Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 498
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । यातीत्याद्यर्थाः आदिशब्दोपादानात् "शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहृते च" (६।४। ९०)। एतत्सप्तपूर्वात्तृतीयान्तात्पथिन्शब्दादाहृते याति चार्थे इकण् स्यात् । शङ्खपथेनाहतो याति वा शाकुपथिकः । एवं औत्तरपथिकः, कान्तारपथिकः, आजपथिकः, वारिपथिकः, स्थालपथिका, जाङ्गलपथिकः ॥ "स्थलादेर्मधुकमरिचेऽण्" (६।४।९१) । स्थलपूर्वात्पथिमन्तात्तृतीयान्तादाहृतेऽर्थेऽण् स्यात् , तश्चेदाहृतं मधुकं मरिचं वा स्यात् । स्थालपथम् , अन्यत् स्थालपथिकम् । “तुराय-५ णपारायणं यजमानाऽधीयाने" (६।४।९२) । आभ्यां द्वितीयान्ताभ्यामनयोरर्थयोरिकण् स्यात् । तुरायणं नाम यज्ञस्तं यजते तौरायणिकः । पारायणमधीते पारायणिकः । “संशयं प्राप्ते ज्ञेये" (६।४।९३)। द्वितीयान्तादस्मात्प्राप्ते इकण् स्यात् , स चेत्प्राप्तोऽर्थो ज्ञेयः स्यात् । संशयं प्राप्तः सांशयिकः । सांशयिकोऽयमूर्हो न जाने स्थाणुरुत पुरुषो वेति । शेय इति किम् ? संशयितरि माभूत्-सोऽपि संशयं प्राप्तो भवति, तस्य तत्र भावात् ॥ "तस्मै योगादेः शक्ते" (६।४।९४)।१० एभ्यश्चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण स्यात् । योगाय शक्तः यौगिकः । योग, सन्ताप, सन्नाह, सङ्घाम, संयोग, संपराय, सङ्घात, सम्पाद, सम्पादन, सङ्कम, १० सम्पेष, संवेश, सम्मोहन, निष्पेष, निःसर्ग, निर्घोष, निसर्ग, विसर्ग, उपसर्ग, प्रवास, २० उपवास, सक्तु, मांस, ओदन, मांसौदन, सक्तुमांसौदन, २६ इति योगादयः षड्विंशतिः ॥ "योगकर्मभ्यां योऽको” (६।४।९५)। आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं एतौ स्याताम् । योगाय शक्तो योग्यः । कर्मणे शक्तं कार्मुकम् । एवं १५ योगशब्दस्य द्वैरूप्यम् ॥ “यज्ञानां दक्षिणायाम्" (६।४।९६)। एभ्यः षष्ठ्यन्तेभ्योऽस्मिन्नर्थे इकण् स्यात् । यज्ञकर्मकृतां वेतनादानं दक्षिणा । अमिष्टोमस्य दक्षिणा आमिष्टोमिकी । वाजपेयिकी, राजसूयिकी, नावयज्ञिकी, पाञ्चौदनिकी, ऐकादशाहिकी, द्वादशाहिकी, द्वैवाजकोपेयिकी । बहुवचनं स्वरूपविधिव्युदासार्थम् ॥ “तेषु देये" (६।४।९७)। सप्तम्यन्तेभ्यो यज्ञेभ्यो देये इकण् स्यात् । अग्निष्टोमे देयं आमिष्टोमिकं भक्तम् ॥ "काले कार्ये च भववत्" (६।४।९८)। सप्तम्यन्तात्कालवाचिनो २० देये कार्ये च भववत्प्रत्ययाः स्युः । वत्सर्वसादृश्यार्थः, ततो याभ्यः प्रकृतिभ्यो येन विशेषेण भवेऽर्थे प्रत्ययाः स्युस्ताभ्यस्तेन विशेषेण देये कार्ये चार्थे त एव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् , मासिकम् , नैशं नैशिकम् , चिरत्नं चिरन्तनम् , हैमन्तं हैमनम् । एवं वर्षासु देयं कार्य या वार्षिकमित्यादि । प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगोः परस्य लुप् न भवति । द्वयोर्मासयोर्देयं कार्य वा द्वैमासिकम् ॥ "व्युष्टादिष्व" (६।४।९९) । एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण २५ स्यात् । व्युष्टे देयं कार्य वा वैयुष्टम् , नैत्यम् । व्युष्टसाहचर्यानित्यशब्दः कालवाची गृह्यते, ततः "कालाध्वनोः” (२१२।४२) इति सप्तम्यपवादेन द्वितीया, निसं देयं कार्य चेति द्वितीयान्तादेव प्रत्ययः । अन्ये तु सप्तम्यन्तादपीच्छन्ति-निये विषुवति षड्भिश्वराचरैः मुहूतैरनाक्रम्यमाणे देयं कार्य वा नैत्यम् । व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, तीर्थ, संप्राम, संघात, अग्निपद, पीलुमूल, प्रवास, उपवास, इति व्युष्टादय एकादश । बहुवचनादाकृतिगणोऽयम् ॥ “यथाकथाचाण्णः " (६।४।३० १००) । यथाकथाचशब्दोऽव्ययसमुदायोऽनादरेणेत्यर्थे, तस्माइये कार्ये णः स्यात् । यथाकथाच दीयते याथाकथाचम् । याथाकथाचा दक्षिणा ॥ "तेन हस्ताद्यः" (६।४।१०१) तृतीयान्तात् हस्तात् देये कार्ये चार्थे यः स्यात् । हस्तेन देयं कार्य वा हस्त्यम् ॥ “शोभमाने" (६।४।१०२) तृतीयान्तादस्मिन् अर्थे इकण् स्यात् । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । असमर्थनमसमासोऽप्यत्र स्यात्-कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् ॥ “कर्मवेषाया" (६।४।१०३) । आभ्यां तृतीयान्ताभ्यामुक्तेऽर्थे यः स्यात् । कर्मणा शोभते कार्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः ।३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560