Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 501
________________ ४१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनिपातनस्येष्टविषयत्वादायन्तयोर्षर्तमानात्समानकालात्प्रथमान्तात्षष्ट्यर्थे इकेकणौ, अस्य चाकालादेशः समानकालावायन्तावस्याऽकालिकोऽनध्यायः । आकालिकी आकालिका विद्युत् । समानकालता चाद्यन्तयोः प्राग्वद्वेदितव्या ॥ ७२ ॥ मूल्यैः क्रीते ॥७३॥ [सि०६४।१५० ] ५ मूल्यार्थाद्वान्तात्क्रीतेऽर्थे इकणादयः स्युः । प्रास्थिकम् ॥७३॥ "मूल्यैः०" । पदान्तादिति तृतीयान्तादित्यर्थः । प्रस्थेन क्रीतं प्रास्थिकं इति-एवं सप्तत्या साप्ततिकं आशीतिकं नैष्किकं पाणिकं पादिकं त्रिंशकं विंशकं शत्यं शतिकम् । मूल्यैरिति किम् ? देवदत्तेन क्रीतम् , पाणिना क्रीतम् । वृत्तौ सयाविशेषानवगमाहिवचनबहुवचनान्तान भवति-प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति। यत्र तु सङ्ख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव-द्वाभ्यां क्रीतं द्विकम् , द्वाभ्यां प्रस्थाभ्यां क्रीतं १० द्विप्रस्थम् , यथा वा मुद्रः क्रीतं मौद्रिकम् , माषिकम् । न केन मुद्रेन माषेण वा क्रयः सम्भवति ॥ आदिशब्दोपादानात् "तस्य वापे" (६।४।१५१)। षष्ट्यन्ताद्वापेऽर्थे यथाविधि इकणादयः स्युः । उप्यतेऽस्मिन्निति वापः क्षेत्रम्, प्रस्थस्य वापः प्रास्थिकम् , द्रौणिकम् , मौद्रिकम् , शल्यम् , शतिकम् , खारीकम् । “वातपित्तश्लेष्मसन्निपाताच्छमनकोपने" (६।४।१५२) । एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे इकण् स्यात् । शाम्यति येन तच्छमनम् , कुप्यति येन तत्कोपनम् , वातस्य शमनं १५ कोपनं वा वातिकम् । पैत्तिकं श्लैष्मिकं सानिपातिकम् । पथ्यमपथ्यं वा द्रव्याघेवमभिधीयते, प्रकर णात्तु विशेषगतिः । "हेतौ संयोगोत्पाते” (६।४।१५३) षष्ठयन्ताद्धतावर्थे यथाविहितं प्रत्ययः स्यात् , योऽसौ हेतुः स चेत् संयोग उत्पातो वा स्यात् । हेतुर्निमित्तम् , संयोगः संबन्धः । प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः । शतस्य हेतुरीश्वरसंयोगः शत्यः, शतिकः, साहस्रः । सोमग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः । सांसामिकमिन्द्रधनुः । सौभिक्षिकः परिवेषः । २० शतस्य हेतुर्दक्षिणाक्षिस्पन्दनं शत्यं शतिकम् । साहस्रम् । “पुत्रायेयौ" (६।४।१५४ ) पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः, पुत्रीयः । "द्विखरब्रह्मवर्चसाद्योऽसङ्ख्यापरिमाणाश्चादे" (६।४।१५५)। सङ्ख्यापरिमाणाश्वादिवर्जाहिवरान्नाम्नो ब्रह्मवर्चसशब्दाच्च षष्ठ्यन्ताद्धेतावर्थे यः स्यात् , स चेद्धेतुः संयोग उत्पातो वा स्यात् । इकणादीनामपवादः । धनस्य हेतुः संयोग उत्पातो वा धन्यः । यशस्यः, आयुष्या, वात्या विद्युत् । ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । कथं गोर्हेतुः २५ संयोग उत्पातो वा गव्यः द्विखराभावात् ? उच्यते "गोः खरे यः" (६।१।२७) इति भवति । ब्रह्मवर्चसग्रहणमद्विखरार्थम् । सङ्ख्यादिवर्जनं किम् ? पश्चानां हेतुः संयोग उत्पातो वा पञ्चकः । प्रास्थिकः । खारीकः । “ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः" ॥ १॥ एवं आश्विकः, गाणिकः । अश्व, गण, वसु, वस्त्र, ऊर्णा, उमा, भङ्गा, वर्षा, (अश्मन् ? ) इत्यश्वादयोऽष्टौ ॥ "पृथिवीसर्वभूमेरीशज्ञातयोश्वाञ् (६।४।१५६) । ३.आभ्यां षष्ठ्यन्ताभ्यां ईशशातयोरर्थयोस्तस्य हेतुः संयोग उत्पात इत्यस्मिन् विषये चाञ् स्यात् । ईशः स्वामी । पृथिव्या ईशः पार्थिवः, सर्वभूमेः सार्वभौमः, सर्वभूमेरनुशतिकादित्वादुभयपदवृद्धिः । प्रथिव्या ज्ञातः पार्थिवः-कर्तरि षष्ठीसंबन्धविवक्षायां वा । एवं सार्वभौमः । पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । एवं सार्वभौमः । ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशङ्काव्यवच्छेदार्थम् । ( हेतुविशेषणत्वे संयोग उत्पात ईशज्ञातेत्यर्थचतुष्टयं विज्ञायते ततश्च स तद्धेतुः संयोग उत्पात ईशो ज्ञातो ३५वा भवतीत्यर्थः स्यात् ) । "लोकसर्वलोकात् ज्ञाते" (६४१५७) । औत्सर्गिक इकण् स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560