Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 505
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खौपज्ञहैमलघु"तम०" । वैषिक इति एवं श्वैतच्छत्रिकः, वास्त्रिका, वात्रयुगिकः । भोजनमर्हति पानमहतीत्यादावनभिधानान भवति । *छेदमित्यादि "छेदादेर्नित्यम्" (६।४।१८२) । नित्यमित्यहतीत्यस्य विशेषणम् । एभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययः स्यात् । छैदिक इति-एवं भैदिकः । छेद, भेद, द्रोह, दोह, नर्स, गोनत, कर्ष, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, (विप्रयोग?) सम्प्रयोग, ५प्रेक्षण, संप्रयोगप्रेक्षण (?) संप्रश्न, विप्रश्न, इति छेदादयः षोडश ॥ विरङ्गिक इति-"विरागाद्विरङ्गश्च" (६।४।१८३ ) अस्माद्वितीयान्तान्नित्यमहत्यर्थे इकण , विरङ्गादेशश्च । नित्यं विरागमहति वैरङ्गिक इति ।। "शीर्षच्छेदाद्यो वा” (६।४।१८४) । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः शैर्षच्छेदिकः ॥ "दण्डा०" एभ्यो द्वितीयान्तेभ्योऽहत्यर्थे यः स्यात् । दण्ड्यः । ___ आदिशब्दात् “यज्ञादियः” ( ६।४।१७९) । अस्मादहत्यर्थे इयः स्यात् । यज्ञमर्हति यज्ञियो १० देशः, यजमानो वा । यज्ञो नाम क्रियासमुदायः, कश्चित्तदभिव्यङ्गयं चाऽपूर्वम् । (वा पूर्वम् ? ) इत्याहुः। “पात्रात्तौ” (६।४।१८०) । ताविति य इय प्रत्ययौ । पात्रमर्हति पात्र्यः पात्रियः। “दक्षिणाकडङ्गरस्थालीबिलादीययो” (६।४।१८१) । एभ्यस्त्रिभ्योऽर्हत्यर्थे एतौ स्याताम् । दक्षिणामर्हति दक्षिणीयो दक्षिण्यो गुरुः। कडङ्गरीयः कडङ्गर्यो गौः, कडङ्गरं माषादिकाष्ठम् । स्थालीबिलीयाः स्थालीबि ल्यास्तण्डुलाः, पाकाहा॑ इत्यर्थः । “शालीनकौपीनात्विजीनम्” (६।४।१८५)। एते त्रयोऽर्हत्यर्थे १५ ईनप्रत्ययान्ता निपात्यन्ते । शालाप्रवेशनमर्हति, ईनन् , प्रवेशनशब्दस्य च लुक्, शालीनोऽधृष्टपर्यायः। कूपप्रवेशनमर्हति कौपीनः, कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्त्तते [उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थं गोपनीयग्रहणम् ] । ऋत्विक्शब्दात् ऋत्विकर्मशब्दाद्वा ईनन् , कर्मशब्दलोपश्च निपात्यः, ऋत्विजमर्हति आत्विजीनो यजमानः; ऋत्वि कर्हिति आविजीन:-ऋत्विगेव । *क्रीतादयश्चत्वार इति-उपलक्षणमात्रमेतत् , अन्यथा तेन "मूल्यैः २० क्रीते" (६।४।१५०) इत्यस्मादारभ्य "तमहती"ति सूत्रं यावत् येऽर्थाः "तस्य वापे" (६।४। १५१) "तं पचतिद्रोणा०” (६।४।१६१) इत्यादयस्ते सर्वेऽप्याईदर्था ज्ञेयाः । प्रकृतिप्रत्ययविभक्त्यादिनियमस्तु यथासूत्रं ज्ञेयः । “त्रिंश." आभ्यामाईदर्थे डकः स्यात् , कापवादः । असंज्ञायामिति किम् ? त्रिंशत्कम् ॥ "विंश”। सूत्रं स्पष्टम् ॥ ७६ ॥ सङ्ख्याडतेश्चाशत्तिष्टेः कः ॥ ७७ ॥ [सि०६४।१३०] २५ शदन्तत्यन्तथ्यन्तवर्जसङ्ख्याया डतेस्त्रिंशविंशतिभ्यां चाहदर्थे कः स्यात् । द्विकं त्रिंशत्कं विंशतिकं कतिकं यावत्कम् । *डतेः पृथग्ग्रहणं त्यन्तप्राप्तनिषेधपरिहाराय । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् । साप्ततिकम् । षाष्टिकम् । “सहस्रशतमानादण्” (६।४।१३६)। आईदर्थे । साहस्रः। शातमानः॥७७॥ "सत्या" । द्वाभ्यां त्रिंशता विंशत्या कतिभिर्यावद्भिः क्रीतं द्विकमित्यादि । कतियावतोः, "डत्यतु ३० सङ्ख्यावत्" (१।१।३९) इति सङ्ख्यात्वम्, अडतेः पृथग्रहणमित्युपलक्षणम्, तेन अशत्तिष्टेरिति प्रतिषेधे प्राप्ते डतित्रिंशद्विशतीनामुपादानमित्यपि ज्ञेयम्। चात्वारिंशत्कमिति-एवं पाश्चाशत्कम् , साप्ततिकम् इति-आशीतिकं, नावतिकं, षाष्टिकम् ॥ आदिशब्दात् “शतात्केवलादतस्मिन्येको" (६।४।१३१) । अस्मादेतौ स्याताम् , अत३४ स्मिन्-स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न भवति । शतेन क्रीतं शत्यं शतिकम् । केवलादिति किम् ? Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560