Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 483
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसिद्ध एव । सामर्थ्याददेशार्थः पाठः । विदेहानामान"नां च क्षत्रियाणामिदं वैदेहकम् । आनर्तकम् । पाठेयपाथेययोर्योपान्त्यत्वादकम् सिद्धोऽदेशार्थः पाठः। पठेः पठाया वाऽपत्यं पाठेयः तस्येदं पाठेयकम् ॥ "सौवीरेषु कूलात्" ( ६।३।४७) अकञ् । सौवीरदेशवाचिनः कुलशब्दादकम् स्यात् । कौलकः सौवीरेषु; कौलोऽन्यत्र ॥ "समुद्रानुनावोः" (६।३।४८) अकन् । सामुद्रको मनुष्यः । सामुद्रिका ५ नौः । नृनावोरिति किम् ? सामुद्रं लवणम् ॥ "अरण्यात्पथिन्यायाऽध्यायेभनरविहारे" (६।३।५१) आरण्यकः पन्थाः, न्यायोऽध्याय इभो नरो विहारो वा । पथ्यादाविति किम् ? आरण्याः सुमनसः । “गोमये वा” ( ६।३।५२) आरण्यका गोमयाः, आरण्यानि गोमयानि । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति-आरण्यिका आरण्या हस्तिनी । एके तु नरवर्ज पूर्वसूत्रे विकल्पमाहुः-आरण्यः आरण्यकः पन्थाः इत्यादि ॥ "कुरुयुगन्धराद्वा” (६।३५३)। आभ्यां देश१० वाचिभ्यामकञ् स्यात् । कुरुषु भवः कौरवकः कौरवः, युगन्धरेषु यौगन्धरकः यौगन्धरः । राष्ट्रश ब्दावेतौ बहुविषयौ च, तत्र युगन्धरात् "बहुविषयेभ्यः" इति नित्यमकनि प्राप्ते विकल्पः, कुरोस्त्वकबः कच्छायणा बाधितस्य प्रतिप्रसवार्थ वचनम् । तथा च विकल्पः सिद्ध एव, युगन्धरार्था तु विभाषा । नृनृस्थयोस्तु कुरोः परत्वादकव-कौरवको मनुष्यः, कौरवकमस्य हसितम् ॥ "साल्वा द्गोयवाग्वपत्तौ” (६।३।५४) । साल्वाद्देशवाचिनो गवि यवाग्वां पत्तिवर्जिते मनुष्ये च शेषेऽर्थेs१५ कञ् स्यात् । साल्वको गौः । साल्विका यवागूः । साल्वको मनुष्यः । गोयवाग्वपत्ताविति किम् ? साल्वा ब्रीहयः, साल्वः पत्तिः । राष्ट्रेभ्योऽकभि कच्छाद्यणा बाधिते गोयवागूग्रहणं प्रतिप्रसवार्थम् , अपत्तीति पत्तिप्रतिषेधात्तत्सदृशे मनुष्ये विधिः, तत्र चोत्तरेण सिद्ध एवाकलि नरि नियमार्थमपत्तिग्रहणम् । एवं च गोयवाग्वोः पत्तिवर्जिते च मनुष्ये मैनुष्यस्थे च हसितादौ साल्वकः, अन्यत्र साल्व इति स्थितम् । अयं च विभागः सैल्वशब्दस्यादोरपि ज्ञेयः ॥ “कच्छाऽऽदेनस्थे" (६।३।५५) २० कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे च शेषेऽर्थेऽकञ् स्यात् । अणोऽपवादः (कोपान्त्याच इति सामान्येन प्राप्तस्य ) । काच्छको मनुष्यः । काच्छकमस्य हसितं स्मितं जल्पितमीक्षितम् । काच्छिका चूला । सैन्धवको मनुष्यः, सैन्धवकमस्य हसितम् , सैन्धविका चूला । नृनृस्थ इति किम् ? काच्छो गौः, सैन्धवं लवणम् , कच्छ, सिन्धु, वर्ण, मधुमत् , कम्बोज, साल्व, कुरु, अनुषण्ड, अनूषण्ड कश्मीर, १० विजापक, द्वीप, अनूप, अजवाह, कुलूत, रकु, गन्धार, साल्वेय, यौधेय, सस्थाल, २० सिन्ध्वन्त, २१ २५ इति कच्छादय एकविंशतिः । कच्छादयो ये बहुविषया राष्ट्रशब्दास्तेभ्यो "बहुविषयेभ्य" ( ६।३।४५) इत्यकञ् सिद्ध एव, उत्तरेण त्वणा बाधो मा भूदिति पुनर्विधीयते । वर्णसिन्धुभ्याम् "उवर्णादिकण्" (६।३।३९) इतीकणि तदपवादे कच्छाद्यणि, कुरोः “कुरुयुगन्धराद्वा" (६।३।५३) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि प्राप्तेऽकविधिः । अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ॥"कोपान्त्याचाऽण्” (६।३।५६) देशादित्येव वर्त्तते, न नृनृस्थ इति । कोपान्त्या कच्छादेश्व देशवाचिनः शेषेऽर्थेऽण् स्यात् । ईकणकबोरपवादः । कोपान्त्य. ऋषिका जनपदः तेषु जात ३१ आर्षिकः । महिषकेषु माहिषकः । अश्मकेषु आश्मकः । इक्ष्वाकुषु ऐक्ष्वाकः । कच्छादि. काच्छः, १नरि साल्वशब्दात् यद्यकञ् भवति, तदा अपत्तावेव न पत्तौ । २ ननु गोयवाग्वपत्तावित्युच्यमाने मनुष्यस्थः कथं न लभ्यते, नहि मनुष्यस्थः प्रहासादिौर्यवागूरपत्तिर्वा भवति, न च पत्तेरन्यमात्रमपत्तिः, अपि तु मनुष्योऽन्यथा साल्वा व्रीहय इत्यत्राप्यकञ् प्राप्नोति, तथा च गोयवागूग्रहणमनर्थकं स्यात्तत्राप्यपत्तावित्येव सिद्धे । उच्यते । अपत्तिग्रहणं 'कच्छादेनृस्थे' इत्यकत्रि सिद्धे अपत्तेावृत्त्यर्थ क्रियते न तु विध्यर्थम् , तेन यथा अपत्तौ मनुष्ये भवति तथा मनुष्यस्थेऽपि; तितः प्रत्ययस्याव्यावर्तितखात् । ३ उपलक्षणलादेकदेश विकृतस्यानन्यवादा। ४ 'उवर्णादिकण' 'बहुविषयेभ्यः' इत्यनयोः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560