________________
४३०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुचण्ड, खण्ड, ?) अकिश्चन, बाल, होड, पाक, वत्स, मन्द, स्वादु, २० ऋजु, वृष, कृदु ( कटु कुटु १) ह्रख, दीर्घ क्षिप्र, प्रिय, महत्, अणु, ३० चारु, वक्र, वृद्ध, काल, तृप्त, (तृप ? ) इति पृथ्वादयः पश्चत्रिंशत् (?) ॥ ८७ ॥ अत्रैव प्रत्ययान्तरमाह
वृवर्णाल्लघ्वादेः ॥ ८८ ॥ [ सि० ७।११६९ ] ५ लघुरादिः समीपे येषाम् इ-उ-वर्णानां तदन्तेभ्यो भावे कर्मणि चाण् स्यात् । पार्थिवम् । त्वतल्रूपे चाधिकारादनुवर्तनीये । पृथुत्वम् । पृथुता । नदिमा । मादेवम् ॥ ८८॥
"०" । लघुरादिः समीपे इति-अत्र आदिग्रहणं समीपमात्रार्थं तेन तितउ इत्यत्राव्यवहिते शुच्यादौ चैकवर्णव्यवहिते लघुनि भवति । कर्मणि चेति-"पतिराजान्त०” (७१।६०) इति सूत्रात् कर्मणि चेत्यनुवर्तते । ततोऽयमणप्रत्ययः कर्मणि भावे चेत्यर्थद्वये स्यादिति । पृथोर्भावः कर्म वा १०पार्थवमिति सिद्धम् ॥ त्वतलूरूपे चेत्यादि स्पष्टम् । इउऋवर्णातानामुदाहरणान्येवम्-शुचेर्भावः कर्म वा
शौचं शुचित्वं शुचिता । शकुनेः शाकुनं मुनेर्मोनं सम्मतेः साम्मतम् । कवेर्भावः कर्म वा काव्यमिति तु राजादिपाठात् । नखरजन्या नाखरजनं हरीतक्या हारीतकम् । तितउनस्तैतवं पटोः पाटयं लघोर्लाघवं वध्वा वाधवं पितुः पैत्रम् । केचित्तु कशानोः कार्शानवं अरत्नेरारनं आरातेरारातमित्यादिध्वपीच्छन्ति,
तन्मतसंग्रहार्थं लघ्वादेरिति प्रकृतेर्विशेषणं न वृवर्णस्येति व्याख्येयम् । तन्मते साम्मतमिति न १५भवति ॥ ८८॥
अथेमनि प्रत्यये केषांचिदादेशविशेषानभिधातुमाह । प्रियस्थिरस्फिरोरुगुस्बहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावर
गरबहत्रपद्राघवर्षवृन्दम् ॥ ८९ ॥ [ सि०७४।३८] प्रियादीनां दशानां यथासम्भवमिमनि णीष्ठेयसुषु च प्रादयो दशादेशा भवन्ति । प्रियस्य २० भावः प्रेमा प्रियत्वम् प्रियता । स्थेमा २, स्फेमा २, वरिमा २, गरिमा २, बंहिमा २, त्रपिमा २, द्राधिमा २, वर्षिमा २, वृन्दिमा २॥ ८९॥
"प्रिय.” । सूत्रं कण्ठ्यम् , वृत्तिश्च स्पष्टा । स्थेमेत्यादौ द्विकेनांकेन त्वतलूरूपे सर्वत्रानुवर्तनीये, स्थिरत्वं स्थिरतेत्यादि । अत्र स्फिरशब्दस्यावर्णत्वादपृथ्वादित्वाददृढादित्वाञ्च नेमन्प्रत्ययः, ततश्च स्फिरत्वं स्फिरता विस्तीर्णत्वमित्यर्थः । णीष्ठेयसुषु तु स्फादेशे स्फापयति स्फेष्ठः स्फेयान् ॥ 'स्थविरपि२५ ठिरस्फिराजिरादयः” ( उणा० ४१७) । एते किदिरप्रत्ययान्ता निपात्यन्ते, स्फायतेर्डिच्च स्फिरः स्फारः वृद्धिश्च । 'तृपौच प्रीतौ' च तृप्रम्-मेघान्तधर्म आज्यं काष्ठं पापं दुःखं च । 'ऋज्यजि०' ( उणा० ३८८ ) । इत्यादिना किद्रःप्रत्ययान्तोऽयं सिद्ध्यति ॥ ८९ ॥
भूलश्चेवर्णस्य ॥ ९० ॥ [ सि०७४।४१] बहोरीयसाविम्नि च भूः स्याल्लुक् चानयोरिवर्णस्य । (भूयान् ) भूमा ॥ ९ ॥ ३० "भू०" सवृत्तिकं सूत्रं स्पष्टम् । भूमेति-बहुत्वं बहुतेत्यप्यनुवर्त्तनीयम् ॥ ९० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org