________________
४२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभावप्रत्ययात्प्रतीयते न संपन्धः । अथ पञ्चालशब्दायुगपदपत्यजनपदाभिधायिनो भावप्रत्ययेन किमभिधीयते ? प्रवृत्तिनिमित्तसंघातः यथा धवखदिरत्वमिति जातिसंहतिः । एतेनाऽक्षत्वं पादत्वं माषत्वमित्यादीन्यपि व्याख्यातानि । अव्यभिचरितसंबन्धास्तु प्रायः कृत्स्वेव भवन्ति । सतो भावः सत्त्वम् सत्ता विद्यमानता । अत्र हि जातावेव भावप्रत्ययः, न हि सद्वस्तु सत्तासंबन्धस्य व्यभिचरतीति ५ सत्तासंबन्धानपेक्षणान्न संबन्धे; पाचक इत्यादौ तु संबन्धस्य कादाचित्कत्वात्तदपेक्षः पाचकादिशब्दः स्वार्थमभिधत्ते इति ततः संबन्धे प्रत्ययो युक्तस्तस्मात्सत्सु विद्यमानेषु च पदार्थेषु नित्यसमवायिनी शब्दप्रवृत्तिः सत्तैव भावप्रत्ययवाच्या, न तु सत्सत्तयोः संबन्धः कश्चिदिति । ततः स्थितमेतत् रूढ्यादिभ्योऽन्यत्रैव कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वप्रत्ययेनेति । "त्वे वा” (६।१।२६) इति वच
नात्त्रीपुंसाभ्यां पक्षे नलञावपि भवतः-स्त्रीत्वं स्त्रीता खैणम् । पुंस्त्वं पुंस्ता पौंस्नमिति । तल्प्रत्यये १० लकारः स्त्रीत्वार्थः । त्वान्तं तु "आत्वात्वादिः समूहज" इति वचनान्नपुंसकम् ॥ अत्राधिकारसूत्रं त्वेवम्-"प्राक्त्वादगडुलादेः” (७१५६) ( त्वतलित्यनुवर्त्तते) "ब्रह्मणस्त्वः” (७।११७७ ) इति सूत्रे यस्त्वशब्दस्तस्मात्प्राक् च त्वतलावधिकृतौ ज्ञेयौ, गडुलादीन वर्जयित्वा । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः। अगडुलादेरिति किम् ? गाडुल्यम् , कामंडलवम् । एतेषु च त्वतलौ
नानुवर्तते । गडुल विशस्त दायाद बालिश संवादिन बहुभाषिन् शीर्षघातिन् शीर्षाघातिन् कमण्डलु; १५इति गडुलादयो नव । एषु कमण्डलोः “वृवर्णालध्वादेः” (७।१।६९) इत्यण , शेषेभ्यस्तु राजादेराकृतिगणत्वात् ट्यण् । गडुलादेरपि केचिदिच्छन्ति-गडुलत्वं गडुलता ॥ ८५ ॥
नञ्तत्पुरुषादबुधादेः॥ ८६ ॥ [ सि० ७।१।५७ ] अबुधादिवर्जादसावतलावेव स्याताम् । अशुक्लत्वं अशुक्लता । अबुधादेरिति किम् ? आबुध्यं आचतुर्यम् । *"पृथ्वादेरिमन्वा” (७१।५८)। भावे ॥ पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य २० ऋतो र: इमनि णीष्ठेयस्सु च परेषु ॥८६॥
"न । अबुधादीत्यादि, अयं भावः-बुधाद्यन्तवर्जात् नञ्तत्पुरुषात् त्वतलौ स्याताम् । प्राक्त्वादयमप्यधिकारः ष्ट्यणादिबाधनार्थ ज्ञेय इति । अशुक्लत्वमशुक्लतेत्यादौ वर्णलक्षणट्यण्बाधया त्वतलावेव । अशौक्लपमकायॆमिति ट्यणन्तेन समासः, समासात्तु ट्यणि नमो वृद्धिः प्रसज्यते । एवमपतित्वमपतिता-अत्र पत्यन्तलक्षणट्यण्वाधः । अनाधिपत्यमगाणपत्यमिति प्रत्ययान्तेन समासः । अरा२५ जत्वमराजता-अत्र राजान्तलक्षणट्यण्बाधः । अनाधिराज्यम् , अयौवराज्यमिति तु प्राग्वत् । अमू
र्खत्वममूर्खता-अत्र गुणाङ्गलक्षणट्यण्बाधः । अमौय॑मजाध्यमिति प्राग्वत् । अस्थविरत्वमस्थविरताअत्र वयोलक्षणाबाधः । अस्थावरमिति प्राग्वत् । अहायनत्वमहायनता-अत्र हायनान्तलक्षणाणबाधः । अद्वैहायनमिति प्राग्वत् । अपटुत्वं अपटुता-अत्र य्वर्णलक्षणाण्बाधः । अपाठवमलाघव२९ मिति प्राग्वत् । अरमणीयत्वमरमणीयता-अत्र योपान्त्यलक्षणाकञ्बाधः । अरामणीयकमकामनी
१ युगपदभिधायिलं च कथमित्युच्यते पञ्चालस्यापत्यानि पञ्चालाः, द्वितीयपञ्चालशब्दस्तु प्रत्ययरहितो जनपदवाची, ततः पञ्चालाश्च पञ्चालाश्चेत्येकशेषे । कृते युगपदभिधानं भवति । २ अपत्यजनपदरूपः । ३ अक्षशब्देनेन्द्रियपाशबिभीतकादीन्युच्यन्ते । पादशब्देन चरणकिरणश्लोकचतुर्थाशप्रत्यन्तपर्वताः, माषशब्देन धान्यविशेषदशार्द्धगुञ्जवृक्षविशेषा उच्यन्ते, तत एकशेषे वप्रत्ययः । ननु यथा धवखदिरत्वमिति दृष्टान्त उक्तस्ततश्चान जातिसंहतिर्वाच्या कथं भवति, यतः समासकृत्तद्धितात्तु सम्बन्ध इति लक्षणसम्बन्ध एव प्रवृत्तिनिमित्तं प्राप्नोति । उच्यते । प्रायिकमेतत् ज्ञातव्यम्, ततो द्वन्द्वेऽपि सम्बन्धो नाभिधीयते किन्तु जातिसंहतिरेवोच्यते। ४ 'प्राग्वतः स्त्रीपुंसान मज्' इत्यस्मादग्रेतनेन सूत्रेणेत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org