Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 507
________________ ४२० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु( ३।२।५०) इति पुंषभावः । सङ्ख्यान्ताहिगोलपं नेच्छन्त्येके द्वाभ्यां षष्टिभ्यां क्रीतं द्विषाष्टिकम् त्रिषाष्टिकमिति ॥ अत्र विशेषास्त्वेवम्-"नवाणः" (६।४।१४२)। द्विगोः परस्याईदर्थस्याणः पिल्लुप् वा स्यादतिः । द्वाभ्यां सहस्राभ्यां क्रीतं द्विसहस्रं द्विसाहस्रम् । अण इति किम् ? द्वौ द्रोणौ पचति द्विद्रोणः "तं पचति ५द्रोणाद्वाऽ" (६।४।१६१) इत्यञ् , तस्य "अनान्यद्विः प्लुप्" इति नित्यं लुप् ॥ "सुवर्णकार्षापणात्" (६।४।१४३) । तदन्ताहिगोराहदर्थविहितप्रत्ययस्य प्राग्वल्लुब् वा स्यात् , न तु द्विः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसुवर्ण द्विसौवर्णिकम् । द्विकार्षापणिकम् , द्विप्रतिकम् , द्विकार्षापणम् । “द्वित्रिबहोर्निष्कविस्तात्" (६।४।१४४ )। एभ्यः परौ यौ निष्कविस्तौ तदन्ताष्टिगोराहदर्थे उत्पन्नस्य प्रत्ययस्य लुप् वा स्यात्, न त्वद्विः । द्विनिष्कं द्विनैष्किकम् , त्रिनिष्कं त्रिनैष्किकम् , बहुनिष्कं बहु१० नैष्किकम् । द्विविस्तं द्विवैस्तिकम् , त्रिविस्तं त्रिवैस्तिकम् बहुविस्तं बहुवैस्तिकम् ॥ "शतायः" (६।४।१४५) । शतान्ताहिगोराईदर्थे यो वा स्यात् ; पक्षे सञ्जयालक्षणः कस्तस्य लुप् स्यादस्य तु विधानसामर्थ्यान्न स्यात् । द्वाभ्यां शताभ्यां क्रीतं द्विशत्यं द्विशतम् , अध्यर्द्धशत्यं अध्यर्द्धशतम् , अर्द्धषष्ठशत्यं अर्द्धषष्ठशतम् ॥ "शाणात्" (६४।१४६) शाणान्ताहिगोराहदर्थे यो वा स्यात् , पक्षे इकण् तस्य लुप् । अस्य तु विधानसामर्थ्यान्न । पञ्चशाणम् । योगविभाग उत्तरार्थः ।। "द्विव्याया१५ऽण् वा” (६।४।१४७) द्वित्रिपूर्वो यः शाणशब्दस्तदन्ताहिगोराईदर्थे याणौ वा स्याताम् , वाग्रहणमुत्तरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यं वैशाणम् , पक्षे इकण् तस्य लुप्-द्विशाणम् , एवं त्रैरूप्यम् ॥ "पणपादमाषाद्यः" (६।४।१४८) एतदन्ताहिगोराहदर्थे यः स्याद्विधानसाम •च्चास्य न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम् , द्विपाद्यम् , द्विमाष्यम् । माषपणसाहचर्यात्पादः परिमाणं गृह्यते, न प्राण्यङ्गम् , तेन “हिमहतिकाषिये पद्” (३।२।९६) इति पद्भावो न भवति२० तत्र प्राण्यङ्गस्यैव ग्रहणात् । यद्वा पादसम्बन्धी यकारस्तत्र गृह्यते, अयं तु द्विगुसम्बन्धीति न भवति । "खारीकाकणीभ्यः कच्" ( ६।४।१४९) एतदन्ताहिगोर्बहुवचनात्केवलाभ्यां खारीकाकणीभ्यां चाहदर्थे कच् स्याद्विधानसामर्थ्याच्चास्य न लुप् । द्वाभ्यां खारीभ्यां क्रीतं द्विखारीकम् द्विकाकणीकम् । खार्या क्रीतं खारीकं काकणीकम् । चकारो "न कचि” ( २।४।१०५) इति प्रतिषेधार्थः ।। ७८ ॥ प्रत्ययस्यैवमिकणोऽधिकारः पूर्णतामितः । यप्रत्ययोऽथाधिकृतो विशेषविषयं विना ॥ १ ॥ २५ वहति रथयुगप्रासङ्गात् ॥ ७९ ॥ [सि० ७।१।२ ] एभ्यो द्वितीयान्तेभ्यो वहत्यर्थे यः स्यात् । रथं वहति रथ्यः ॥ "धुरो यैयण” (७/१२३)। धुर्यः धौरेयः ॥ “वामाद्यादेरीनः" (७११४) वामधुरीणः ॥ “हलसीरादिकण्” (७११६) हालिकः सैरिकः ॥ "शकटादण्” (७१२१) शाकटः ॥ हृद्यधर्म्यपद्यादयः साधवः ॥ "नौविषेण तार्यवध्ये” (७१।१२)। नाव्या नदी । विष्यः शत्रुः ॥ “न्यायार्थादनपेते" ३०(७।१।१३)। यः । न्यायादनपेतं न्याय्यम् । अर्थ्यम् ॥ ७९ ॥ "वह." । रथ्य इति-एवं द्वौ रथौ वहति द्विरथ्यः, युगं वहति युग्यः, कालविशेषं युगं वहति मनुष्य इत्यादौ त्वनभिधानान्न भवति । "कुप्यभिद्या” (५।१।३९) दिनिपातनादेव युग्य इति सिद्धे इदमर्थविवक्षयामण्बाधनार्थं युगग्रहणम् , यो हि युगं वहति स युगसंबन्धी भवतीति । प्रसज्यते इति ३४प्रासङ्गः, वत्साना दमनकाले यत्काष्ठं स्कन्धे आसज्यते तद्वति स प्रासङ्ग्यः । यत्वन्यत्प्रसङ्गादागतं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560