________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । चातुरर्थिकाः । राष्ट्राधिकारः ३६९ अयस्, सायस्, इरस् , अरुश (उरस् ?) ३० अरुष्य, ऐरास, इर, आस, मुद्गल, मौङ्गल, मौद्गल्य, सुवर्चल, प्रतर, अजिन, ४० अभिजन, अवनत, विकुट्याङ्कुश, पराशर ४४ इति कृशाश्वादयश्चतुश्चत्वारिंशत् । “ऋश्यादेः कः” (६।२।९४) । ऋश्यकः, न्यग्रोधकः । ऋश्य, न्यग्रोध, शर, निलीन, निवात, विनद्ध, सित, शित, नद्ध, निनद्ध, १० परिगूढ, उपगूढ, उत्तर, अश्मन् , उत्तराश्मन् , स्थूल, बाहु, स्थूलबाहु, खदिर, अरपु २० अरडु, (अरदु ?), अनडुह,५ परिवंश, खड्डु (खण्ड), वीरण, कर्दम, शर्करा, निबन्ध, अशनि, खण्ड, ३ दण्ड, वेणु, परिवृत्त, वेश्मन् , अंशु ३५ इति ऋश्यादयः पञ्चत्रिंशत् ॥ "वराहादेः कण्” (६।२।९५) वाराहकम् पालाशकम् । वराह, पलाश, विनद्ध, निबद्ध, स्थूल, बाहु, स्थूलबाहु, खदिर, विदग्ध, विजग्ध, (विभग्न ? ) विभक्त, पिनद्ध, निमग्न, इति वराहादयस्त्रयोदश ॥ "कुमुदादेरिकः” (६।२।९६ ) कुमुदिकम् इक्कटिकम् बल्वजिकम् । केचिदमुं न पठन्ति बाल्वजः । कुमुद, इक्कट, निर्यास, कङ्कट, १० सङ्कट, गर्त, परिवाप, यवाष, कूप, विकङ्कत, १० बल्वज, अश्वत्थ, न्यग्रोध, बीज, दशा, (शाल्मलि, मुनि, स्थल, ?) ग्राम, इति कुमुदादयः षोडश । “अश्वत्थादेरिक" (६।२।९७) आश्वस्थिकम् , कौमुदिकम् । अश्वत्थ, कुमुद, गोमठ, रथकार, दाश, ग्राम, घास, कुन्द, शाल्मलि, मुनि, स्थल, मुनिस्थल, कुट, मुचुकर्ण, मुचुकूर्णि, कुण्डल, शुचिकर्ण इत्यश्वत्थादयः सप्तदश । इतिकरणाद्यथादर्शनं प्रत्ययव्यवस्थायामर्थप्रकृत्युपादानं प्रपश्चार्थम् ।
"इत्येवं दर्शिताः केचित् प्रत्ययाश्चातुरर्थिकाः । देशे नानीति सर्वत्रानुसन्धेयं बुधैरिह" ॥१॥
"राष्ट्रेऽनङ्गादिभ्यः" ( ६।२।६५) राष्ट्रं जनपदः । षष्ठ्यन्तादङ्गादिवर्जान्नानो राष्ट्रेऽभिधेये यथाविहितमण् स्यात् । शिबीनां राष्ट्रं शैवम् । उपुष्टानां औषुष्टम् गान्धारीणां गान्धारम् । अनङ्गादिभ्य इति किम् ? अङ्गानां वङ्गानां राष्ट्रमिति वाक्यमेव । अङ्ग, वङ्ग, सुह्म, पुण्डू (पुष्ट्र ? ) इत्यङ्गादयः प्रयोगगम्याः केचित्त्वङ्गादिनिषेधं नेच्छन्ति अङ्गानां राष्ट्र आङ्गं वाङ्गमित्यादि "निवासादुरभवे." २० (६।२।६९) इत्यत्र निवास इत्यभिधानादीशितव्ये राष्ट्रेऽयं विधिः । उभयथा हि राष्ट्रसम्बन्धः स्यात् । राजन्यादिभ्योऽकम्” (६।२।६६) । राष्ट्रवाच्ये, अणपवादोऽयम् । राजन्यानां राष्ट्र राजन्यकम् । राजन्य, दैवयात (तव ? ), देवयात, आवृत आवा(त्री ?) तक, वात्रव( व ?), शालङ्कायन, बाभ्रव्य, जालन्धरायण, जानन्धरायण, १० कौन्ताल, आत्मकामेय, अम्बरीपुत्र, अम्ब. रीषपुत्र, बैल्वन (बैल्ववन ? ), शैलूष (शैलूषज ?) उदुम्बर, औदुम्बर, तैतल, सम्प्रिय, २०२५ दाक्षि, ऊर्णनाभ, ऊर्णनाभि, आर्जुनायन, विराट, मालव, त्रिगर्त २७ इति राजन्यादयः सप्तविंशतिः बहुवचनमाकृतिगणार्थम् । “वसातेर्वा” (६।२।६७ ) । वसातीनां राष्ट्रं वासातकं वासातम् । "भौरिक्यैषुकार्यादेर्विधभक्तम्" (६।२।६८)। भौरिक्यादेविधः प्रत्ययः ऐषुकार्यादेश्च भक्तः प्रत्ययः स्याद्राष्ट्रे वाच्ये । अणोऽपवादः । भौरिकीणां राष्ट्र भौरिकिविधं स्वभावानपुंसकता । भौरिकि, भौलिकि, चौपयत, चौदयत, चौटयत, चैकयत, सैकयत, क्षैतयत, काणेय, वालिकाज्य, वाणिजक ३० इति भौरिक्यादय एकादश ११ ऐषुकारीणां राष्ट्रं ऐषुकारिभक्तम् । ऐषुकारि, सारस्या( सा ? )यन चान्द्रायण, ताायण, ब्याक्षायण, व्याक्ष्यायण, औलायन, सौवीर, दासमित्रि, दासमित्रायण, १० ( सौ )द्रकायण, शयंड, शाण्ड, शायाण्ड, शायण्डायन, खादायन, गौलुकायन, विश्व, विश्वधेनव (वैश्वधेनव), वैश्वमाणव, २० वैश्वदेव (तुण्ड, देव ?), तुण्डदेव, शायाण्डि(ण्डी ?), शायण्डि(ण्डी ?), वायौविद, २७ इत्यैषुकार्यादयः सप्तविंशतिः ।
( इति राष्ट्राधिकारः। है• प्रका• पूर्वा० ४७
३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org