SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भावार्थाः ४२७ विग्रहस्तु पृथग्भूतस्य भाव इत्यादि । पट्वादयोऽपि गुणा एवेति पटुत्वं मृदुत्वं तीक्ष्णत्वमित्यादिष्वपि गुणो भावः । समासात्संबन्धे भावप्रत्ययः. राजपुरुषत्वं चित्रगुत्वमत्र स्वस्वामिसंबन्धो भावः । कृतेऽपि संबन्धे भावप्रत्ययः. पाचकत्वं कार्यत्वमित्यादौ क्रियाकारकसंबन्धो भावः । तद्धितात्संबन्धे, औपगवत्वं दण्डित्वं विषाणित्वम्-अत्रोपगुदण्डादिसंबन्धः । डित्थादेः स्वरूपे. डित्थादेस्तु यदृच्छाशब्दादन्यस्य प्रवृत्तिनिमित्तस्यासम्भवात्तस्मिन्नेव स्वरूपे डित्थादिशब्दवाच्यतया अध्यवसितभेदेऽव्यति-५ रिक्तेऽपि व्यतिरिक्त इव शब्दप्रत्ययबलात् बुद्ध्यावगृहीते धर्मे प्रत्ययः । डित्थस्य भावः डित्थत्यम् , डवित्थत्वम् । एवं गोजाते वो गोत्वं गोतेति गोशेब्दस्य स्वरूपम् । शुक्लजातेर्भावः शुक्लत्वं शुक्लतेति शुक्ल. शब्दस्य स्वरूपम् । गवादयो हि यदा जातिमात्रवाचिनस्तदा तेषां शब्दस्वरूपमेव प्रवृत्तिनिमित्तम् , तथा ह्यर्थजातौ शब्दार्थयोरभेदेन शब्दस्वरूपमध्यवस्यते, यो गोशब्दः स एवार्थ इति । एवं देवदत्तत्वं चन्द्रत्वं सूर्यत्वं दिक्त्वं आकाशत्वं अभावत्वमिति स्वरूपमेवोच्यते । एके तु यदृच्छाशब्देषु शब्दस्वरूपं १० संज्ञासंज्ञिसंबन्धो वा प्रवृत्तिनिमित्तमिति मन्यन्ते । अन्ये तु डित्थत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम्, चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्नव्यक्तिसमवेतसामान्यम् , दिक्त्वमाकाशत्वमभावत्वमिति उपचरितभेदव्यक्तिसमवेतं सामान्यं प्रत्ययार्थ इति वदन्तोऽत्रापि जातिमेव त्वतलादिप्रत्ययप्रवृत्तिनिमित्तमभिदधति । यच्चापि समासकृत्तद्धितेषु भावप्रत्ययेन संबन्धाभिधानम् , तदपि रून्यभिन्नरूपाव्यभिचरितसंबन्धेभ्योऽन्यत्र-गौरखरत्वम् , लोहितशालित्वम् , सप्त-१५ पर्णत्वम् , धवखदिरत्वमित्यादिभ्यः समासेभ्यः; कुम्भकारत्वं तन्तुवायत्वं पङ्कजत्वमित्यादिभ्यः कृन्यः, हस्तित्वं मानुषत्वं क्षत्रियत्वं राजन्यत्वमित्यादिभ्यस्तद्धितेभ्यश्च भावप्रत्ययो रूढ्या जातिमभिधत्ते, एषां जातिवाचित्वेनैव रूढत्वात् । एवमन्येष्वप्येतादृशेषु । अभिन्नरूपास्तु तद्धितान्ता एव लुबादिभिः सम्भवन्ति,र्गत्वं पश्चालत्वमिति-अत्र गर्गादयः शब्दा यत्रयो पि यद्यपि तद्धितान्तास्तथापि मूलप्रकृत्या सह संहविवक्षायाभिन्नरूपत्वात् प्रत्ययोत्पत्तिहेतुः संबन्धो न्यग्भूत इत्यभिन्नशब्दाभिधेयतैव २० १डित्थादेस्तस्मिन्नेव स्वरूपे धर्म प्रत्ययो