________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । भावकर्मार्थाः ४३१
४३१ स्थूलदूरयुवहखक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च
नामिनः ॥ ९१ ॥ [ सि०७४।४२] एषां षण्णामिनि ण्यादौ चान्तस्थादेरवयवस्य लुग, नामिनश्च गुणः । स्थविमा २, दविमा २, हसिमा २, क्षेपिमा २, क्षोदिमा २॥९१॥ "स्थूल०" सूत्रवृत्ती स्पष्टे ॥ ९१ ॥ पुनरपि भावेऽर्थे प्रत्ययान्तरमाह
वर्णदृढादिभ्यष्ट्यण च वा ॥ ९२ ॥ [सि० ७१।५९] वर्णविशेषेभ्यो दृढादिभ्यश्च भावे व्यण इमन् च वा । शौक्लयं शुक्लिमा २ । दाढ्य द्रढिमा २॥९२॥
"वर्ण०" । वर्णविशेषेभ्य इति-वर्णविशेषाः शुक्लादयः । इमन्च वेति-वावचनाद्यश्वाण प्राप्नोति, सोऽपि भवति । अधिकारप्राप्तौ च त्वतलौ । ततो य्वृवर्णान्तस्य पाश्चरूप्यम् । शितेर्भावः शैत्यं, शितिमा, १० शितित्वं शितिता, शैतम् । ट्यणष्टित्वं उन्धर्थम् , तेन आर्हन्त्यमित्यत्र ङयां आईन्ती । एवमौचिती, याथाकामी, सामग्री, शैली, पारिख्याती, आनुपूर्वी । दृढ, घृढ, परिवृढ, कृश, भृश, चुक्र, शुक्र, आम्र, ताम्र, अम्ल १० लवण, शीत, उष्ण, तृष्णा, जड, बधिर, मूक, मूर्ख, पण्डित, मधुर, २० वियात, विलात, विमनस्, विशारद, विमति, सम्मति, सम्मनस्, २७ इति दृढादयः सप्तविंशतिः।। बहुवचनादाकृतिगणोऽयम्-तेन स्थैर्य स्थेमेत्याद्यपि सिद्धम् ॥ ९२ ॥
पतिराजान्तगुणागराजादिभ्यः कर्मणि च ॥ ९३ ॥ [सि०७।१।६०]
पत्यन्तेभ्यो राजान्तेभ्यो गुणः प्रवृत्तिनिमित्तं येषां तेभ्यो राजादिभ्यश्च भावे कर्मणि च व्यण स्यात् । अधिपतेर्भावः कर्म वा आधिपत्यम् २, आधिराज्यं २, मौढ्यं २, राज्यं २, काव्यं २, सौभाग्यं २ । भावे कर्मणि च इत्यनुवर्त्तनीयमधिकारात् ॥ ९३ ॥
"पति." गुणः प्रवृत्तिनिमित्तमिति-[ द्रव्याश्रयी गुणः, गुणोऽङ्ग निमित्तं येषां प्रवृत्तौ ते गुणागाः] २० गुणद्वारेण ये गुणिनि वर्त्तन्ते न तु गुणवचना एवेति । राजन् , कवि, ब्राह्मण, माणव, दण्डमाणव, वाडव, चौर, धूर्त, आराधय, विराधय, उपराधय, अपिराधय, अनृशंस, कुशल, चपल, निपुण, पिशुन, चौक्ष, सुस्थ, विश्वस्त, २० विफल, विशस्य, पुरोहित, ग्रामिक, खण्डिक, दण्डिक, कर्मिक, चर्मिक, वर्मिक, शिलिक, ३० सूतक, अजिनिक, अजनिक, अजलिक, छत्रिक, सूचक, सुहित, बाल, मन्द, होड ४० राजादयश्चत्वारिंशत् ४० बहुवचनादाकृतिगणः ॥ ९३ ॥
१द्रव्याणामेवाश्रय एवास्यास्तीति, ततो द्रव्यमेवाश्रयो यस्येति जातेर्व्यवच्छेदः । अयं चैवकारोऽन्ययोगं व्यवच्छेदयति। नहि जातिव्यमेवाश्रयति, किंतु गुणमपि इति जातिर्गुणो न भवति । आश्रय एवेति किमुक्तं भवति, केवलो गुणो न भवति किन्तु द्रव्यमेवाश्रयति, अनेन चायोगव्यवच्छेदः, तेनोत्क्षेपणावक्षेपणेति या तार्किकाणां क्रियी, तस्यापि गुणसंज्ञा न भवति. यत्तस्या आश्रय एव नास्ति । २ नहि मूढो गुणोऽपि भण्यते किन्तु मोहगुणद्वारेण गुणिन्येव वर्तते । अतो गुणोऽहं प्रवृत्ति
। विद्यते इति गुणाजः, न तु गुणवचनाः । गुणवचना हि पूर्व गुणे पश्चाद् गुणिनि वत्तेन्ते, एतावता रूपादीनां व्युदासः। ३ आपूर्वाद्राधेः ण्यन्तादत एव निपातनात् शः, एवमुत्तरत्रयेऽपि । ४ नृन् शंसत्यण, ततो ना योगः। ५ चुक्षा शीलमस्य 'अस्था '-इत्यञ् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org