Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 512
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । हितार्थाद्याः ४२५ "पञ्च." पश्चाविपराज्जनात्कर्मधारये वर्तमानात्तस्मै हिते ईनः स्यात् । पञ्चजनेभ्यः पश्चजनाय हितः पञ्चजनीनः । रथकारपञ्चमस्य चातुर्वर्णस्य पञ्चजन इति संज्ञाः "संख्या समाहारे" (३।१।२८) इति कर्मधारयः । कर्मधारय इति किम् ? पञ्चानां जनः पञ्चजनस्तस्मै हितः पञ्चजनीय इत्यादि ॥ अत्रायं विशेष:-"महत्सर्वादिकण्" (७१।४२) आभ्यां परो यो जनशब्दस्तदन्तात्कर्मधारये हिते इकण् स्यात् । महते जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः । पूर्वेण ५ ईनोऽपीत्यस्य द्वैरूप्यम् ॥ "सर्वा"। स्पष्टम् । “येऽवणे" (३।२।१००)। नासिकाशब्दस्य ये प्रत्यये परे वर्णादन्यस्मिन्नभिधेये नसित्यादेशः स्यात् । नासिकायै हितं तत्र भवं वा नस्यम् । य इति किम् ? नासिक्यं नगरम् । चातुरर्थिकोऽयम् व्यः । निरनुबन्धग्रहणे हि न सानुबन्धग्रहणमिति । अवर्ण इति किम् ? नासिक्यो वर्णः ॥ "शिरसः शीर्षन्” (३।२।१०१) ये प्रत्यये परे । शिरसि भवः शीर्षण्यः स्वरः । शिरसे हितं शीर्षण्यं तैलम् । य इत्येव-शिरस्तः निरनुबन्धप्रहणात् शिर इच्छति १० शिरस्यतीत्यत्र न भवति, शिरस इति चादेशेन संबध्यते, न प्रत्ययेन, तेन हास्तिशीर्षिरित्यादौ समाससंबन्धिन्यपि तद्धिते उत्तरसूत्रेण शीर्षादेशो भवति ॥ "केशे वा" (१२।१०२) केशविषये ये परे शिरसः शीर्षन्वा । शीर्षण्याः शिरस्या वा केशाः ॥ इल्वलास्तु मृगशीर्षस्य शिरस्त्यास्तारका इति प्रयोगदर्शनात् केचित् केशादन्यत्रापि विकल्पमिच्छन्ति, शाखादियप्रत्यये चादेशं नेच्छन्ति-शिरसस्तुल्यः शिरस्यः "शाखादेर्यः” (७।१।११४) ॥ "शीर्षः खरे तद्धिते” (३।२।१०३) । स्वरादौ १५ तद्धिते परे शिरसः शीर्ष इत्यादेशो भवति । हस्तिशिरसोऽपत्यं हास्तिशीर्षिः । मृगशिरसा चन्द्रयुक्तेन युक्ता मार्गशीर्षी पौर्णमासी । स्थूलशिरस इदं स्थौलशैर्षम् । शिरसि कृतं शैर्षम् , शिरसा तरति शैर्षिकः । स्वर इति किम् ? शिरस्कल्पः । तद्धित इति किम् ? शिरसे शीर्षशब्दः प्रकृत्यन्तरमस्ति शीर्षच्छेद्यं परिच्छिद्येति प्रयोगात्, अनेनैव सिद्धे उक्तविषये शिरसः प्रयोगनिवृत्त्यर्थं वचनम् । * इति हितार्थप्रत्ययाधिकारः संपूर्णश्चेति मंगलम् । ___ अत्रेत्यादिशब्दसंबन्धात् “परिणामिनि तदर्थे” (७।१।४४) । तद्भावः परिणामः, सोऽस्यास्ति (इति) परिणामि द्रव्यमुच्यते । चतुर्थ्यन्तात्तदर्थे चतुर्थ्यन्तार्थार्थे परिणामिनि द्रव्ये कारणेऽभिधेये यथाधिकृतं प्रत्ययः स्यात् । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि-अङ्गारार्थानीत्यर्थः । एवं प्राकारीयाः इष्टकाः, शङ्कव्यं दारु, आमिक्ष्यमामिक्षीयं दधीत्यादि । परिणामिनीति किम् ? उदकाय कूपः । तदर्थे इति किम् ? मूत्राय यवागूः । यवाग्वादि मूत्रतया परिणमति न तु तदर्थम् । अथवा तदर्थे इति २५ चतुर्थीविशेषणम् (पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् ) तदर्थे या चतुर्थी तदन्तात्प्रत्ययः, इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव-सक्तूनां धानाः, धानानां यवाः, अत्र सत्यपि तादर्थे संबन्धमात्रविवक्षायां षष्ठी-यथा गुरोरिदं गुर्वर्थमिति, भवति च सतोऽप्यविवक्षाऽनुदरा कन्येत्यादिवत् ॥ “चर्मण्यम्" (७।१।४५) । प्रागुक्तार्थे । वर्धायेदं वाई चर्म । एवं वरत्रायै वारत्रम् । हलबन्धाय हालबन्धम् । सनङ्गव्यमित्यत्र "उवर्णयुगादेः०” (७१।३०) इति य एव, सनङ्गश्चर्मदि.३० कारः ॥ "ऋषभोपानहायः ” (७।१।४६) उक्तार्थे । ऋषभायायमार्षभ्यो वत्सः । औपानह्यो मुञ्जः। औपाना काष्ठम् । औपाना चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव ॥ "छदिलेरेय" (७।१।४७) उक्तार्थे । छदिषे इमानि छादिषयाणि तृणानि । बलये इमे बालेयास्तण्डुलाः । चर्मण्यपि परत्वादयमेव-च्छादिषेयं चर्म ॥ “परिवाऽस्य स्यात्” (७१।४८) परिखाशब्दानिर्देशादेव प्रथमान्तादस्येति षष्ठ्यर्थे परिणामिन्येयण स्यात् , या सा परिखा सा चेत्स्यादिति योग्यतया सम्भाव्यते । ३५ है. प्रका• पूर्वा० ५४ २० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560