भवति । कथंभूतात् डिस्थादेर्यदृच्छाशब्दादत एवान्यस्य प्रवृत्तिनिमित्तस्यासंभवात् । २ ननु यदि खरूप एव प्रत्ययो भवति तर्हि डित्थस्य भाव इति वाक्ये भावशब्दोपादानं न प्राप्नोति, यतो डित्थशब्देनापि खरूपमभिधीयते, भावशब्देनापि तदेवोच्यते तत्कथं भावशब्दोपादानमित्याह-अध्यवसितभेदे, कोऽर्थोऽध्यवसित आरोपितो भेदो यस्य स्वरूपस्य तदध्यवसितमेदं तत्र कया डित्थशब्दवाच्यतया डित्थशब्देन वाच्यखेन कोऽर्थो डित्थशब्दस्य यदेव स्वरूपं प्रवृत्तिनिमित्तं तदेवाश्रित्य डित्थशब्दः प्रवृत्त इत्यर्थः, ततो डित्थशब्दवाच्यतया कृत्वा अध्यवसितमेदे आरोपितमेदे, कोऽर्थः खरूपमेव विशेष्यं विशेषणं चात्र यतो भावो वर्तत इति विशेषणं कस्य उित्थस्य । इदं च विशेष्यम् । नहि डित्थशब्दाव्यतिरिक्तं किञ्चिद्भावशब्देनाभिधीयते, अपि तर्हि तदेव परमध्यवसितमेदात्तदेव विशेष्यं विशेषणं च भवति । ३ किं विशिष्टेsध्यवसितमेदे० क इव यथा शिलापुत्रकस्य शरीरमित्यत्राव्यतिरिक्तेऽपि वस्तुनि व्यतिरिक्त प्रत्ययो जायते तथाऽत्रापि । ४ परं कस्मादित्याह-श• बुद्ध्यावगृहीते शब्देन कृत्वा प्रत्ययो ज्ञानं तद्वलात् । ५ अत्रैव प्रस्तावे गोजतेर्भावो गोवं गोतेति गोशब्दस्य खरूपमित्युक्तम् । ततश्च गो० कोऽर्थों गोजातेः स्वरूपमिति हि किलात्रार्थः।' ६ ननु गोशब्दस्य खरूपमित्युक्तम् गोजातेः स्वरूपमिति कथं लभ्यत इत्याह-श० जातिलक्षणोऽर्थस्ततो जातिलक्षणेनार्थेन गोशब्दस्यामेदः, य एव गोशब्दः स एव जातिलक्षणोऽर्थ इति, अत एव शब्दखरूपं प्रवृत्तिनिमित्तं कोऽर्थो गोशब्दस्य खरूपं जातिस्तदेव प्रवृत्तिनिमित्तम् । ७ नित्यमेकमनेकवृत्तिसामान्यमित्यनेकवृत्तिबज्ञापनायाह-व० वयो बाल्ययौवनवार्धकलक्षणमिति, मान्धकार्यलम्बकर्णादयो मेदा अवस्थाः, एवमुत्तरेषु भावना कार्या। ८ आकाशदिशोरेकत्वादुपचार आधीयते । ९ आदिशब्दादुपचारो गृह्यते, यदा गर्गशब्देन गर्ग उपचारात्तदपत्यानि वा अभिधीयन्ते तदापि भावप्रत्ययान्तस्य जातिरेव प्रवृत्तिनिमित्तम् । ननु उपचारे आश्रिते समासकृत्तद्धितात्तु सम्बन्ध इति लक्षणस्य प्रवृत्तिरेव नास्ति, तत्कथमादिशब्देनोपचारो गृह्यते । यतस्तद्धितप्रत्ययान्तोऽपि तदा गर्गशब्दो नास्ति । उच्यते । तद्धितप्रत्ययान्तत्वं योग्यता व्याख्यातव्यं ततो योग्यतयाऽत्राप्यस्ति । १० युगपद्विवक्षायामित्यर्थः । सा च कथमित्युच्यते गर्गशब्देनापि सोऽप्यभिधीयते, गर्गस्यापत्यानि गर्गाश्चेत्यनया विवक्षया, स एवेतिकृत्वाऽभिन्नखरूपत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy