Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 469
________________ ३८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवत्प्रत्ययः स्यात् । यथा भवति बिदानामकः बैदः । गार्गः, दाक्षः, इति "सङ्घयोषाऽङ्कः” (६।३।१७२) इत्यादिनाण् , तथेहापि विदेभ्य आगतं बैदम् , गार्गम् , दाक्षम् । अङ्कग्रहणेन "तस्येदम्" (६।३।१६०) इत्यर्थसामान्य लक्ष्यते, तेनाऽकञोऽप्यतिदेशः । अन्यथा सङ्घायण एव स्यात् । तेन यथा भवति औपगवकः कापटवकः नाडायनकः गाायणकः इति "गोत्राददण्ड०" (६।३।१६९) इत्यादिनाकञ् , ५तथेहापि औपगवेभ्य आगत औपगवकः । कापटवकः । नाडायनकः । गाायणकः । एवं "रैवतिकाऽऽदेरीयः" (६।३।१७०)। रैवतिकेभ्य आगतं रैवतिकीयम् । “कोपिञ्जलहास्तिपदादण्” (६।३।१७१) कौपिञ्जलादागतं कौपिञ्जलं हास्तिपदम् । “नहेतुभ्यो रूप्यमयटौ वा” (६।३।१५६) नृवाचिभ्यो हेतुवाचिभ्यश्च आगतेऽर्थे एतौ स्याताम् । पक्षे यथाप्राप्तम् । वचनभेदाद्यथासङ्ख्याऽभावः । हेतुः कारणम्, नृग्रहणमहेत्वर्थम् । देवदत्तादागतं देवदत्तरूप्यम् , देवदत्तमयम् ; पक्षे दैवदत्तम् । १० अत्रापादानपञ्चमी । हेतुः कारणम् , समादागतं समरूप्यम् सममयम ; पक्षे गहादिपाठादीयः समी यम् । पापमयम् पक्षे "दोरीयः" (६।३।३२) पापीयम् । अत्र हेतौ पश्चमी । टकारो ड्यर्थः-सममयी । बहुवचनं स्वरूपव्युदासार्थम् । * इति तत आगते इत्यधिकारः ॥ अथ ततः प्रभवत्यधिकारः। १५ तत्र "प्रभवति" ( ६।३।१५७ ) इति सूत्रम् । अनयोरर्थयोरित्यादि स्पष्टम् । अत्रायमर्थः-पञ्च म्यन्तात्प्रथमं प्रकाशमानेऽर्थे यथाविहितं प्रत्ययाः स्युः । प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति जायमान इत्याहुः । “जाते" ( ६।३।९८) इति भूते सप्तम्यन्तात्प्रत्ययः, अत्र तु पञ्चम्यन्ताद्वर्त्तमान इति विशेषः । हैमवती गङ्गेति-हिमवतः प्रभवति प्रथममुपलभ्यते इति । एवं दारदीसिन्धुः । काश्मी रीवितस्ता । काश्मीरशब्दाद् "बहुविषयेभ्यः” (६।३।४५) इत्यकोऽपवादः कच्छाद्यण् । २० अत्रादिशब्दोपादानात् । “वैडूर्यः” (६।३।१५८) विडूरशब्दात्प्रभवत्यर्थे ज्यो निपात्यते । विडूरात्प्रभवति वैडूर्यो मणिः । विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । वालवायात्तु पर्वतात्प्रभवन्नसौ न मणिः किन्तु पाषाणः । यदा तु जायमानतार्थः प्रभवशब्दस्तदा वालवायशब्दस्य ब्यस्तत्सन्नियोगे विडूरादेशश्च निपात्यते । वालवायपर्याय एव वा विडूरशब्दः । प्रतिनियतविषयाश्च रूढय इति वैयाकरणानामेव [ विडूरशब्दस्य वालवाये ] प्रसिद्धिः [ नान्येषाम् ] । यथा २५ जित्वरीशब्दस्य वाराणस्यां वणिजामेव । वालवायशब्दात्तु ईयप्रत्ययोऽनभिधानान्न भवति । "त्यदादेर्मयट्" (६।३।१५९) । प्रभवत्यर्थे तन्मयं तन्मयी ॥ ५९॥ +8 इति ततः प्रभवति इत्यभिकारः ॥ 8 तस्येदम् ॥ ६॥ [सि० ६।३।१६० ] षष्ठ्यन्तादसिन्नर्थेऽणादयः स्युः । आर्षम् ॥ ६०॥ ३० "तस्येदम् ।” षष्ठ्यन्तादित्यादि-षष्ट्यन्तादिदमर्थे यथाविहितमणादय एयणादयश्च स्युः । आर्षमिति-ऋषीणामिदमार्षम् । एवं सौनम् । माथुरम् , दैत्यम् , बार्हस्पत्यम् , कालेयम् , आग्नेयम् , औत्सम् , स्त्रैणम् , पौंस्नम् , गव्यम् , नादेयम् , राष्ट्रियम् । पारीणा, भावनीयः, श्यामगवीयः, पाटलीपुत्रकः प्राकारः । इह त्वनभिधानान्न भवति-देवदत्तस्यान्तरः, ग्रामस्य समीपम्, विंशतेरवयव एकः, शतस्य द्वौ, सहस्रस्य पञ्च, तस्येति षष्ठ्यर्थमात्रमिदमिति षष्ठ्यर्थसम्बन्धिमानं च विवक्षितम् । ३५ यदन्यलिङ्गसङ्ख्या प्रत्यक्षपरोक्षत्वादिकं तदविवक्षितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560