्रादेरीयः" (६।१।१०२) । पैङ्गाक्षीपुत्रो देवताऽस्य पैङ्गाक्षीपुत्रीयं हविः । तार्णबिन्दवो देवतास्य तार्णबिन्दवीयं हविः । एवं पैङ्गीपुत्रीयम् । पैङ्गाक्षीपुत्रादयः २० प्रयोगगम्याः । “शुक्रादियः" (६।१।१०३) शुक्रो देवतास्य शुक्रियोऽध्यायः। “शतरुद्रात्तौ" (६।२।१०४) । ईय-इयौ प्रत्ययावित्यर्थः । शतसङ्ख्या रुद्राः शतरुद्रास्ते देवताऽस्य शतरुद्रीयं शतरुद्रियम् । शतं रुद्रा देवता अस्येति द्विगावपि विधानसामर्थ्याल्लुप् न भवति । "अपोनपादपानपातस्तु चातः” (६।२।१०५)। आभ्यां ईय-इयौ प्रत्ययौ स्तः, तत्सन्नियोगे चानयोराच्छब्दस्य
तृ आदेशः स्यात् । अपोनपात् देवतास्य अपोनप्त्रीयं अपोनप्त्रियं अपान्नप्त्रीयं अपान्नत्रियम् । २५ "महेन्द्रादा” (६।२।१०६ ) । ईय-इयौ । महेन्द्रो देवताऽस्य महेन्द्रीयं महेन्द्रियम् , पक्षेऽण माहेन्द्रम् । “कसोमाट् व्यण्” ( ६।२।१०७) । अणोऽपवादः । टकारो ज्यर्थः । कः प्रजापतिदेवताऽस्य कायं हविः । कायी इष्टिः । कशब्दं प्रति णित्त्वस्य वैयादालोपो न स्यात् । सोमो देवताऽस्य सौम्यं सूक्तं, हविः । सौमी ऋक् । “द्यावापृथिवीशुनासीराऽग्नीषोममरुत्ववास्तोष्पतिगृहमेधादीययो” (६।२।१०८)। एभ्यः षड्भ्यः एतौ प्रत्ययौ स्तः। द्यौश्च पृथिवी च द्यावा३० पृथिव्यौ, ते देवते अस्य द्यावापृथिवीयं द्यावापृथिव्यं हविः । शुनश्च वायुः, सीरश्चादित्यः, शुनासीरौ; तौ देवता अस्य शुनासीरीयं शुनासीर्यम् । “अन्ये त्वेकमेव शुनासीरमिति इन्द्रस्य गुणमाहुः । तथा चाश्वलायन:-इन्द्रो वा शुनासीर इति । मत्रवर्णश्व-इन्द्रं शुनासीरमस्मिन् यज्ञे हवामहे" इति ३३ मनोरमायाम् । अग्निश्च सोमश्चाग्नीषोमौ तौ देवता अस्य अमीषोमीयं अग्नीषोम्यम् । मरुत्वान्
१ संवत्सरस्य वर्षस्य पर्वभूतो मासः सूर्याचन्द्रमसोः संश्लिष्य पुनः संश्लिष्टयोर्विश्लिष्य पुनर्विश्लिष्टयोर्वायौ तौ संश्लेषौ विश्वेषौ वा तयोरन्तरालकालः । अर्द्धमासश्च संश्लेषविश्लेषयोरन्तरमतो भृतकमासादेन भवति संवत्सरपर्वाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org