Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 515
________________ ४२८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभावप्रत्ययात्प्रतीयते न संपन्धः । अथ पञ्चालशब्दायुगपदपत्यजनपदाभिधायिनो भावप्रत्ययेन किमभिधीयते ? प्रवृत्तिनिमित्तसंघातः यथा धवखदिरत्वमिति जातिसंहतिः । एतेनाऽक्षत्वं पादत्वं माषत्वमित्यादीन्यपि व्याख्यातानि । अव्यभिचरितसंबन्धास्तु प्रायः कृत्स्वेव भवन्ति । सतो भावः सत्त्वम् सत्ता विद्यमानता । अत्र हि जातावेव भावप्रत्ययः, न हि सद्वस्तु सत्तासंबन्धस्य व्यभिचरतीति ५ सत्तासंबन्धानपेक्षणान्न संबन्धे; पाचक इत्यादौ तु संबन्धस्य कादाचित्कत्वात्तदपेक्षः पाचकादिशब्दः स्वार्थमभिधत्ते इति ततः संबन्धे प्रत्ययो युक्तस्तस्मात्सत्सु विद्यमानेषु च पदार्थेषु नित्यसमवायिनी शब्दप्रवृत्तिः सत्तैव भावप्रत्ययवाच्या, न तु सत्सत्तयोः संबन्धः कश्चिदिति । ततः स्थितमेतत् रूढ्यादिभ्योऽन्यत्रैव कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वप्रत्ययेनेति । "त्वे वा” (६।१।२६) इति वच नात्त्रीपुंसाभ्यां पक्षे नलञावपि भवतः-स्त्रीत्वं स्त्रीता खैणम् । पुंस्त्वं पुंस्ता पौंस्नमिति । तल्प्रत्यये १० लकारः स्त्रीत्वार्थः । त्वान्तं तु "आत्वात्वादिः समूहज" इति वचनान्नपुंसकम् ॥ अत्राधिकारसूत्रं त्वेवम्-"प्राक्त्वादगडुलादेः” (७१५६) ( त्वतलित्यनुवर्त्तते) "ब्रह्मणस्त्वः” (७।११७७ ) इति सूत्रे यस्त्वशब्दस्तस्मात्प्राक् च त्वतलावधिकृतौ ज्ञेयौ, गडुलादीन वर्जयित्वा । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः। अगडुलादेरिति किम् ? गाडुल्यम् , कामंडलवम् । एतेषु च त्वतलौ नानुवर्तते । गडुल विशस्त दायाद बालिश संवादिन बहुभाषिन् शीर्षघातिन् शीर्षाघातिन् कमण्डलु; १५इति गडुलादयो नव । एषु कमण्डलोः “वृवर्णालध्वादेः” (७।१।६९) इत्यण , शेषेभ्यस्तु राजादेराकृतिगणत्वात् ट्यण् । गडुलादेरपि केचिदिच्छन्ति-गडुलत्वं गडुलता ॥ ८५ ॥ नञ्तत्पुरुषादबुधादेः॥ ८६ ॥ [ सि० ७।१।५७ ] अबुधादिवर्जादसावतलावेव स्याताम् । अशुक्लत्वं अशुक्लता । अबुधादेरिति किम् ? आबुध्यं आचतुर्यम् । *"पृथ्वादेरिमन्वा” (७१।५८)। भावे ॥ पृथु-मृदु-भृश-कृश-दृढ-परिवृढस्य २० ऋतो र: इमनि णीष्ठेयस्सु च परेषु ॥८६॥ "न । अबुधादीत्यादि, अयं भावः-बुधाद्यन्तवर्जात् नञ्तत्पुरुषात् त्वतलौ स्याताम् । प्राक्त्वादयमप्यधिकारः ष्ट्यणादिबाधनार्थ ज्ञेय इति । अशुक्लत्वमशुक्लतेत्यादौ वर्णलक्षणट्यण्बाधया त्वतलावेव । अशौक्लपमकायॆमिति ट्यणन्तेन समासः, समासात्तु ट्यणि नमो वृद्धिः प्रसज्यते । एवमपतित्वमपतिता-अत्र पत्यन्तलक्षणट्यण्वाधः । अनाधिपत्यमगाणपत्यमिति प्रत्ययान्तेन समासः । अरा२५ जत्वमराजता-अत्र राजान्तलक्षणट्यण्बाधः । अनाधिराज्यम् , अयौवराज्यमिति तु प्राग्वत् । अमू र्खत्वममूर्खता-अत्र गुणाङ्गलक्षणट्यण्बाधः । अमौय॑मजाध्यमिति प्राग्वत् । अस्थविरत्वमस्थविरताअत्र वयोलक्षणाबाधः । अस्थावरमिति प्राग्वत् । अहायनत्वमहायनता-अत्र हायनान्तलक्षणाणबाधः । अद्वैहायनमिति प्राग्वत् । अपटुत्वं अपटुता-अत्र य्वर्णलक्षणाण्बाधः । अपाठवमलाघव२९ मिति प्राग्वत् । अरमणीयत्वमरमणीयता-अत्र योपान्त्यलक्षणाकञ्बाधः । अरामणीयकमकामनी १ युगपदभिधायिलं च कथमित्युच्यते पञ्चालस्यापत्यानि पञ्चालाः, द्वितीयपञ्चालशब्दस्तु प्रत्ययरहितो जनपदवाची, ततः पञ्चालाश्च पञ्चालाश्चेत्येकशेषे । कृते युगपदभिधानं भवति । २ अपत्यजनपदरूपः । ३ अक्षशब्देनेन्द्रियपाशबिभीतकादीन्युच्यन्ते । पादशब्देन चरणकिरणश्लोकचतुर्थाशप्रत्यन्तपर्वताः, माषशब्देन धान्यविशेषदशार्द्धगुञ्जवृक्षविशेषा उच्यन्ते, तत एकशेषे वप्रत्ययः । ननु यथा धवखदिरत्वमिति दृष्टान्त उक्तस्ततश्चान जातिसंहतिर्वाच्या कथं भवति, यतः समासकृत्तद्धितात्तु सम्बन्ध इति लक्षणसम्बन्ध एव प्रवृत्तिनिमित्तं प्राप्नोति । उच्यते । प्रायिकमेतत् ज्ञातव्यम्, ततो द्वन्द्वेऽपि सम्बन्धो नाभिधीयते किन्तु जातिसंहतिरेवोच्यते। ४ 'प्राग्वतः स्त्रीपुंसान मज्' इत्यस्मादग्रेतनेन सूत्रेणेत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560