________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भावकर्मार्थाः
४२९ यकमिति प्राग्वत् प्रत्ययान्तेन समासः । नतत्पुरुषादिति किम् ? न विद्यते पतिरस्य अपतिमस्तस्य भावः कर्म वा आपत्यमाराज्यमाहायनमारमणीयकमित्येव स्यात् । बुधाद्यन्तात्तु नञ्तत्पुरुषादत् ट्यणादयः स्युः । तथा चाह-अबुधस्य भावः कर्म वा आबुद्ध्यमाचतुर्यम् । बुध, चतुर, संगत, लवण, वडक, तरस, (चण्ड, कतु, रस ?) लस, यथा, तथा, यथातथ १० यथापुर, ईश्वर, क्षेत्रज्ञ, संवादिन , संवेशिन् , संभाषिन् , बहुभाषिन् , शीर्षघातिन् , समस्थ, विषमस्थ, २० पुरस्थ, परमस्थ,५ मध्यस्थ, मध्यमस्थ दुःपुरुष, कापुरुष, विशाल, २७ इति बुधादयः सप्तविंशतिः । एभ्यो नञ्तत्पुरुपेभ्यो राजादित्वात् ट्यण् । गडुलविशस्तदायादानामपि पाठं केचिदिच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति । एषामेव च विकल्पमपरे । अथ ट्यणन्तानां बुधादीनां नब्समासः स्यात् (न वा ? ) बुधस्य भावः कर्म वा बौध्यम् , न बौध्यमबौध्यमिति भवतीत्येके । नेत्येके ॥ "त्वते गुणः” ( ३।२।५९)। परतः ख्यनूगुणवचनशब्दस्त्वत इत्येतयोः पुंवद्भवति । पट्या भावः-१० पटुत्वमिति । एवमेन्या भाव एतत्वम् २, श्येन्या श्येतत्वं २ । त्वत इति किम् ? पट्वीरूप्यं पट्वीमयम् । गुण इति किम् ? कठीत्वं कठीता, दत्तात्वं दत्ताता, कम्त्वं कर्बीता केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति-पाचिकायाः भावः पाचकत्वं २ । मद्रिकाया मद्रिकत्वं २ । गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गृह्यते, गुणमात्रवृत्तेरस्त्रीलिङ्गत्वात्पुंवद्भावाप्राप्ते अनुकूलं वर्तते "तं प्रत्यनोर्लोम०” (६।४।२८) इति इकण, तत आनुकूलिक्या भाव आनुकूलित्वं २ । आक्षिक्या १५ आक्षिकत्वं २ । द्वितीयाया द्वितीयत्वं २ । पञ्चम्याः पञ्चमत्वं २ । माथुर्याः माथुरत्वम् २ । सौग्न्याः स्रोग्नत्वं २ । चन्द्रमुख्याश्चन्द्रमुखत्वं २ । सुकेश्याः सुकेशत्वं २ । “सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्यापवादममृजन्वननिम्नगानाम्" । तथा रसवत्या धूमवत्त्वम् , भुवस्तृणवत्त्वम्, शालाया दण्डि. त्वमित्यादौ पुंवद्भावः । तलि युक्त्या "देवात्तल (७।२।१६२) इति तलि देव एव देवतेत्यत्र नामग्रहणेति न्यायादेवीशब्दादपि तलि देवतेति सिद्धम् । ऐश्वर्यादिगुणाभिधायकत्वाद्देवीशब्दोऽपि गुणव-२० चनः । जातिवाचित्वे तु देव्येव देवीता, देव्या भावो देवीत्वम् । “पृथ्वा०” प्रात्तवादित्यधिकाराच्च त्वतलौ । वावचनाद्यश्चाणादिः प्राप्नोति, सोऽपि भवति । अत्रोपयोगि सूत्रम् , “पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः” (७।४।३९) स्पष्टम् ॥ ८६ ॥ पुनरपि प्रकृतोपयोगिसूत्रम् ।
व्यन्त्यखरादेः॥ ८७॥[सि०७४।४३ ] तुरन्त्यखरादेश्चमनि ज्यादौ च लुक् स्यात् । प्रथिमा ॥ ८७ ॥
२५ "यन्त्य.” तुरिति तृप्रत्ययस्य अन्त्यखरादेश्चावयवस्य इमनि णीष्ठेयसुषु च लुग् भवति । कर्तृमन्तमाचष्टे करयति, करिष्ठः, करीयान् । कर्तारमाचष्टे करयति । मातयति भ्रातयतीत्यत्र त्वनर्थकत्वात् (अनर्थकत्वं चास्याव्युत्पन्नत्वात् , तृप्रत्ययश्च वर्णानुपूर्वीविज्ञानार्थः) तृशब्दस्य न भवति । प्रकृते तु पृथोर्भावः प्रथिमेति सिद्धम् । एवं पटिमा, लघिमा । विमनसो भावो विमनिमा । सन्मनसो भावः सन्मनिमा । दृढादित्वादिमन् । विन्मतोलृपि अनेकस्वरस्यान्यखरादेलृपं विकल्पेनेच्छन्त्येके, लुगभा-३० वपक्षे णौ गुणं चेच्छन्ति । पयस्विनमाचष्टे पययति, पयसयति, पयिष्ठः पयसिष्ठः, पीयान् पयसीयान् । वसुमन्तमाचष्टे वसयति, वसिष्ठः, वसविष्ठः, वसीयान् , वसवीयान् । अत्र विशेषोऽयम्"नैकखरस्य” (७।४।४४) एकस्वरस्य योऽन्त्यस्वरादिरवयवस्तस्य इमनि ण्यादौ लुक् न स्यात् । स्रजयति सजिष्ठः स्रजीयान् । अथ "पृथ्वादेरिमन्त्रा” (७।१।५८) इत्यत्र निर्दिष्टाः पृथ्वादयश्चेमेपृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, १० गुरु, खण्डु, पाण्डु, (बहुल, ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org