Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 503
________________ ४१६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदावहत्स" (६४१६६) । वंशादिभ्यः परो यो भारशब्दस्तदन्ताहितीयान्तान्नान्नो हरति वहति आवहति चार्थे यथाविहितं प्रत्ययाः स्युः । वंशभारं हरति वहति आवहति वा वांशभारिकः ॥ अपरोऽर्थ:-भारभूतेभ्यो वंशेभ्यो हरदादिष्वर्थेषु यथाविहितं प्रत्ययाः स्युः । भारभूतान्वंशान्हरति वहति आवहति वा वांशिकः । कौटिकः । वाल्वजिकः ॥ भाराविति किम् ? एकं वंशं हरति । हरतिर्देशा५न्तरप्रापणे चौर्ये वा; वहतिरुक्षिप्यधारणे; आवहतिरुपादने । वंश, कुट, कुटज, वल्वज, मूल, स्थूणा, अक्ष, अश्मन् , इक्षु, खट्वा, श्लक्ष्ण, इति वंशादय एकादश ॥ "द्रव्यवस्लात्केकम्" (६।४।१६७) द्रव्यवस्माभ्यां द्वितीयान्ताभ्यां वहदाविषु त्रिष्वर्थेषु यथासङ्ख्यं केको प्रत्ययौ स्याताम् । द्रव्यं हरति वहति आवहति वा द्रव्यकः । एवं वनिकः ॥ “सोऽस्य भृतिवलांशम्" (६।४।१६८)। स इति प्रथमान्तादस्पेति षष्ठ्यर्थे यथाविहितमिकणादयः स्युर्यत्प्रथमान्तं तचेद् भृतिर्वस्नमंशो वा भवति । २० तत्र भृतिवेतनम् , वनो नियतकालक्रयमूल्यम्, अंशो भागः । पञ्चास्य भृतिः पञ्चकः कर्मकरः । पञ्चास्य वस्त्रं पञ्चकः पटः । पञ्चास्यांशाः पञ्चकं नगरम् ॥ एवं सप्तकः, अष्टकः, शत्यः, शतिकः, साहस्रः, प्रास्थिकः ॥ ७३ ॥ मानम् ॥ ७४॥ [सि० ६३।१६९ ] अमात्प्रथमान्तात्षष्ठ्यर्थे इकणादयः स्युः । द्रोणो मानमय द्रौणिको राशिः ॥ ७४ ॥ १५ "मानम्" अस्मादिति मानवाचिनः । मीयते येन तन्मानं प्रस्थद्रोणादि, संख्यापि च । द्रोणो मान मस्य द्रौणिको राशिरिति-एवं प्रास्थिकः, खारीकः, खारीशतिकः खारीसाहसिकः । वर्षशतं वर्षसहस्रं मानमस्य वार्षशतिको वार्षसाहनिको देवदत्तः । पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाञ्चलोहिनिकम् , पाश्चकलायिकम् , अनयोः संज्ञाशब्दत्वात् "अनाम्यद्विः प्लुब्” (६।४।१४१) इति लुब् न भवति । मासो वर्ष मानमस्येत्यादौ तु प्रत्ययो न स्यात्-मानग्रहणेन कालस्याग्रहणात्तदपि २० "मानसंवत्सरस्य०” (७४।१९) इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् ॥ अत्रादिशब्दग्रहणात् "जीवितस्य सन्” (६।४।१७०)। जीवितस्य यन्मानं ततः प्रागुक्तार्थे यथाविहितं प्रत्ययः स्यात्, स च सन्, तस्य "अनाम्यद्विःप्लुबि"ति लुप् प्राप्ता न भवतीत्यर्थः । षष्टिर्जीवितमानमस्य षाष्टिकः । साप्ततिकः, वार्षशतिकः, वार्षसाहसिकः । द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः, त्रिषाष्टिकः, द्विवार्षशतिकः, द्विवार्षसाहसिकः । वृत्तौ वर्षशब्दलोपाषष्ट्यादयो जीवितमानं २५ भवति-यथा शतायुर्वै पुरुष इति ॥ प्रास्थिक इत्यादौ ब्रीह्यादय एव मेयास्त एव प्रत्ययार्थोऽत्र तु जीवितं मेयम्, पुरुषस्तु प्रत्ययार्थ इति “मानमिति" सूत्रेण न सिद्ध्यतीति वचनं लुबभावार्थं च ॥ "सक्ष्यायाः सङ्घसूत्रपाठे" (६।४।१७१) । सङ्ख्यावाचिनः प्रथमान्तादस्य मानमित्यर्थे यथाविहितं प्रत्ययः स्यात् , यत्तदस्येति निर्दिष्टम् , तश्चेत्सङ्घः सूत्रं पाठो वा स्यात् । सङ्घः प्राणिनां समूहः । सूत्रं शास्त्रप्रन्थः । पाठोऽधीतिरध्ययनम् । पश्च गावो मानमस्य पश्चकः सङ्घः । सप्तकः ॥ अष्टावध्याया ३० मानमस्य अष्टकं पाणिनीयं सूत्रम् । दशकं वैयाघ्रपदीयम् । शतकं निदानम् । अष्टौ रूपाणि वारा मान मस्याष्टकः पाठोऽधीत:-"सङ्ख्याडते.” (६।४।१३०) इति कः। सङ्घादाविति किम् ? पश्च वर्णा मानमस्य पश्चतयं पदम् । इदं न सङ्घो न सूत्रं न पाठ इति को न भवति, अपि तु तयडेव । एवं चतुष्टयी शब्दानां प्रवृत्तिः, पश्चादीनां सहयेयानामवयवतया समादेर्मानत्वान्मानमित्यनेनैव सिद्ध्यति, परत्वात्तु तयट् प्रामोति, तद्वाधनार्थ वचनम् । न चातिप्रसङ्ग:-[ सङ्के वाच्ये क एवेति ] अभेदरूपापन्ने ३५सनादौ तयटो बाधनार्थमिदम् । भेदरूपापन्ने तु तयडेव-चतुष्टये ब्राह्मणक्षत्रियविशूद्रा इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560