Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 516
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भावकर्मार्थाः ४२९ यकमिति प्राग्वत् प्रत्ययान्तेन समासः । नतत्पुरुषादिति किम् ? न विद्यते पतिरस्य अपतिमस्तस्य भावः कर्म वा आपत्यमाराज्यमाहायनमारमणीयकमित्येव स्यात् । बुधाद्यन्तात्तु नञ्तत्पुरुषादत् ट्यणादयः स्युः । तथा चाह-अबुधस्य भावः कर्म वा आबुद्ध्यमाचतुर्यम् । बुध, चतुर, संगत, लवण, वडक, तरस, (चण्ड, कतु, रस ?) लस, यथा, तथा, यथातथ १० यथापुर, ईश्वर, क्षेत्रज्ञ, संवादिन , संवेशिन् , संभाषिन् , बहुभाषिन् , शीर्षघातिन् , समस्थ, विषमस्थ, २० पुरस्थ, परमस्थ,५ मध्यस्थ, मध्यमस्थ दुःपुरुष, कापुरुष, विशाल, २७ इति बुधादयः सप्तविंशतिः । एभ्यो नञ्तत्पुरुपेभ्यो राजादित्वात् ट्यण् । गडुलविशस्तदायादानामपि पाठं केचिदिच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति । एषामेव च विकल्पमपरे । अथ ट्यणन्तानां बुधादीनां नब्समासः स्यात् (न वा ? ) बुधस्य भावः कर्म वा बौध्यम् , न बौध्यमबौध्यमिति भवतीत्येके । नेत्येके ॥ "त्वते गुणः” ( ३।२।५९)। परतः ख्यनूगुणवचनशब्दस्त्वत इत्येतयोः पुंवद्भवति । पट्या भावः-१० पटुत्वमिति । एवमेन्या भाव एतत्वम् २, श्येन्या श्येतत्वं २ । त्वत इति किम् ? पट्वीरूप्यं पट्वीमयम् । गुण इति किम् ? कठीत्वं कठीता, दत्तात्वं दत्ताता, कम्त्वं कर्बीता केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति-पाचिकायाः भावः पाचकत्वं २ । मद्रिकाया मद्रिकत्वं २ । गुणद्वारेण गुणिनि वर्तमानो गुणवचनो गृह्यते, गुणमात्रवृत्तेरस्त्रीलिङ्गत्वात्पुंवद्भावाप्राप्ते अनुकूलं वर्तते "तं प्रत्यनोर्लोम०” (६।४।२८) इति इकण, तत आनुकूलिक्या भाव आनुकूलित्वं २ । आक्षिक्या १५ आक्षिकत्वं २ । द्वितीयाया द्वितीयत्वं २ । पञ्चम्याः पञ्चमत्वं २ । माथुर्याः माथुरत्वम् २ । सौग्न्याः स्रोग्नत्वं २ । चन्द्रमुख्याश्चन्द्रमुखत्वं २ । सुकेश्याः सुकेशत्वं २ । “सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्यापवादममृजन्वननिम्नगानाम्" । तथा रसवत्या धूमवत्त्वम् , भुवस्तृणवत्त्वम्, शालाया दण्डि. त्वमित्यादौ पुंवद्भावः । तलि युक्त्या "देवात्तल (७।२।१६२) इति तलि देव एव देवतेत्यत्र नामग्रहणेति न्यायादेवीशब्दादपि तलि देवतेति सिद्धम् । ऐश्वर्यादिगुणाभिधायकत्वाद्देवीशब्दोऽपि गुणव-२० चनः । जातिवाचित्वे तु देव्येव देवीता, देव्या भावो देवीत्वम् । “पृथ्वा०” प्रात्तवादित्यधिकाराच्च त्वतलौ । वावचनाद्यश्चाणादिः प्राप्नोति, सोऽपि भवति । अत्रोपयोगि सूत्रम् , “पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः” (७।४।३९) स्पष्टम् ॥ ८६ ॥ पुनरपि प्रकृतोपयोगिसूत्रम् । व्यन्त्यखरादेः॥ ८७॥[सि०७४।४३ ] तुरन्त्यखरादेश्चमनि ज्यादौ च लुक् स्यात् । प्रथिमा ॥ ८७ ॥ २५ "यन्त्य.” तुरिति तृप्रत्ययस्य अन्त्यखरादेश्चावयवस्य इमनि णीष्ठेयसुषु च लुग् भवति । कर्तृमन्तमाचष्टे करयति, करिष्ठः, करीयान् । कर्तारमाचष्टे करयति । मातयति भ्रातयतीत्यत्र त्वनर्थकत्वात् (अनर्थकत्वं चास्याव्युत्पन्नत्वात् , तृप्रत्ययश्च वर्णानुपूर्वीविज्ञानार्थः) तृशब्दस्य न भवति । प्रकृते तु पृथोर्भावः प्रथिमेति सिद्धम् । एवं पटिमा, लघिमा । विमनसो भावो विमनिमा । सन्मनसो भावः सन्मनिमा । दृढादित्वादिमन् । विन्मतोलृपि अनेकस्वरस्यान्यखरादेलृपं विकल्पेनेच्छन्त्येके, लुगभा-३० वपक्षे णौ गुणं चेच्छन्ति । पयस्विनमाचष्टे पययति, पयसयति, पयिष्ठः पयसिष्ठः, पीयान् पयसीयान् । वसुमन्तमाचष्टे वसयति, वसिष्ठः, वसविष्ठः, वसीयान् , वसवीयान् । अत्र विशेषोऽयम्"नैकखरस्य” (७।४।४४) एकस्वरस्य योऽन्त्यस्वरादिरवयवस्तस्य इमनि ण्यादौ लुक् न स्यात् । स्रजयति सजिष्ठः स्रजीयान् । अथ "पृथ्वादेरिमन्त्रा” (७।१।५८) इत्यत्र निर्दिष्टाः पृथ्वादयश्चेमेपृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, १० गुरु, खण्डु, पाण्डु, (बहुल, ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560