Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 506
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । आर्हदर्थाः झुत्तरशतं द्विशतम् , तेन क्रीतं द्विशतकम् । सङ्ख्यादेवाहदलुच इति प्राप्नोति । अतस्मिमिति किम् ? शतं मानमस्य शतकं स्तोत्रम्-अत्रहि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते इति, अन्यस्मिंस्तु शते भवत्येव-शतेन क्रीतं शाटकशतं शत्यं शतिकम् ॥ "वातोरिका" (६४।१३२)। अत्वन्तसङ्ख्याया आहेदर्थे इकः स्यात्, वा । यावता क्रीतं यावतिकं यावत्कम् । तावतिकं तावत्कम् । विधानसामानेकरलोपः । “कार्षापणादिकट् प्रतिश्चास्य वा" (६।४।१३३)। आईदर्थे अस्मादिकट ,५ अस्य च कार्षापणस्य प्रति इत्यादेशो वा स्यात् । कार्षापणिकं कार्षापणिकी, प्रतिकम् प्रतिकी । चकार आदेशस्य प्रत्ययसनियोगशिष्टत्वार्थः, अत एव द्विगोलपि प्रकृत्यादेशो न स्यात्-द्विकार्षापणम् । अस्येति स्थानिप्रतिपत्त्यर्थम् , अन्यथा प्रतिः प्रत्ययान्तर विज्ञायेत । टकारो ज्यर्थः । “अात्पलकंसक र्षात्" (६।४।१३४) । अर्द्धपूर्वात्पलादित्रयादार्हदर्थे इकट् स्यात् । अर्द्धपलिकं अर्द्धपलिकी, अर्द्धकंसिकं २, अर्द्धकर्षिकं २ ॥ "सार्द्धात्" (६।४।१३५) । आभ्यामाईदर्थे इकद् स्यात् । कंसिकं १० कंसिकी, अद्धिकं २ । “सहस्रः” । अनमकृत्वाविधानं "नवाण" (६।४।१४२) इत्येवमर्थम् । ___ अत्र विशेषास्त्वेवम् । “सूर्पाद्वाऽञ्” (६।४।१३७) । आईदर्थे । इकणोऽपवादः । शोप्पं शौपिकम् । शूर्पण मानविशेषेण क्रीतमित्यर्थः । “वसनात्" (६।४।१३८) । अस्मादब् स्यात् । वसनेन क्रीतं वासनम् । “विंशतिकात्" (६।४।१३९) । प्राग्वत् । विंशतिर्मानमस्य विंशतिकम् , तेन क्रीतं वैशतिकम् । योगविभाग उत्तरार्थः ॥ "द्विगोरीन:” (६।४।१४०) विंशतिकान्ताहिगो-१५ राहदर्थे ईनः स्यात् । अयोऽपवादः । विधानसामर्थ्यादस्य लुप् न स्यात् । द्वाभ्यां विंशतिकाभ्यां क्रीतं द्विविंशतिकीनम् । अध्यर्द्धन विंशतिकेन क्रीतं अध्यर्द्धविंशतिकीनम् । अर्द्धपश्चमेन विंशतिकेन क्रीतं अर्द्धपश्चमविंशतिकीनम् । अध्य‘पञ्चमशब्दयोः सङ्ख्यावद्भावेनात्र द्विगुप्राप्तिस्तत्र च सूत्रपद्धतिरेवम्-"कसमासेऽध्यर्द्ध" (१।१।४१)। कप्रत्यये समासे च विधेये अध्यर्द्धशब्दः सङ्ख्यावत् स्यात् । अध्यर्द्धन क्रीतं अध्यर्द्धकम् २० “सङ्ख्याडते: "इति कः । अध्यर्द्धन सूर्पण क्रीतं अध्यर्द्धसूर्पम्-अत्र सङ्ख्यापूर्वत्वेन द्विगुत्वे "अनाम्यद्विः प्लुप्” (६।४।१४१) इतीकणो लुप् । कसमास इति किम् ? सङ्घादिप्रत्ययविधौ न भवति ॥ "अर्द्धपूर्वपदः पूरणः” (१।१।४२) । समास एव पूर्वपदोत्तरपदव्यवस्था, ततोऽर्द्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः के प्रत्यये समासे च विधातव्ये सङ्ख्यावत्स्यात् । अर्द्धपञ्चमकम् अर्द्धपश्चमसूर्पम् ॥७७॥ ___अनास्यऽद्विः प्लुप् ॥ ७० ॥ [सि० ६।४।१४१] २५ द्विगोराहदर्थे जातस प्रत्ययस्य प्लुप् सात्, न तु द्विः, अनाम्नि । द्वाभ्यां कंसाभ्यां क्रीतो द्विकंसः ॥ ७८ ॥ * इत्यार्हदावधिः। "अना०" । द्विकंस इति-द्वाभ्यां कंसाभ्यां द्विकंस्या वा क्रीतो विकंसः एवं त्रिकंसः अध्यर्द्धकंसः अर्द्धपश्चमकंसः द्विसूर्पः । अद्विरिति किम् ? द्वाभ्यां सूर्पाभ्यां क्रीतं द्विसूर्पम् अब् लुप्, द्विसूर्पण ३० क्रीतं द्विसौर्पिकमत्रेकणो क्रीते लुब् न स्यात् । अनानीति किम् ? पञ्च लोहिन्यः परिमाणमस्य पाश्चलौहितिकम् “जातिश्च णि.” ( ३।२।५१) इत्यादिना पुंवद्रावः । पञ्च कलायाः परिमाणमस्य पाश्चकालायिकम् । परिमाणविशेषनानी एते, अत एव "मानसंवत्सर०" (७।४।१९) इत्यादिना नोत्तरपदवृद्धिः । लुपः पित्त्वात् पञ्चभिर्गा!भिः क्रीतः पश्चगर्ग इत्यत्रेकणो लुपि "क्यानिपित्तद्धिते" ३४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560